शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८.१५ ॥
śarīravāṅmanobhiryatkarma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ || 18.15 ||
शरीर-वाङ्-मनोभिः 3/3 यत् 2/1 कर्म 2/1 प्रारभते III/1 नरः 1/1 ।
न्याय्यम् 2/1 वा 0 विपरीतम् 2/1 वा 0 पञ्च 1/3 एते 1/3 तस्य 6/1 हेतवः 1/3॥ १८.१५ ॥
· शरीर-वाङ्-मनोभिः [śarīra-vāṅ-manobhiḥ] = with body, speech, and mind = शरीरवाङ्मनस् (n.) + करणे to प्रारभते 3/3
· यत् [yat] = that which = यद् (pron.) + adj. to कर्म 2/1
· कर्म [karma] = action = कर्मन् (n.) + कर्मणि to प्रारभते 2/1
· प्रारभते [prārabhate] = undertakes = प्र + आङ् + रभ् (1A) to begin, undertake + लट्/कर्तरि/III/1
· नरः [naraḥ] = man = नर (m.) + कर्तरि to प्रारभते 1/1
· न्याय्यम् [nyāyyam] = proper = न्याय्य (n.) + adj. to कर्म 2/1
· वा [vā] = or = अव्ययम्
· विपरीतम् [viparītam] = opposite, improper = विपरीत (n.) + adj. to कर्म 2/1
· वा [vā] = or = अव्ययम्
· पञ्च [pañca] = five = पञ्चन् (m.) + adj. to एते 1/3
· एते [ete] = these = एतद् (pron.) + कर्तरि to (भवन्ति) 1/3
· तस्य [tasya] = of that (action) = तद् (pron.) + सम्बन्धे to हेतवः 6/1
· हेतवः [hetavaḥ] = causes = हेतु (m.) + S.C. to एते 1/3
That karma, whether proper or the opposite (improper), which a man undertakes with body, speech or mind, has these five causes.
Sentence 1:
नरः 1/1 न्याय्यम् 2/1 वा 0 विपरीतम् 2/1 वा 0 यत् 2/1 कर्म 2/1 शरीर-वाङ्-मनोभिः 3/3 प्रारभते III/1, तस्य 6/1 एते 1/3 पञ्च 1/3 हेतवः 1/3॥
That karma (कर्म 2/1), whether proper (न्याय्यम् 2/1 वा 0) or the opposite (विपरीतम् 2/1 वा 0) (improper), which (यत् 2/1) a man (नरः 1/1) undertakes (प्रारभते III/1) with body, speech or mind (शरीर-वाङ्-मनोभिः 3/3), has (तस्य 6/1) these (एते 1/3) five (पञ्च 1/3) causes (हेतवः 1/3).
शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः प्रारभते निर्वर्तयति नरः, न्याय्यं वा धर्म्यं शास्त्रीयम् , विपरीतं वा अशास्त्रीयम् अधर्म्यं यच्चापि निमिषितचेष्टितादि जीवनहेतुः तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीतयोरेव ग्रहणेन गृहीतम् , पञ्च एते यथोक्ताः तस्य सर्वस्यैव कर्मणो हेतवः कारणानि ॥
ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि । कथम् उच्यते ‘शरीरवाङ्मनोभिः यत् कर्म प्रारभते’ इति ?
नैष दोषः ; विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधानम् ; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशीकृतम् उच्यते शरीरादिभिः आरभ्यते इति ।
फलकालेऽपि तत्प्रधानैः साधनैः भुज्यते इति पञ्चानामेव हेतुत्वं न विरुध्यते इति ॥ १५ ॥