Thursday, January 26, 2023

13th Chapter 1st Sloka

 श्रीभगवानुवाच ।

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३.१॥

 

śrībhagavānuvāca |

idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate |

etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13.1||

 

श्रीभगवान् 1/1 उवाच III/1

इदम् 1/1 शरीरम् 1/1 कौन्तेय S/1 क्षेत्रम् 1/1 इति 0 अभिधीयते III/1

एतत् 2/1 यः 1/1 वेत्ति III/1 तम् 2/1 प्राहुः III/3 क्षेत्रज्ञः 1/1 इति 0 तद्-विदः 1/3 ॥१३.१॥

 

·       श्रीभगवान् [śrībhagavān] = Śrī Bhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·       इदम् [idam] = this = इदम् (pron.) n. + adj. to शरीरम् 1/1

·       शरीरम् [śarīram] = body = शरीर (n.) + कर्मणि to अभिधीयते 1/1

·       कौन्तेय [kaunteya] = O Kaunteya!= कौन्तेय + सम्बोधने 1/1

·       क्षेत्रम् [kṣetram] = the field = क्षेत्र (n.) + S.C to शरीरम् 1/1

·       इति [iti] = thus = अव्ययम्

·       अभिधीयते [abhidhīyate] = is called = अभि + धा to name + लट्/कर्मणि/III/1

·       एतत् [etat] = this = एतद् (pron.) n. (pointing to क्षेत्रम्) + कर्मणि to वेत्ति 2/1

·       यः [yaḥ] = the who = यद् (pron.) m. + कर्तरि to वेत्ति 1/1

·       वेत्ति [vetti] = knows = विद् (2P) to know + लट्/कर्तरि/III/1

·       तम् [tam] = him = तद् (pron.) m. (corresponding to यः, one who knows the field) + कर्मणि to प्राहुः 2/1

·       प्राहुः [prāhuḥ] = say = प्र + ब्रू (2U) to say + लट्/कर्तरि/III/3

·       क्षेत्रज्ञः [kṣetrajñaḥ] = the knower of the field = क्षेत्रज्ञ (m.) + कर्तरि to (भवति) 1/1

o   क्षेत्रं जानाति इति क्षेत्रज्ञः । (UT)

o   क्षेत्र + ङस् + ज्ञा + क (3.2.3 आतोऽनुपसर्गे कः ।)

·       इति [iti] = thus = अव्ययम्

·       तद्-विदः [tad-vidaḥ] = those who know that = तद्विद् m. + कर्तरि to प्राहुः 1/3

o   (क्षेत्रं क्षेत्रज्ञं च) तौ विदन्ति तद्विदः । (UT)

o   तद् + ओस् + विद् + क्विप् (3.2.76 क्विप् च ।)

 

 

Śrī Bhagavān said:

Kaunteya (Arjuna)! This body is called “filed”. The one who knows this (field) is “the knower of the field;” thus say those who know that.

 

 

Sentence 1:

Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1):

 

Sentence 2:

Kaunteya (Arjuna) (कौन्तेय S/1)! This (इदम् 1/1) body (शरीरम् 1/1) is called (अभिधीयते III/1) “filed” (क्षेत्रम् 1/1 इति 0).

 

Sentence 3:

Those who know that (तद्-विदः 1/3) call (प्राहुः III/3) the one (तम् 2/1) who (यः 1/1) knows (वेत्ति III/1) this (एतत् 2/1) (field) as “the knower of the field” (क्षेत्रज्ञः 1/1 इति 0).

 

 

सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्य त्रिगुणात्मिका अष्टधा भिन्ना अपरा, संसारहेतुत्वात् ; परा च अन्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिका याभ्यां प्रकृतिभ्यामीश्वरः जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यते । तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्यायः आरभ्यते । अतीतानन्तराध्याये च अद्वेष्टा सर्वभूतानाम्’(भ. गी. १२ । १३) इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतत् उक्तम् । केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणात् भगवतः प्रिया भवन्तीति एवमर्थश्च अयमध्यायः आरभ्यते । प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते । सोऽयं सङ्घातः इदं शरीरम् । तदेतत् भगवान् उवाच

श्रीभगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

इदम् इति सर्वनाम्ना उक्तं विशिनष्टि शरीरम् इति । हे कौन्तेय, क्षतत्राणात् , क्षयात् , क्षरणात् , क्षेत्रवद्वा अस्मिन् कर्मफलनिष्पत्तेः क्षेत्रम् इति इतिशब्दः एवंशब्दपदार्थकः क्षेत्रम् इत्येवम् अभिधीयते कथ्यते एतत् शरीरं क्षेत्रं यः वेत्ति विजानाति, आपादतलमस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञः इति इतिशब्दः एवंशब्दपदार्थकः एव पूर्ववत् क्षेत्रज्ञः इत्येवम् आहुः । के ? तद्विदः तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः ॥ १ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.