Wednesday, September 18, 2024

15th Chapter 1st Sloka

श्रीभगवानुवाच ।

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५.१ ॥

 

śrībhagavānuvāca |

ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam |

chandāṃsi yasya parṇāni yastaṃ veda sa vedavit || 15.1 ||

 

श्रीभगवान् 1/1 उवाच III/1

ऊर्ध्वमूलम् 2/1 अधःशाखम् 2/1 अश्वत्थम् 2/1 प्राहुः III/3 अव्ययम् 2/1

छन्दांसि 1/3 यस्य 6/1 पर्णानि 1/3 यः 1/1 तम् 2/1 वेद III/1 सः 1/1 वेदवित् 1/1 ॥ १५.१ ॥

 

·       श्रीभगवान् [śrībhagavān] = śrī bhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = ब्रू (2U) to say + लिट्/कर्तरि/III/1

·       ऊर्ध्वमूलम् [ūrdhvamūlam] = that which has its root above = ऊर्ध्वमूल m. + adj. to अश्वत्थम् 2/1

o   ऊर्धं मूलं यस्य संसारवृक्षस्य सः ऊर्ध्वमूलः (016B), तम् ।

·       अधःशाखम् [adhaḥśākham] = that which has its branches below = अधःशाख m. + adj. to अश्वत्थम् 2/1

o   अधः शाखाः यस्य संसारवृक्षस्य सः अधःशाखः (016B), तम् ।

·       अश्वत्थम् [aśvattham] = aśvattha tree = अश्वत्थ (m.) + कर्मणि to प्राहुः 2/1

·       प्राहुः [prāhuḥ] = they say = प्र + ब्रू (2U) to say + लट्/कर्तरि/III/3

·       अव्ययम् [avyayam] = imperishable = अव्यय m. + adj. to अश्वत्थम् 2/1

·       छन्दांसि [chandāṃsi] = theVedas = छन्दस् (n.) + S.C. to पर्णानि 1/3

·       यस्य [yasya] = its = यद् m. + सम्बन्धे to पर्णानि 6/1

·       पर्णानि [parṇāni] = leaves = पर्ण (n.) + कर्तरि to [भवन्ति] 1/3

·       यः [yaḥ] = one who = यद् m. + कर्तरि to वेद 1/1

·       तम् [tam] = that = तद् m., pointing to अश्वत्थः + कर्मणि to वेद 2/1

·       वेद [veda] = knows = विद् (2P) to know + लट्/कर्तरि/III/1

·       सः [saḥ] = he = तद् m., corresponding to यः + कर्तरि to [भवन्ति] 1/1

·       वेदवित् [vedavit] = the knower of theVeda = वेदविद् m. + S.C. to सः 1/1

o   वेदान् वेत्ति इति वेदविद् (UT)।

 

Śrī bhagavān said.

They say the imperishable aśvattha tree has its roots above, its branches below and theVedas are its leaves. The one who knows that is a knower of theVeda.

 

Sentence 1:

श्रीभगवान् 1/1 उवाच III/1

Śrī bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

 

Sentence 2:

ऊर्ध्वमूलम् 2/1 अधःशाखम् 2/1 अव्ययम् 2/1 अश्वत्थम् 2/1 प्राहुः III/3, यस्य 6/1 पर्णानि 1/3 छन्दांसि 1/3

They say (प्राहुः III/3) the imperishable (अव्ययम् 2/1) aśvattha tree (अश्वत्थम् 2/1) has its roots above (ऊर्ध्वमूलम् 2/1), its branches below (अधःशाखम् 2/1) and theVedas are (छन्दांसि 1/3,) its (यस्य 6/1) leaves (पर्णानि 1/3).

 

Sentence 3:

यः 1/1 तम् 2/1 वेद III/1 सः 1/1 वेदवित् 1/1 ॥ १५.१ ॥

The one who (यः 1/1) knows (वेद III/1) that (तम् 2/1) is (सः 1/1) a knower of theVeda (वेदवित् 1/1).

 

 

यस्मात् मदधीनं कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलम् , अतः भक्तियोगेन मां ये सेवन्ते ते मम प्रसादात् ज्ञानप्राप्तिक्रमेण गुणातीताः मोक्षं गच्छन्ति । किमु वक्तव्यम् आत्मनः तत्त्वमेव सम्यक् विजानन्तः इति अतः भगवान् अर्जुनेन अपृष्टोऽपि आत्मनः तत्त्वं विवक्षुः उवाच ऊर्ध्वमूलम्इत्यादिना । तत्र तावत् वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपं वर्णयति विरक्तस्य हि संसारात् भगवत्तत्त्वज्ञाने अधिकारः, न अन्यस्येति ॥

ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्त्वाच्च ऊर्ध्वम् ; उच्यते ब्रह्म अव्यक्तं मायाशक्तिमत् , तत् मूलं अस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलः । श्रुतेश्च — ‘ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः’ (क. उ. २ । ३ । १) इति । पुराणे च

अव्यक्तमूलप्रभवस्तस्यैवानुग्रहोच्छ्रितः । बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः ॥

महाभूतविशाखश्च विषयैः पत्रवांस्तथा । धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः ॥

आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः । एतद्ब्रह्मवनं चैव ब्रह्माचरति नित्यशः ॥

एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । ततश्चात्मरतिं प्राप्य तस्मान्नावर्तते पुनः ॥इत्यादि । तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् अधःशाखं महदहङ्कारतन्मात्रादयः शाखा इव अस्य अधः भवन्तीति सोऽयं अधःशाखः, तम् अधःशाखम् न श्वोऽपि स्थाता इति अश्वत्थः तं क्षणप्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्ति ।

अव्ययं संसारमायायाः अनादिकालप्रवृत्तत्वात् सोऽयं संसारवृक्षः अव्ययः, अनाद्यन्तदेहादिसन्तानाश्रयः हि सुप्रसिद्धः, तम् अव्ययम् । तस्यैव संसारवृक्षस्य इदम् अन्यत् विशेषणम् छन्दांसि यस्य पर्णानि, छन्दांसि च्छादनात् ऋग्यजुःसामलक्षणानि यस्य संसारवृक्षस्य पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणार्थानि पर्णानि, तथा वेदाः संसारवृक्षपरिरक्षणार्थाः, धर्माधर्मतद्धेतुफलप्रदर्शनार्थत्वात् । यथाव्याख्यातं संसारवृक्षं समूलं यः तं वेद सः वेदवित् , वेदार्थवित् इत्यर्थः । न हि समूलात् संसारवृक्षात् अस्मात् ज्ञेयः अन्यः अणुमात्रोऽपि अवशिष्टः अस्ति इत्यतः सर्वज्ञः सर्ववेदार्थविदिति समूलसंसारवृक्षज्ञानं स्तौति ॥ १ ॥

 

 

Wednesday, September 4, 2024

16th Chapter 3rd Sloka

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।

भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६.३ ॥

 

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |

bhavanti sampadaṃ daivīmabhijātasya bhārata || 16.3 ||

 

तेजः 1/1 क्षमा 1/1 धृतिः 1/1 शौचम् 1/1 अद्रोहः 1/1 0 अतिमानिता 1/1

भवन्ति III/1 सम्पदम् 2/1 दैवीम् 2/1 अभिजातस्य 6/1 भारत S/1 ॥ १६.३ ॥

 

·       तेजः [tejaḥ] = brilliance = तेजस् (n.) + प्रातिपदिकार्थमात्रे 1/1

·       क्षमा [kṣamā] = composure = क्षमा (f.) + प्रातिपदिकार्थमात्रे 1/1

·       धृतिः [dhṛtiḥ] = fortitude = धृति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       शौचम् [śaucam] = cleanliness = शौच (n.) + प्रातिपदिकार्थमात्रे 1/1

·       अद्रोहः [adrohaḥ] = no thought of hurting = अद्रोह (m.) + प्रातिपदिकार्थमात्रे 1/1

o   द्रोहः = जिघांसा intention to hurt

·       [na] = no = अव्ययम्

·       अतिमानिता [atimānitā] = exaggerated self-opinion = अतिमानिता (f.) + प्रातिपदिकार्थमात्रे 1/1

o   अतिमानिनः भावः अतिमानिता ।

·       भवन्ति [bhavanti] = there are = भू (1P) to be + लट्/कर्तरि/III/1

·       सम्पदम् [sampadam] = wealth = सम्पद् (f.) + 2/1

·       दैवीम् [daivīm] = that which belongs to devas = दैवी (f.) + 2/1

·       अभिजातस्य [abhijātasya] = for the one who is born to = अभिजात (m.) + सम्बन्धे to [अभयादीनि] 6/1

·       भारत [bhārata] = O Bhārata! = भारत (m.) + सम्बोधने 1/1

 

brilliance, composure, fortitude, cleanliness, no thought of hurting, and no exaggerated self-opinion – all these are there for the one who is born to the wealth of devas.

 

Sentence 1:

तेजः 1/1 क्षमा 1/1 धृतिः 1/1 शौचम् 1/1 अद्रोहः 1/1 0 अतिमानिता 1/1 (इति एतानि) दैवीम् 2/1 सम्पदम् 2/1 अभिजातस्य 6/1 भवन्ति III/1 भारत S/1 ॥ १६.३ ॥

brilliance (तेजः 1/1), composure (क्षमा 1/1), fortitude (धृतिः 1/1), cleanliness (शौचम् 1/1), no thought of hurting (अद्रोहः 1/1), and no (न 0) exaggerated self-opinion (अतिमानिता 1/1) – all these are there (भवन्ति III/1) for the one who is born to (अभिजातस्य 6/1) the wealth (सम्पदम् 2/1) of devas (दैवीम् 2/1).

 

किञ्च

तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचाम । इत्थं क्षमायाः अक्रोधस्य च विशेषः । धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहश्च न अवसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः ; एवं द्विविधं शौचम् । अद्रोहः परजिघांसाभावः अहिंसनम् । नातिमानिता अत्यर्थं मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थः । भवन्ति अभयादीनि एतदन्तानि सम्पदं अभिजातस्य । किंविशिष्टां सम्पदम् ? दैवीं देवानां या सम्पत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥ ३ ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.