Tuesday, August 20, 2019

6th Chapter 30th Sloka


यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६.३०॥

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6.30||

यः 1/1 माम् 2/1 पश्यति III/1 सर्वत्र 0 सर्वम् 2/1 0 मयि 7/1 पश्यति III/1
तस्य 6/1 अहम् 1/1 0 प्रणश्यामि I/1 सः 1/1 0 मे 6/1 0 प्रणश्यति III/1 ॥६.३०॥

·         यः [yaḥ] = the one who = यद् m. + कर्तरि to पश्यति 1/1
·         माम् [mām] = me = अस्मद् m. + कर्मणि to पश्यति 2/1
·         पश्यति [paśyati] = sees = दृश् + लट्/कर्तरि/III/1
·         सर्वत्र [sarvatra] = everywhere = अव्ययम्
·         सर्वम् [sarvam] = everything = सर्व m. + कर्मणि to पश्यति 2/1
·         च [ca] = and = अव्ययम्
·         मयि [mayi] = in me = अस्मद् m. + अधिकरणे to पश्यति 7/1
·         पश्यति [paśyati] = sees = दृश् + लट्/कर्तरि/III/1
·         तस्य [tasya] = for him = तद् m. + सम्बन्धे to अहम् 6/1
·         अहम् [aham] = I = अस्मद् m. + कर्तरि to प्रणश्यामि 1/1
·         न [na] = not = अव्ययम्
·         प्रणश्यामि [praṇaśyāmi] = become remote = प्र + नश् + लट्/कर्तरि/I/1
·         सः [sa] = he = तद् m. + कर्तरि to प्रणश्यति 1/1
·         च [ca] = and = अव्ययम्
·         मे [me] = for me = अस्मद् m. + सम्बन्धे to सः 6/1
·         न [na] = not = अव्ययम्
·         प्रणश्यति [praṇaśyati] = become remote = प्र + नश् + लट्/कर्तरि/III/1

The one who sees me in all beings and sees all beings in me, for him (or her) I am not remote and he (or she) is not remote from me.

Sentence 1:
The one who (यः 1/1) sees (पश्यति III/1) me (माम् 2/1) in all beings (सर्वत्र 0) and ( 0) sees (पश्यति III/1) all beings (सर्वम् 2/1) in me (मयि 7/1), for him (or her) (तस्य 6/1) I (अहम् 1/1) am not remote ( 0 प्रणश्यामि I/1) and ( 0) he (or she) (सः 1/1) is not remote ( 0 प्रणश्यति III/1) from me (मे 6/1).

एतस्य 6/1 आत्म-एकत्व-दर्शनस्य 6/1 फलम् 1/1 उच्यते III/1
यः 1/1 माम् 2/1 पश्यति III/1 वासुदेवम् 2/1 सर्वस्य 6/1 आत्मानम् 2/1 सर्वत्र 0 सर्वेषु 7/3 भूतेषु 7/3 सर्वम् 2/1 0 ब्रह्मा-आदि-भूत-जातम् 2/1 मयि 7/1 सर्व-आत्मनि 7/1 पश्यति III/1 तस्य 6/1 एवम् 0 आत्म-एकत्व-दर्शिनः 6/1 अहम् 1/1 ईश्वरः 1/1 0 प्रणश्यामि I/1 0 परोक्षताम् 2/1 गमिष्यामि I/1 सः 1/1 0 मे 6/1 0 प्रणश्यति III/1 सः 1/1 0 विद्वान् 1/1 मम 6/1 वासुदेवस्य 6/1 0 प्रणश्यति III/1 0 परोक्षः III/1 भवति III/1 । तस्य 6/1 0 मम 6/1 0 एक-आत्मकत्वात् 5/1 स्वात्मा 1/1 हि 0 नाम 0 आत्मनः 6/1 प्रियः 1/1 एव 0 भवति III/1, यस्मात् 5/1 0 अहम् 1/1 एव 0 सर्व-आत्म-एकत्व-दर्शी 1/1


इत्येतत् पूर्वश्लोकार्थं सम्यग्दर्शनमनूद्य तत्फलं मोक्षः अभिधीयते -- -
।।6.31।। -- -
सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यमुक्त एव
सः, मोक्षं प्रति केनचित् प्रतिबध्यते इत्यर्थः।।

किञ्च अन्यत् --
।।6.32।। --
आत्मौपम्येन आत्मा स्वयमेव उपमीयते अनया इत्युपमा तस्या उपमाया भावः औपम्यं तेन
आत्मौपम्येन, सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति यः अर्जुन, किं समं पश्यति इत्युच्यते --
यथा मम सुखम् इष्टं तथा सर्वप्राणिनां सुखम् अनुकूलम्। वाशब्दः चार्थे। यदि वा यच्च दुःखं
मम प्रतिकूलम् अनिष्टं यथा तथा सर्वप्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्येवम् आत्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समं पश्यति, कस्यचित् प्रतिकूलमाचरति, अहिंसक इत्यर्थः। यः एवमहिंसकः सम्यग्दर्शननिष्ठः योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनां मध्ये।।

एतस्य यथोक्तस्य सम्यग्दर्शनलक्षणस्य योगस्य दुःखसंपाद्यतामालक्ष्य शुश्रूषुः ध्रुवं तत्प्राप्त्युपायम् -
अर्जुन उवाच --
।।6.33।। --
यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन तस्य योगस्य अहं पश्यामि
नोपलभे, चञ्चलत्वात् मनसः। किम्? स्थिराम् अचलां स्थितिम्।।

