Thursday, May 18, 2023

13th Chapter 31st Sloka

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।

शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३.३१ ॥

 

anāditvānnirguṇatvātparamātmāyamavyayaḥ |

śarīrastho'pi kaunteya na karoti na lipyate || 13.31 ||

 

अनादित्वात् 5/1 निर्गुणत्वात् 5/1 परमात्मा 1/1 अयम् 1/1 अव्ययः 1/1

शरीरस्थः 1/1 अपि 0 कौन्तेय S/1 0 करोति III/1 0 लिप्यते III/1 ॥ १३.३१ ॥

 

Kaunteya! This limitless self, being beginningless and without attributes, is imperishable. Even though obtaining in the body, it does not perform action, and is not affected (by result of actions).

 

Kaunteya (कौन्तेय S/1)! This (अयम् 1/1) limitless self (परमात्मा 1/1), being beginningless (अनादित्वात् 5/1) and without attributes (निर्गुणत्वात् 5/1), is imperishable (अव्ययः 1/1). Even though (अपि 0) obtaining in the body (शरीरस्थः 1/1), it does not ( 0) perform action (करोति III/1), and is not ( 0) affected (लिप्यते III/1) (by result of actions).

 

·       अनादित्वात् [anāditvāt] = because of being beginningless = अनादित्व (n.) + हेतौ 5/1

·       निर्गुणत्वात् [nirguṇatvāt] = because of being without attributes = निर्गुणत्व (n.) + हेतौ 5/1

·       परमात्मा [paramātmā] = limitless self = परमात्मन् (m.) + कर्तरि to (भवति) 1/1

·       अयम् [ayam] = this = इदम् m. + adj. to परमात्मा 1/1

·       अव्ययः [avyayaḥ] = imperishable = अव्यय m. + S.C. to परमात्मा 1/1

·       शरीरस्थः [śarīrasthaḥ] = obtaining in the body = शरीरस्थ m. + कर्तरि to करोति/कर्मणि to लिप्यते 1/1

·       अपि [api] = even though= अव्ययम्

·       कौन्तेय [kaunteya] = Kaunteya! = कौन्तेय m. + सम्बोधने 1/1

·       [na] = not = अव्ययम्

·       करोति [karoti] = does action = कृ to do + लट्/कर्तरि/III/1

·       [na] = not = अव्ययम्

·       लिप्यते [lipyate] = is affected = लिप् + लट्/कर्मणि/III/1

 

अन्वयः

कौन्तेय S/1 (यतः) अयम् 1/1 परमात्मा 1/1 अनादित्वात् 5/1 निर्गुणत्वात् 5/1 अव्ययः 1/1(ततः) शरीरस्थः 1/1 अपि 0 0 करोति III/1 0 लिप्यते III/1 ॥ १३.३१ ॥

 

भाष्यम्

एकस्य आत्मानः सर्वदेहात्मत्वे तद्दोषसम्बन्धे प्राप्ते, इदम् उच्यते

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।

शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

अनादित्वात् अनादेः भावः अनादित्वम् , आदिः कारणम् , तत् यस्य नास्ति तत् आनादि । यद्धि आदिमत् तत् स्वेन आत्मना व्येति ; अयं तु अनादित्वात् निरवयव इति कृत्वा न व्येति । तथा निर्गुणत्वात् । सगुणो हि गुणव्ययात् व्येति ; अयं तु निर्गुणत्वाच्च न व्येति ; इति परमात्मा अयम् अव्ययः ; न अस्य व्ययो विद्यते इति अव्ययः । यत एवमतः शरीरस्थोऽपि, शरीरेषु आत्मनः उपलब्धिः भवतीति शरीरस्थः उच्यते ; तथापि करोति । तदकरणादेव तत्फलेन लिप्यते । यो हि कर्ता, सः कर्मफलेन लिप्यते । अयं तु अकर्ता, अतः न फलेन लिप्यते इत्यर्थः ॥

