नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ १८.७ ॥
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ || 18.7 ||
नियतस्य 6/1 तु 0 संन्यासः 1/1 कर्मणः 6/1 न 0 उपपद्यते III/1।
मोहात् 5/1 तस्य 6/1 परित्यागः 1/1 तामसः 1/1 परिकीर्तितः 1/1॥ १८.७ ॥
· नियतस्य [niyatasya] = of what is enjoined = नियत (m.) + adj. to कर्मणः 6/1
· तु [tu] = but = अव्ययम्
· संन्यासः [saṃnyāsaḥ] = renunciation = संन्यास (m.) + कर्तरि 1/1
· कर्मणः [karmaṇaḥ] = of action = कर्मन् (n.) + सम्बन्धे to संन्यासः 6/1
· न [na] = not = अव्ययम्
· उपपद्यते [upapadyate] = is proper = उप + पद् (4A) to be proper + लट्/कर्तरि/III/1
· मोहात् [mohāt] = out of delusion = मोह (m.) + हेतौ 5/1
· तस्य [tasya] = of that (renunciation) = तद् (pron.), pointing to कर्मणः + सम्बन्धे to परित्यागः 6/1
· परित्यागः [parityāgaḥ] = abandonment = परित्याग (m.) + कर्तरि to (भवति) 1/1
· तामसः [tāmasaḥ] = tāmasic = तामस (m.) + S.C. to परित्यागः 1/1
· परिकीर्तितः [parikīrtitaḥ] = is called = परिकीर्तित (m.) + S.C. to परित्यागः 1/1
o परि + कॄत् + क्त (कर्मणि)
Renunciation of enjoined action is not proper. Renunciation of it (enjoined action), out of delusion, is called tāmasika.
Sentence 1:
नियतस्य 6/1 तु 0 कर्मणः 6/1 संन्यासः 1/1 न 0 उपपद्यते III/1।
Renunciation (संन्यासः 1/1) of enjoined (नियतस्य 6/1 तु 0) action (कर्मणः 6/1) is not proper (न 0 उपपद्यते III/1).
Sentence 2:
मोहात् 5/1 तस्य 6/1 परित्यागः 1/1 तामसः 1/1 परिकीर्तितः 1/1॥
Renunciation (परित्यागः 1/1) of it (तस्य 6/1) (enjoined action), out of delusion (मोहात् 5/1), is called (परिकीर्तितः 1/1) tāmasika (तामसः 1/1).
तस्मात् अज्ञस्य अधिकृतस्य मुमुक्षोः —
नियतस्य 6/1 तु 0 नित्यस्य संन्यासः 1/1 परित्यागः कर्मणः 6/1 न 0 उपपद्यते III/1, अज्ञस्य पावनत्वस्य इष्टत्वात् । मोहात् 5/1 अज्ञानात् तस्य 6/1 नियतस्य परित्यागः 1/1 — नियतं च अवश्यं कर्तव्यम् , त्यज्यते च, इति विप्रतिषिद्धम् ; अतः मोहनिमित्तः परित्यागः तामसः 1/1 परिकीर्तितः 1/1 मोहश्च तमः इति ॥ १८.७॥