Sunday, June 30, 2024

9th Chapter 1st Sloka

श्रीभगवानुवाच ।

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९.१॥

 

śrībhagavānuvāca |

idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave |

jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase:'śubhāt || 9.1||

 

श्रीभगवान् 1/1 उवाच III/1

इदम् 2/1 तु 0 ते 4/1 गुह्यतमम् 2/1 प्रवक्ष्यामि I/1 अनसूयवे 4/1

ज्ञानम् 2/1 विज्ञानसहितम् 2/1 यत् 2/1 ज्ञात्वा 0 मोक्ष्यसे II/1 अशुभात् 5/1 ॥ ९.१॥

 

·       श्रीभगवान् [śrībhagavān] = śrī bhagavān = श्रीभगवत् + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = ब्रू + लिट्/कर्तरि/III/1

·       इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 2/1

·       तु [tu] = whereas = अव्ययम्

·       ते [te] = to you = युष्मद् m. सम्प्रदाने to प्रवक्ष्यामि 4/1

·       गुह्यतमम् [guhyatamam] = the most secret = गुह्यतम n. + adj. to ज्ञानम् 2/1

·       प्रवक्ष्यामि [pravakṣyāmi] = I shall tell clearly = प्र + वच् + लृट्/कर्तरि/I/1

·       अनसूयवे [anasūyave] = one without असूया, calumny= अनसूयु m. + adj. to ते 4/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to प्रवक्ष्यामि 2/1

·       विज्ञानसहितम् [vijñānasahitam] = together with immediate knowledge = विज्ञानसहित n. + adj. to ज्ञानम् 2/1

·       यत् [yat] = which = यद् n. + 2/1

·       ज्ञात्वा [jñātvā] = knowing = अव्ययम्

·       मोक्ष्यसे [mokṣyase] = you will be released = मोक्ष् to be free + लृट्/कर्मणि/II/1

·       अशुभात् [aśubhāt] = from all that is inauspicious = अशुभ n. + अपादाने to मोक्ष्यसे + 5/1

 

Śrī  Bhagavān said.

Now, I will clearly explain to you (who are) without calumny, this most secret knowledge together with immediate knowledge, knowing which you will be released from all that is inauspicious.

 

Sentence 1:

श्रीभगवान् 1/1 उवाच III/1

Śrī  bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

 

Sentence 2:

इदम् 2/1 तु 0 गुह्यतमम् 2/1 विज्ञानसहितम् 2/1 ज्ञानम् 2/1 अनसूयवे 4/1 ते 4/1 प्रवक्ष्यामि I/1

Now (तु 0), I will clearly explain (प्रवक्ष्यामि I/1) to you (ते 4/1) (who are) without calumny (अनसूयवे 4/1), this (इदम् 2/1) most secret (गुह्यतमम् 2/1) knowledge (ज्ञानम् 2/1) together with immediate knowledge (विज्ञानसहितम् 2/1),

 

Sentence 2-1:

यत् 2/1 ज्ञात्वा 0 अशुभात् 5/1 मोक्ष्यसे II/1 ॥ ९.१॥

knowing (ज्ञात्वा 0) which (यत् 2/1) you will be released (मोक्ष्यसे II/1) from all that is inauspicious (अशुभात् 5/1).

 

अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तः । तस्य च फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टम् ।तत्र अनेनैव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते, न अन्यथाइति तदाशङ्काव्याविवर्तयिषया श्रीभगवान् उवाच

इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु, तत् बुद्धौ संनिधीकृत्य इदम् इत्याह । तुशब्दो विशेषनिर्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाधनम् वासुदेवः सर्वमिति’ (भ. गी. ७ । १९) आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिस्मृतिभ्यः ; नान्यत् , ‘अथ ते येऽन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किंविशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम् , यत् ज्ञात्वा प्राप्य मोक्ष्यसे अशुभात् संसारबन्धनात् ॥ १ ॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.