कः पुनः देहेषु करोति लिप्यते च ? यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते च, ततः इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वम् क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इत्यादि । अथ नास्ति ईश्वरादन्यो देही, कः करोति लिप्यते च ? इति वाच्यम् ; परो वा नास्ति इति सर्वथा दुर्विज्ञेयं दुर्वाच्यं च इति भगवत्प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः साङ्ख्यार्हतबौद्धैश्च । तत्र अयं परिहारो भगवता स्वेनैव उक्तः स्वभावस्तु प्रवर्तते’ (भ. गी. ५ । १४) इति । अविद्यामात्रस्वभावो हि करोति लिप्यते इति व्यवहारो भवति, न तु परमार्थत एकस्मिन् परमात्मनि तत् अस्ति । अतः एतस्मिन् परमार्थसाङ्ख्यदर्शने स्थितानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां तिरस्कृताविद्याव्यवहाराणां कर्माधिकारो नास्ति इति तत्र तत्र दर्शितं भगवता ॥ ३१ ॥

 

13th Chapter 30th Sloka

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३.३० ॥

 

yadā bhūtapṛthagbhāvamekasthamanupaśyati |

tata eva ca vistāraṃ brahma sampadyate tadā || 13.30 ||

 

यदा 0 भूतपृथग्भावम् 2/1 एकस्थम् 2/1 अनुपश्यति III/1

ततः 0 एव 0 0 विस्तारम् 2/1 ब्रह्म 2/1 सम्पद्यते III/1 तदा 0 ॥ १३.३० ॥

 

When one sees clearly, the condition of distinction in the beings, as having its existence in one (ātman), and from that alone is its projection (distinction), then he gains Brahman.

 

When (यदा 0) one sees clearly (अनुपश्यति III/1), the condition of distinction in the beings (भूतपृथग्भावम् 2/1), as having its existence in one (ātman) (एकस्थम् 2/1), and ( 0) from that (ततः 0) alone (एव 0) is its projection (विस्तारम् 2/1) (distinction), then (तदा 0) he gains (सम्पद्यते III/1) Brahman (ब्रह्म 2/1).

 

·       यदा [yadā] = when = अव्ययम्

o   यस्मिन् काले । यद् + ङि + दा 5.3.15 सर्वैकान्यकिंयत्तदः काले दा । ~ सप्तम्याः

·       भूतपृथग्भावम् [bhūtapṛthagbhāvam] = the condition of distinction in the beings = भूतपृथग्भाव (m.) + कर्मणि to अनुपश्यति 2/1

o   भूतानां पृथग्भावः भूतपृथग्भावः (6T), तम् ।

·       एकस्थम् [ekastham] = having its existence in one (ātman) = एकस्थ m. + O.C. भूतपृथग्भावम् 2/1

o   एकस्मिन् तिष्ठति । एक + ङि + स्था + क  3.2.4 सुपि स्थः । ~ कः

·       अनुपश्यति [anupaśyati] = sees = अनु + दृश् + लट्/कर्तरि/III/1

o   शास्त्राचार्योपदेशम् अनु पश्यति ।

·       ततः [tataḥ] = from that = अव्ययम्

o   तद् + ङसिँ + तसिँल्              5.3.7 पञ्चम्यास्तसिल् । ~ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः

·       एव [eva] = alone = अव्ययम्

·       [ca] = and = अव्ययम्

·       विस्तारम् [vistāram] = projection = विस्तार (m.) + कर्मणि to अनुपश्यति 2/1

·       ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + कर्मणि to सम्पद्यते 2/1

·       सम्पद्यते [sampadyate] = gains = सम् + पद् to obtain + लट्/कर्तरि/III/1

·       तदा [tadā] = then = अव्ययम्

 

अन्वयः

यदा 0 भूतपृथग्भावम् 2/1 एकस्थम् 2/1, ततः 0 एव 0 0 विस्तारम् 2/1, अनुपश्यति III/1,  तदा 0 ब्रह्म 2/1 सम्पद्यते III/1

 

भाष्यम्

पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥

यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वम् एकस्मिन् आत्मनि स्थितं एकस्थम् अनुपश्यति शास्त्राचार्योपदेशम् अनु आत्मानं प्रत्यक्षत्वेन पश्यति आत्मैव इदं सर्वम्’ (छा. उ. ७ । २५ । २) इति, तत एव तस्मादेव च विस्तारं उत्पत्तिं विकासम् आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नम्’ (छा. उ. ७ । २६ । १) इत्येवमादिप्रकारैः विस्तारं यदा पश्यति, ब्रह्म सम्पद्यते ब्रह्मैव भवति तदा तस्मिन् काले इत्यर्थः ॥ ३० ॥

 

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.