Wednesday, September 4, 2024

16th Chapter 3rd Sloka

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।

भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६.३ ॥

 

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |

bhavanti sampadaṃ daivīmabhijātasya bhārata || 16.3 ||

 

तेजः 1/1 क्षमा 1/1 धृतिः 1/1 शौचम् 1/1 अद्रोहः 1/1 0 अतिमानिता 1/1

भवन्ति III/1 सम्पदम् 2/1 दैवीम् 2/1 अभिजातस्य 6/1 भारत S/1 ॥ १६.३ ॥

 

·       तेजः [tejaḥ] = brilliance = तेजस् (n.) + प्रातिपदिकार्थमात्रे 1/1

·       क्षमा [kṣamā] = composure = क्षमा (f.) + प्रातिपदिकार्थमात्रे 1/1

·       धृतिः [dhṛtiḥ] = fortitude = धृति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       शौचम् [śaucam] = cleanliness = शौच (n.) + प्रातिपदिकार्थमात्रे 1/1

·       अद्रोहः [adrohaḥ] = no thought of hurting = अद्रोह (m.) + प्रातिपदिकार्थमात्रे 1/1

o   द्रोहः = जिघांसा intention to hurt

·       [na] = no = अव्ययम्

·       अतिमानिता [atimānitā] = exaggerated self-opinion = अतिमानिता (f.) + प्रातिपदिकार्थमात्रे 1/1

o   अतिमानिनः भावः अतिमानिता ।

·       भवन्ति [bhavanti] = there are = भू (1P) to be + लट्/कर्तरि/III/1

·       सम्पदम् [sampadam] = wealth = सम्पद् (f.) + 2/1

·       दैवीम् [daivīm] = that which belongs to devas = दैवी (f.) + 2/1

·       अभिजातस्य [abhijātasya] = for the one who is born to = अभिजात (m.) + सम्बन्धे to [अभयादीनि] 6/1

·       भारत [bhārata] = O Bhārata! = भारत (m.) + सम्बोधने 1/1

 

brilliance, composure, fortitude, cleanliness, no thought of hurting, and no exaggerated self-opinion – all these are there for the one who is born to the wealth of devas.

 

Sentence 1:

तेजः 1/1 क्षमा 1/1 धृतिः 1/1 शौचम् 1/1 अद्रोहः 1/1 0 अतिमानिता 1/1 (इति एतानि) दैवीम् 2/1 सम्पदम् 2/1 अभिजातस्य 6/1 भवन्ति III/1 भारत S/1 ॥ १६.३ ॥

brilliance (तेजः 1/1), composure (क्षमा 1/1), fortitude (धृतिः 1/1), cleanliness (शौचम् 1/1), no thought of hurting (अद्रोहः 1/1), and no (न 0) exaggerated self-opinion (अतिमानिता 1/1) – all these are there (भवन्ति III/1) for the one who is born to (अभिजातस्य 6/1) the wealth (सम्पदम् 2/1) of devas (दैवीम् 2/1).

 

किञ्च

तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचाम । इत्थं क्षमायाः अक्रोधस्य च विशेषः । धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहश्च न अवसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः ; एवं द्विविधं शौचम् । अद्रोहः परजिघांसाभावः अहिंसनम् । नातिमानिता अत्यर्थं मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थः । भवन्ति अभयादीनि एतदन्तानि सम्पदं अभिजातस्य । किंविशिष्टां सम्पदम् ? दैवीं देवानां या सम्पत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥ ३ ॥

Monday, September 2, 2024

16th Chapter 2nd Sloka

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६.२ ॥

 

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |

dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam || 16.2 ||

 

अहिंसा 1/1 सत्यम् 1/1 अक्रोधः 1/1 त्यागः 1/1 शान्तिः 1/1 अपैशुनम् 1/1

दया 1/1 भूतेषु 7/3 अलोलुप्त्वम् 1/1 मार्दवम् 1/1 ह्रीः 1/1 अचापलम् 1/1 ॥ १६.२ ॥

 

·       अहिंसा [ahiṃsā] = absence of hurting = अहिंसा (f.) + प्रातिपदिकार्थमात्रे 1/1

·       सत्यम् [satyam] = truthfulness = सत्य (n.) + प्रातिपदिकार्थमात्रे 1/1

·       अक्रोधः [akrodhaḥ] = resolution of anger = अक्रोध (m.) + प्रातिपदिकार्थमात्रे 1/1

