इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३.३४॥
indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayorna vaśamāgacchettau hyasya paripanthinau ||3.34||
इन्द्रियस्य 6/1 इन्द्रियस्य 6/1 अर्थे 7/1 रागद्वेषौ 1/2 व्यवस्थितौ 1/2 ।
तयोः 6/2 न 0 वशम् 2/1 आगच्छेत् III/1 तौ 1/2 हि 0 अस्य 6/1 परिपन्थिनौ 1/2 ॥३.३४॥
·
इन्द्रियस्य [indriyasya] = of sense organ = इन्द्रिय (n.) + 6/1
·
इन्द्रियस्य [indriyasya] = of sense organ = इन्द्रिय (n.) + 6/1
·
अर्थे [arthe] =
with reference to the object = अर्थ (m.) + अधिकरणे 7/1
·
रागद्वेषौ [rāgadveṣau] = attachment and aversion = रागद्वेष (m.) + Subject 1/2
·
व्यवस्थितौ [vyavasthitau] = are there = व्यवस्थित (m.) + Subjective complement 1/2
·
तयोः [tayoḥ] = of these two (राग and द्वेष) = तद् (pron. m.) + 6/2
·
वशम् [vaśam] =
hold = वश (m.) + कर्मणि to आगच्छेत् + कर्मणि to आगच्छेत् 2/1
·
न [na] = not = अव्ययम्
·
आगच्छेत् [āgacchet]
= should come uncer = आ गम् to come
under + विधिलिङ्/कर्तरि/III/1
·
तौ [tau] = they (राग and द्वेष) = तद् (pron. m.) + 1/2
·
हि [hi] = because = अव्ययम्
·
अस्य [asya] = one’s = इदम् (pron. m.) + 6/1
·
परिपन्थिनौ [paripanthinau] = enemies = परिपन्थिन् (m.) + ½
o
परि + पन्थ् (1P) to go + णिनि = परिपन्थिन्
There is attachment and aversion with
reference to every sense object. May one not come under the spell of these two
because they are one’s enemies.
Sentence 1:
इन्द्रियस्य 6/1 इन्द्रियस्य 6/1 अर्थे 7/1 रागद्वेषौ 1/2 व्यवस्थितौ 1/2 ।
There is (व्यवस्थितौ 1/2) attachment and aversion (रागद्वेषौ 1/2) with reference to object (अर्थे 7/1) of every sense (इन्द्रियस्य 6/1 इन्द्रियस्य 6/1).
Sentence 2:
तयोः 6/2 न 0 वशम् 2/1 आगच्छेत् III/1 तौ 1/2 हि 0 अस्य 6/1 परिपन्थिनौ 1/2 ॥३.३४॥
May one not (न 0) come under (आगच्छेत् III/1) the
spell (वशम् 2/1) of these two (तयोः 6/2) because (हि 0) they (तौ 1/2) are one’s (अस्य 6/1) enemies (परिपन्थिनौ 1/2).
यदि 0 सर्वः 1/1 जन्तुः 1/1 आत्मनः 6/1 प्रकृति-सदृशम् 2/1 एव 0 चेष्टते III/1, न 0 च 0 प्रकृति-शून्यः 1/1 कश्चित् 0 (1/1) अस्ति III/1, ततः 0 पुरुषकारस्य 6/1 विषय-उनुपपत्तेः 5/1 शास्त्र-आनर्थक्य-प्राप्तौ 7/1 इदम् 1/1 उच्यते III/1 --
इन्द्रियस्य 6/1 इन्द्रियस्य 6/1 अर्थे 7/1 रागद्वेषौ 1/2 व्यवस्थितौ 1/2 ।
तयोः 6/2 न 0 वशम् 2/1 आगच्छेत् III/1 तौ 1/2 हि 0 अस्य 6/1 परिपन्थिनौ 1/2 ॥३.३४॥
इन्द्रियस्य 6/1 इन्द्रियस्य 6/1 अर्थे 7/1 सर्वेन्द्रियाणाम् 6/3 अर्थे 7/1 शब्दादिविषये
7/1 इष्टे 7/1 रागः 1/1 अनिष्टे 7/1 द्वेषः 1/1 इति 0 एवम् 0 प्रति-इन्द्रिय-अर्थम् 0 रागद्वेषौ 1/2 अवश्यंभाविनौ
1/2 तत्र 0 अयम् 1/1 पुरुषकारस्य 6/1 शास्त्रार्थस्य
6/1 च 0 विषयः 1/1 उच्यते III/1।
शास्त्रार्थे 7/1 प्रवृत्तः 1/1 पूर्वम् 0 एव 0 रागद्वेषयोः 6/2 वशम् 2/1 न 0 आगच्छेत् III/1।
या 1/1 हि 0 पुरुषस्य 6/1 प्रकृतिः 1/1 सा 1/1 रागद्वेष-पुरःसरा
1/1 एव 0 स्वकार्ये 7/1 पुरुषम् 2/1 प्रवर्तयति III/1।
तदा 0 स्वधर्म-परित्यागः 1/1 परधर्म-अनुष्ठानम् 1/1 च 0 भवति III/1।
यदा 0 पुनः 0 (पुरुषः 1/1) राग-द्वेषौ 2/2 तत्प्रतिपक्षेण 3/1 नियमयति III/1 तदा 0 शास्त्र-दृष्टिः 1/1 एव 0 पुरुषः 1/1 भवति III/1, न 0 प्रकृतिवशः 1/1।
तस्मात् 5/1 तयोः 6/2 रागद्वेषयोः 6/2 वशम् 2/1 न 0 आगच्छेत् III/1, यतः 0 तौ 1/2 हि 0 अस्य 6/1 पुरुषस्य 6/1 परिपन्थिनौ 1/2 श्रेयोमार्गस्य
6/1 विघ्न-कर्तारौ
1/2 तस्करौ 1/2 इव 0 पथि 7/1 इत्यर्थः 1/1॥