ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६.८॥
jñānavijñānatṛptātmā
kūṭastho vijitendriyaḥ |
yukta
ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6.8||
ज्ञानविज्ञानतृप्तात्मा
1/1 कूटस्थः 1/1 विजितेन्द्रियः 1/1 ।
युक्तः
1/1 इति 0 उच्यते III/1 योगी 1/1 समलोष्टाश्मकाञ्चनः
1/1 ॥६.८॥
·
ज्ञानविज्ञानतृप्तात्मा
[jñānavijñānatṛptātmā] = one whose mind is content in the knowledge of the self = ज्ञानविज्ञानतृप्तात्मन् (m.) + adjective
to युक्तः 1/1
o
ज्ञान-विज्ञानाभ्यां तृप्तः आत्मा अन्तःकरणं यस्य सः (316B) ।
·
कूटस्थः [kūṭasthaḥ]
= who remains
unchanged = कूटस्थ (m.) + adjective
to युक्तः 1/1
·
विजितेन्द्रियः
[vijitendriyaḥ] = who has mastered the sense organs and organs of action = विजितेन्द्रिय (m.) + adjective
to युक्तः 1/1
o
विजितानि इन्द्रियाणि यस्य सः (116B) ।
·
युक्तः [yuktaḥ]
= this
composed person = युक्त (m.) कर्मणि
to उच्यते 1/1
·
इति [iti] = as = अव्ययम्
·
उच्यते [ucyate]
= is said to
be = वच् (2P) to say + लट्/कर्मणि/III/1
·
समलोष्टाश्मकाञ्चनः
[samaloṣṭāśmakāñcanaḥ] = for whom a clump of earth, a stone, and gold are the same = समलोष्टाश्मकाञ्चन (m.) + adjective
to युक्तः 1/1
o
लोष्टः च अश्मा च काञ्चनं च लोष्ट-अश्म-काञ्चनानि (ID) ।
o
समानि लोष्ट-अश्म-काञ्चनानि यस्य सः (116B) ।
One whose mind is content in the
knowledge of the self, who remains unchanged, who has mastered the sense organs
and organs of action, for whom a clump of earth, a stone, and gold are the
same, this composed person is referred to as a yogī.
Sentence 1:
ज्ञानविज्ञानतृप्तात्मा
1/1 कूटस्थः 1/1 विजितेन्द्रियः 1/1 ।
युक्तः
1/1 इति 0 उच्यते III/1 योगी 1/1 समलोष्टाश्मकाञ्चनः
1/1 ॥६.८॥
One whose mind is content in the
knowledge of the self (ज्ञानविज्ञानतृप्तात्मा 1/1), who remains unchanged (कूटस्थः 1/1), who has mastered the sense organs and organs of action (विजितेन्द्रियः 1/1), for whom a clump of earth, a stone, and gold are the same
(समलोष्टाश्मकाञ्चनः 1/1), this composed person (युक्तः 1/1) is referred to (उच्यते III/1) as (इति 0) a yogī (योगी 1/1).
।।6.8।। --
ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव
स्वानुभवकरणम्, ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः संजातालंप्रत्ययः आत्मा अन्तःकरणं यस्य सः
ज्ञानविज्ञानतृप्तात्मा, कूटस्थः अप्रकम्प्यः, भवति इत्यर्थः; विजितेन्द्रियश्च। य ईदृशः, युक्तः
समाहितः इति स उच्यते कथ्यते। स योगी समलोष्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि
यस्य सः समलोष्टाश्मकाञ्चनः।।
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.