Thursday, November 13, 2025

18th Chapter 3rd Sloka

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।

यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ १८.३ ॥

 

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ |

yajñadānatapaḥkarma na tyājyamiti cāpare || 18.3 ||

 

त्याज्यम् 1/1 दोषवत् 1/1 इति 0 एके 1/3 कर्म 1/1 प्राहुः III/3 मनीषिणः 1/3

यज्ञ-दान-तपःकर्म 1/1 0 त्याज्यम् 1/1 इति 0 0 अपरे 1/3 ॥ १८.३ ॥

 

 

·       त्याज्यम् [tyājyam] = to be abandoned, to be given up = त्याज्य (n.) + S.C. to कर्म 1/1

·       दोषवत् [doṣavat] = having defect, faulty = दोषवत् (n.) + S.C. to कर्म 1/1

o   दोषः अस्य अस्तीति दोषवत् । Or “as a defect” with वति by 5.1.115 तेनतुल्यं क्रिया चेद्वतिः । as adverbial.

·       इति [iti] = thus = अव्ययम्

·       एके [eke] = some (people) = एक (m.) + कर्तरि to प्राहुः 1/3

·       कर्म [karma] = action = कर्मन् (n.) + कर्तरि to (भवति) 1/1

·       प्राहुः [prāhuḥ] = (they) say = आह् (2P) to say + ट्/कर्तरि/III/3

·       मनीषिणः [manīṣiṇaḥ] = wise men = मनीषिन् (m.) + कर्तरि to प्राहुः 1/3

·       यज्ञदानतपःकर्म [yajñadānatapaḥkarma] = action which is ritual, charity, or religious discipline = यज्ञदानतपःकर्मन् (n.) + कर्तरि to (भवति) 1/1

o   यज्ञः च दानं च तपः च, तानि एव कर्म यज्ञदानतपःकर्म (KT)

·       न [na] = not = अव्ययम्

·       त्याज्यम् [tyājyam] = to be given up = त्याज्य (n.) + S.C. to यज्ञदानतपःकर्म 1/1

·       इति [iti] = thus = अव्ययम्

·       च [ca] = and = अव्ययम्

·       अपरे [apare] = others = अपर (m.) + कर्तरि to प्राहुः 1/3

 

 

Some wise men say that action, which is (inherently) defective, is to be given up, and others say that an action, which is a ritual, charity, or religious discipline should not be given up.

 

Sentence 1:

एके 1/3 मनीषिणः 1/3 कर्म 1/1 दोषवत् 1/1 त्याज्यम् 1/1 इति 0 प्राहुः III/3

Some (एके 1/3) wise men (मनीषिणः 1/3) say (प्राहुः III/3) that (इति 0) action (कर्म 1/1), which is (inherently) defective (दोषवत् 1/1), is to be given up (त्याज्यम् 1/1).

 

Sentence 2:

अपरे 1/3 0 यज्ञ-दान-तपः 1/1 कर्म 1/1 0 त्याज्यम् 1/1 इति 0 (प्राहुः III/3)

And ( 0) others (अपरे 1/3) say that an action (कर्म 1/1), which is a ritual, charity, or religious discipline (यज्ञ-दान-तपः 1/1) should not ( 0) be given up (त्याज्यम् 1/1).

 

 

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।

यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥

त्याज्यं त्यक्तव्यं दोषवत् दोषः अस्य अस्तीति दोषवत् । किं तत् ? कर्म बन्धहेतुत्वात् सर्वमेव ।

अथवा, दोषः यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहुः मनीषिणः पण्डिताः साङ्ख्यादिदृष्टिम् आश्रिताः, अधिकृतानां कर्मिणामपि इति ।

तत्रैव यज्ञदानतपःकर्म त्याज्यम् इति अपरे

कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्य । ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता’ (भ. गी. ३ । ३) इति कर्माधिकारात् अपोद्धृताः ये, न तान् प्रति चिन्ता ॥

ननु कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति अधिकृताः पूर्वं विभक्तनिष्ठाः अपि इह सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचार्यन्ते, तथा साङ्ख्या अपि ज्ञाननिष्ठाः विचार्यन्ताम् इति ।

, तेषां मोहदुःखनिमित्तत्यागानुपपत्तेः । न कायक्लेशनिमित्तं दुःखं साङ्ख्याः आत्मनि पश्यन्ति, इच्छादीनां क्षेत्रधर्मत्वेनैव दर्शितत्वात् । अतः ते न कायक्लेशदुःखभयात् कर्म परित्यजन्ति ।

नापि ते कर्माणि आत्मनि पश्यन्ति, येन नियतं कर्म मोहात् परित्यजेयुः ।

गुणानां कर्म नैव किञ्चित्करोमि’ (भ. गी. ५ । ८) इति हि ते संन्यस्यन्ति । सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादिभिः तत्त्वविदः संन्यासप्रकारः उक्तः ।

तस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः, येषां च मोहनिमित्तः त्यागः सम्भवति कायक्लेशभयाच्च, ते एव तामसाः त्यागिनः राजसाश्च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थम् ; ‘सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) इति गुणातीतलक्षणे च परमार्थसंन्यासिनः विशेषितत्वात् ।

वक्ष्यति च निष्ठा ज्ञानस्य या परा’ (भ. गी. १८ । ५०) इति ।

तस्मात् ज्ञाननिष्ठाः संन्यासिनः न इह विवक्षिताः ।

कर्मफलत्यागः एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया संन्यासः उच्यते, न मुख्यः सर्वकर्मसंन्यासः ॥


सर्वकर्मसंन्यासासम्भवे च न हि देहभृता’ (भ. गी. १८ । ११) इति हेतुवचनात् मुख्य एव इति चेत् ।

; हेतुवचनस्य स्तुत्यर्थत्वात् ।

यथा त्यागाच्छान्तिरनन्तरम्’ (भ. गी. १२ । १२) इति कर्मफलत्यागस्तुतिरेव यथोक्तानेकपक्षानुष्ठानाशक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधानात् ; तथा इदमपि न हि देहभृता शक्यम्’ (भ. गी. १८ । ११) इति कर्मफलत्यागस्तुत्यर्थम् ; सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नास्ते’ (भ. गी. ५ । १३) इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुं शक्यः ।

तस्मात् कर्मणि अधिकृतान् प्रत्येव एषः संन्यासत्यागविकल्पः ।

ये तु परमार्थदर्शिनः साङ्ख्याः, तेषां ज्ञाननिष्ठायामेव सर्वकर्मसंन्यासलक्षणायाम् अधिकारः, न अन्यत्र, इति न ते विकल्पार्हाः ।

तच्च उपपादितम् अस्माभिः वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यस्मिन्प्रदेशे, तृतीयादौ च ॥ ३ ॥


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.