अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८.१२ ॥
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit || 18.12 ||
अनिष्टम् 1/1 इष्टम् 1/1 मिश्रम् 1/1 च 0 कर्मणः 6/1 त्रिविधम् 1/1 फलम् 1/1 ।
भवति III/1 अत्यागिनाम् 6/3 प्रेत्य 0 न 0 तु 0 संन्यासिनाम् 6/3 क्वचित् 0॥ १८.१२ ॥
· अनिष्टम् [aniṣṭam] = undesirable = अनिष्ट (n.) + कर्तरि to भवति 1/1
· इष्टम् [iṣṭam] = desirable = इष्ट (n.) + कर्तरि to भवति 1/1
· मिश्रम् [miśram] = mixed = मिश्र (n.) + कर्तरि to भवति 1/1
· च [ca] = and = अव्ययम्
· कर्मणः [karmaṇaḥ] = of action = कर्मन् (n.) + सम्बन्धे to फलम् 6/1
· त्रिविधम् [trividham] = three-fold = त्रिविध (n.) + adj. to फलम् 1/1
· फलम् [phalam] = result = फल (n.) + S.C. to अनिष्टम्, इष्टम्, and मिश्रम् 1/1
· भवति [bhavati] = exists, occurs = भू (1P) to be + लट्/कर्तरि/III/1
· अत्यागिनाम् [atyāginām] = of the non-renunciates = अत्यागिन् (m.) + सम्बन्धे to कर्मणः 6/3
· प्रेत्य [pretya] = after death = अव्ययम्
o प्र + इण् to go (beyond life) + ल्यप्
· न [na] = not = अव्ययम्
· तु [tu] = but = अव्ययम्
· संन्यासिनाम् [saṃnyāsinām] = of the renunciates = संन्यासिन् (m.) + सम्बन्धे to (कर्मणः फलम्) 6/3
· क्वचित् [kvacit] = ever/at any time = अव्ययम्
The three-fold result of action— undesirable, desirable, and a mixture— exists after death for the non-renunciates, but never for the renunciates.
Sentence 1:
कर्मणः 6/1 फलम् 1/1 त्रिविधम् 1/1 – अनिष्टम् 1/1 इष्टम् 1/1 मिश्रम् 1/1 च 0 – अत्यागिनाम् 6/3 प्रेत्य 0 भवति III/1, संन्यासिनाम् 6/3 तु 0 न 0 क्वचित् 0॥
The three-fold (त्रिविधम् 1/1) result (फलम् 1/1) of action (कर्मणः 6/1) — undesirable (अनिष्टम् 1/1), desirable (इष्टम् 1/1), and (च 0) a mixture (मिश्रम् 1/1) — exists (भवति III/1) after death (प्रेत्य 0) for the non-renunciates (अत्यागिनाम् 6/3), but (तु 0) never (न 0 क्वचित् 0) for the renunciates (संन्यासिनाम् 6/3).
किं पुनः तत् प्रयोजनम् , यत् सर्वकर्मसंन्यासात् स्यादिति, उच्यते —
अनिष्टं नरकतिर्यगादिलक्षणम् , इष्टं देवादिलक्षणम् , मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं च, तत्र त्रिविधं त्रिप्रकारं कर्मणः धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापारनिष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पि इव — फल्गुतया लयम् अदर्शनं गच्छतीति फलनिर्वचनम् — तत् एतत् एवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणां अपरमार्थसंन्यासिनां प्रेत्य शरीरपातात् ऊर्ध्वम् ।
न तु संन्यासिनां परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित् ।
न हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं न उन्मूलयति कदाचित् इत्यर्थः ॥ १२ ॥