·       त्यागः [tyāgaḥ] = renunciation = त्याग (m.) + प्रातिपदिकार्थमात्रे 1/1

·       शान्तिः [śāntiḥ] = resolution of the mind = शान्ति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       अपैशुनम् [apaiśunam] = absence of calumny = अपैशुन (n.) + प्रातिपदिकार्थमात्रे 1/1

o   पिशुनम् harsh, cruel, unkind;

o   पिशुनस्य भावः पैशुनम् । पिशुन + अण्

o   तदभावः अपैशुनम् (NT)।

·       दया [dayā] = compassion = दया (f.) + प्रातिपदिकार्थमात्रे 1/1

·       भूतेषु [bhūteṣu] = for living beings = भूत (n.) + अधिकरणे 7/3

·       अलोलुप्त्वम् [aloluptvam] = absence of ardent longing = अलोलुप्त्व (n.) + प्रातिपदिकार्थमात्रे 1/1

o   लुप् + यङ्              3.1.22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।
लुप्                       2.4.74 यङोऽचि च । ~ लुक्
लुप् लुप्    6.1.9 सन्यङोः । ~ एकाचः द्वे प्रथमस्य
लु लुप्                    7.4.60 हलादिः शेषः। ~ अभ्यासस्य
लो लुप्                  7.4.82 गुणो यङ्लुकोः । ~ अभ्यासस्य

o   लोलुप् + क्त = लोलुप्त

·       मार्दवम् [mārdavam] = softness = मार्दव (n.) + प्रातिपदिकार्थमात्रे 1/1

o    मृदोः भावः

o    मृदु + अण्
By कासिका वृत्तिः “वा-वचनमणादेः समावेशार्थम्।” under 5.1.122 पृथ्वादिभ्य इमनिज्वा । ~ तस्य भावः, अण् etc. can be suffixed optionally in the sense of तस्य भावः.
मार्दु + अ 7.2.117 तद्धितेष्वचामादेः । ~ वृद्धिः ञ्णिति
मार्दो + अ              6.4.146 ओर्गुणः । ~ तद्धिते भस्य
मार्दव् + अ             6.1.78 एचोऽयवायावः । ~ अचि संहितायाम्

·       ह्रीः [hrīḥ] = modesty = ह्री (f.) + प्रातिपदिकार्थमात्रे 1/1

o   ह्री (3P) लज्जायाम् to be ashamed + क्विप्
Since it is not ङी-ending, लोप of सुँ by 6.1.68 हल्-ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् । does not take place.

·       अचापलम् [acāpalam] = absence of physical agitation = अचापल (n.) + प्रातिपदिकार्थमात्रे 1/1

 

absence of hurting, truthfulness, resolution of anger, renunciation, resolution of the mind, absence of calumny, compassion for living beings, absence of ardent longing, softness, modesty, absence of physical agitation…

 

Sentence 1:

अहिंसा 1/1 सत्यम् 1/1 अक्रोधः 1/1 त्यागः 1/1 शान्तिः 1/1 अपैशुनम् 1/1 भूतेषु 7/3 दया 1/1 अलोलुप्त्वम् 1/1 मार्दवम् 1/1 ह्रीः 1/1 अचापलम् 1/1 ॥ १६.२ ॥

absence of hurting (अहिंसा 1/1), truthfulness (सत्यम् 1/1), resolution of anger (अक्रोधः 1/1), renunciation (त्यागः 1/1), resolution of the mind (शान्तिः 1/1), absence of calumny (अपैशुनम् 1/1), compassion (दया 1/1) for living beings (भूतेषु 7/3), absence of ardent longing (अलोलुप्त्वम् 1/1), softness (मार्दवम् 1/1), modesty (ह्रीः 1/1), absence of physical agitation (अचापलम् 1/1)…

 

किञ्च

अहिंसा अहिंसनं प्राणिनां पीडावर्जनम् । सत्यम् अप्रियानृतवर्जितं यथाभूतार्थवचनम् । अक्रोधः परैः आक्रुष्टस्य अभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम् । त्यागः संन्यासः, पूर्वं दानस्य उक्तत्वात् । शान्तिः अन्तःकरणस्य उपशमः । अपैशुनं अपिशुनता ; परस्मै पररन्ध्रप्रकटीकरणं पैशुनम् , तदभावः अपैशुनम् । दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्वम् इन्द्रियाणां विषयसंनिधौ अविक्रिया । मार्दवं मृदुता अक्रौर्यम् । ह्रीः लज्जा । अचापलम् असति प्रयोजने वाक्पाणिपादादीनाम् अव्यापारयितृत्वम् ॥ २ ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.