अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९.२२ ॥
ananyāścintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham || 9.22 ||
अनन्याः 1/3 चिन्तयन्तः 1/3 माम् 2/1 ये 1/3 जनाः 1/3 पर्युपासते III/3 ।
तेषाम् 6/3 नित्याभियुक्तानाम् 6/3 योगक्षेमम् 2/1 वहामि I/1 अहम् 1/1 ॥ ९.२२ ॥
· अनन्याः [ananyāḥ] = those who are non-separate from me = अनन्य m. + adj. to जनाः 1/3
· चिन्तयन्तः [cintayantaḥ] = those who think (themselves) = चिन्तयत् m. + adj. to जनाः 1/3
· माम् [mām] = me = अस्मद् m. + कर्मणि to चिन्तयन्तः, पर्युपासते 2/1
· ये [ye] = those = यद् m. + adj. to जनाः 1/3
· जनाः [janāḥ] = people = जन (m.) + कर्तरि to पर्युपासते 1/3
· पर्युपासते [paryupāsate] = gain = परि + उप + आस् + लट्/कर्तरि/III/3
· तेषाम् [teṣām] = for them = तद् m. + adj. to नित्याभियुक्तानाम् 6/3
· नित्याभियुक्तानाम् [nityābhiyuktānām] = of those who are always one with me = नित्याभियुक्त m. + सम्बन्धे to योगक्षेमम् 6/3
· योगक्षेमम् [yogakṣemam] = what they want to acquire and protect = योगक्षेम (n.) + कर्मणि to वहामि 2/1
· वहामि [vahāmi] = take care = वह् (1U) to carry + लट्/कर्तरि/I/1
· अहम् [aham] = I = अस्मद् m. + कर्तरि to वहामि 1/1
Those people who (see themselves as) non-separate from me, recognising me, gain me. For those who are always one with me, I take care of what they want to acquire and protect.
Sentence 1:
ये 1/3 जनाः 1/3 अनन्याः 1/3 माम् 2/1 चिन्तयन्तः 1/3 पर्युपासते III/3 ।
Those (ये 1/3) people (जनाः 1/3) who (see themselves as) non-separate from me (अनन्याः 1/3), recognising (चिन्तयन्तः 1/3) me (माम् 2/1), gain me (पर्युपासते III/3).
Sentence 2:
अहम् 1/1 तेषाम् 6/3 नित्याभियुक्तानाम् 6/3 योगक्षेमम् 2/1 वहामि I/1 ॥ ९.२२ ॥
For those (तेषाम् 6/3) who are always one with me (नित्याभियुक्तानाम् 6/3), I (अहम् 1/1) take care of (वहामि I/1) what they want to acquire and protect (योगक्षेमम् 2/1).
ये पुनः निष्कामाः सम्यग्दर्शिनः —
अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तः मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्रापयामि अहम् ; ‘ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) ‘स च मम प्रियः’ (भ. गी. ७ । १७) यस्मात् , तस्मात् ते मम आत्मभूताः प्रियाश्च इति ॥
ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् । सत्यं वहत्येव ; किन्तु अयं विशेषः — अन्ये ये भक्ताः ते आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु न आत्मार्थं योगक्षेमम् ईहन्ते ; न हि ते जीविते मरणे वा आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः भगवानेव तेषां योगक्षेमं वहतीति ॥ २२ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.