क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३.३४ ॥
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā |
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param || 13.34 ||
क्षेत्रक्षेत्रज्ञयोः 6/2 एवम् 0 अन्तरम् 2/1 ज्ञानचक्षुषा 3/1 ।
भूतप्रकृतिमोक्षम् 2/1 च 0 ये 1/3 विदुः III/3 यान्ति III/3 ते 1/3 परम् 2/1 ॥ १३.३४ ॥
Those who, in this manner, know the distinction between the kṣetra and kṣetrajña through the eye of wisdom and (know) the freedom from prakṛti, the cause of the beings, they go to the ultimate end.
Those who (ये 1/3), in this manner (एवम् 0), know (विदुः III/3) the distinction (अन्तरम् 2/1) between the kṣetra and kṣetrajña (क्षेत्रक्षेत्रज्ञयोः 6/2) through the eye of wisdom (ज्ञानचक्षुषा 3/1) and (च 0) (know) the freedom from prakṛti, the cause of the beings (भूतप्रकृतिमोक्षम् 2/1), they (ते 1/3) go (यान्ति III/3) to the ultimate end (परम् 2/1).
· क्षेत्रक्षेत्रज्ञयोः [kṣetrakṣetrajñayoḥ] = of the kṣetra and kṣetrajña = क्षेत्रक्षेत्रज्ञ (m.) + सम्बन्धे to अन्तरम् 6/2
o क्षेत्रं च क्षेत्रज्ञः च क्षेत्रक्षेत्रज्ञौ (ID), तयोः ।
· एवम् [evam] = in this manner = avyayam
· अन्तरम् [antaram] = the distinction = अन्तर (n.) + कर्मणि to विदुः 2/1
· ज्ञानचक्षुषा [jñānacakṣuṣā] = through the eye of wisdom = ज्ञानचक्षुष् (n.) + करणे to विदुः 3/1
o ज्ञानम् एव चक्षुः ज्ञानचक्षुः (KT), तेन ।
· भूतप्रकृतिमोक्षम् [bhūtaprakṛtimokṣam] = the freedom from prakṛti, the cause of the beings = भूतप्रकृतिमोक्ष (m.) + कर्मणि to विदुः 2/1
o भूतानां प्रकृतिः भूतप्रकृतिः (6T), तस्याः मोक्षः भूतप्रकृतिमोक्षः (5T), तम् ।
· च [ca] = and = avyayam
· ये [ye] = those who = यद् m. + कर्तरि to विदुः 1/3
· विदुः [viduḥ] = know = विद् (2P) to know + लट्/कर्तरि/III/3
· यान्ति [yānti] = go = या (2P) to go + लट्/कर्तरि/III/3
· ते [te] = they = तद् m. + कर्तरि to यान्ति 1/3
· परम् [param] = the ultimate = पर n. + कर्मणि to यान्ति 2/1
अन्वयः
ये 1/3 क्षेत्रक्षेत्रज्ञयोः 6/2 अन्तरम् 2/1 एवम् 0 ज्ञानचक्षुषा 3/1 विदुः III/3, भूतप्रकृतिमोक्षम् 2/1 च 0 (विदुः), ते 1/3 परम् 2/1 यान्ति III/3॥
भाष्यम्
समस्ताध्यायार्थोपसंहारार्थः अयं श्लोकः —
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥
क्षेत्रक्षेत्रज्ञयोः यथाव्याख्यातयोः एवं यथाप्रदर्शितप्रकारेण अन्तरम् इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा शास्त्राचार्यप्रसादोपदेशजनितम् आत्मप्रत्ययिकं ज्ञानं चक्षुः, तेन ज्ञानचक्षुषा, भूतप्रकृतिमोक्षं च, भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या, तस्याः भूतप्रकृतेः मोक्षणम् अभावगमनं च ये विदुः विजानन्ति, यान्ति गच्छन्ति ते परं परमात्मतत्त्वं ब्रह्म, न पुनः देहम् आददते इत्यर्थः ॥ ३४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये त्रयोदशोऽध्यायः ॥