प्रसिद्धमेतत् --
।।6.34।। --
चञ्चलं हि मनः कृष्ण इति कृष्यतेः विलेखनार्थस्य रूपम्। भक्तजनपापादिदोषाकर्षणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण। हि यस्मात् मनः चञ्चलं केवलमत्यर्थं चञ्चलम्, प्रमाथि च प्रमथनशीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि विक्षिपत् सत् परवशीकरोति। किञ्चबलवत् प्रबलम्, केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात्। किञ्च -- दृढं तन्तुनागवत् अच्छेद्यम्। तस्य एवंभूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि दुष्करं मन्ये इत्यभिप्रायः।।

एवम् एतत् यथा ब्रवीषि --
श्रीभगवानुवाच --
।।6.35।। --
असंशयं नास्ति संशयः मनो दुर्निग्रहं चलम् इत्यत्र हे महाबाहो। किंतु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ कस्यांचित् समानप्रत्ययावृत्तिः चित्तस्य। वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्टभोगेषु
दोषदर्शनाभ्यासात् वैतृष्ण्यम्। तेन वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य। एवं तत् मनः
गृह्यते निगृह्यते निरुध्यते इत्यर्थः।।

यः पुनः असंयतात्मा, तेन --
।।6.36।। --
असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्तःकरणं यस्य सोऽयम् असंयतात्मा तेन
असंयतात्मना योगो दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः। यस्तु पुनः वश्यात्मा
अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा मनः यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु
यतता भूयोऽपि प्रयत्नं कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात्।।

तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमित्तानि कर्माणि संन्यस्तानि,
योगसिद्धिफलं मोक्षसाधनं सम्यग्दर्शनं प्राप्तमिति, योगी योगमार्गात् मरणकाले
चलितचित्तः इति तस्य नाशमाशङ्क्य अर्जुन उवाच --
।।6.37।। --
अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्ध्या उपेतः योगात् अन्तकाले चलितं मानसं मनो यस्य सः चलितमानसः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योगफलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति।।

।।6.38।। --
कच्चित् किं उभयविभ्रष्टः कर्ममार्गात् योगमार्गाच्च विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति, किं
वा नश्यति अप्रतिष्ठो निराश्रयः हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे।।

।।6.39।। --
एतत् मे मम संशयं कृष्ण छेत्तुम् अपनेतुम् अर्हसि अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा च्छेत्ता नाशयिता संशयस्य अस्य हि यस्मात् उपपद्यते संभवति। अतः त्वमेव
छेत्तुमर्हसि इत्यर्थः।।

श्रीभगवानुवाच --
।।6.40।। --
हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशः तस्य विद्यते नास्ति। नाशो नाम
पूर्वस्मात् हीनजन्मप्राप्तिः योगभ्रष्टस्य नास्ति। हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते। पितैव पुत्र इति पुत्रोऽपि तात उच्यते। शिष्योऽपि पुत्र उच्यते। यतो गच्छति।।

किं तु अस्य भवति? --
।।6.41।। --
योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृताम् अश्वमेधादियाजिनां लोकान्, तत्र
उषित्वा वासमनुभूय शाश्वतीः नित्याः समाः संवत्सरान्, तद्भोगक्षये शुचीनां यथोक्तकारिणां
श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टः अभिजायते।।

।।6.42।। --
अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम्। एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःखलभ्यतरं पूर्वमपेक्ष्य लोके
जन्म यत् ईदृशं यथोक्तविशेषणे कुले।।

यस्मात् --
।।6.43।। --
तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम्। यतते प्रयत्नं करोति ततः तस्मात् पूर्वकृतात् संस्कारात् भूयः बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन।।

कथं पूर्वदेहबुद्धिसंयोग इति तदुच्यते --
।।6.44।। --
यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्मात् अवशोऽपि सः योगभ्रष्टः; कृतं चेत् योगाभ्यासजात् संस्कारात् बलवत्तरमधर्मादिलक्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण ह्रियते; अधर्मश्चेत् बलवत्तरः कृतः, तेन योगजोऽपि संस्कारः अभिभूयत एव, तत्क्षये तु योगजः संस्कारः स्वयमेव कार्यमारभते, दीर्घकालस्थस्यापि विनाशः तस्य अस्ति इत्यर्थः। अतः जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् अपि योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः, सामर्थ्यात् सोऽपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलम् अतिवर्तते
अतिक्रामति अपाकरिष्यति; किमुत बुद्ध्वा यः योगं तन्निष्ठः अभ्यासं कुर्यात्।।

कुतश्च योगित्वं श्रेयः इति --
।।6.45।। --
प्रयत्नात् यतमानः, अधिकं यतमान इत्यर्थः। तत्र योगी विद्वान् संशुद्धकिल्बिषः विशुद्धकिल्बिषः संशुद्धपापः अनेकजन्मसंसिद्धः अनेकेषु जन्मसु किञ्चित्किञ्चित् संस्कारजातम् उपचित्य तेन उपचितेन अनेकजन्मकृतेन संसिद्धः अनेकजन्मसंसिद्धः ततः लब्धसम्यग्दर्शनः सन् याति परां प्रकृष्टां गतिम्।।

यस्मादेवं तस्मात् --
।।6.46।। --
तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र शास्त्रार्थपाण्डित्यम्, तद्वद्भ्योऽपि मतः ज्ञातः
अधिकः श्रेष्ठः इति। कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात्
तस्मात् योगी भव अर्जुन।।


।।6.47।। --
योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम्, मे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादि
शष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
षष्ठोऽध्यायः।।





No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.