नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८.७३ ॥
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta |
sthito'smi gatasandehaḥ kariṣye vacanaṃ tava || 18.73 ||
अर्जुनः 1/1 उवाच III/1 ।
नष्टः 1/1 मोहः 1/1 स्मृतिः 1/1 लब्धा 1/1 त्वत्प्रसादात् 5/1 मया 3/1 अच्युत S/1।
स्थितः 1/1 अस्मि I/1 गतसन्देहः 1/1 करिष्ये I/1 वचनम् 2/1 तव 6/1॥ १८.७३ ॥
· अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1
· उवाच [uvāca] = said = ब्रूञ् (2P) to speak + लिट्/कर्तरि/III/1
· नष्टः [naṣṭaḥ] = destroyed, gone = नष्ट (m.) + S.C. to मोहः 1/1
· मोहः [mohaḥ] = delusion = मोह (m.) + कर्तरि to (भवति) 1/1
· स्मृतिः [smṛtiḥ] = recognition = स्मृति (f.) + कर्तरि to (भवति)1/1
· लब्धा [labdhā] = gained = लब्धा (f.) + S.C. to स्मृतिः 1/1
· त्वत्प्रसादात् [tvatprasādāt] = by your grace = त्वत्प्रसाद (m.) + हेतौ 5/1
· मया [mayā] = by me = अस्मद् (pron.) + कर्तरि to लब्धा 3/1
· अच्युत [acyuta] = O Acyuta = अच्युत (m.) + संबोधने 1/1
· स्थितः [sthitaḥ] = remaining = स्थित (m.) + S.C. to (अहम्) 1/1
· अस्मि [asmi] = I am = अस् (2P) to be + लट्/कर्तरि/I/1
· गतसन्देहः [gatasandehaḥ] = one whose doubts are gone = गतसन्देह (m.) + adj. to स्थितः 1/1
· करिष्ये [kariṣye] = I will do = कृ (8U) to do + लृट्/कर्तरि/I/1
· वचनम् [vacanam] = word, instruction = वचन (n.) + कर्मणि to करिष्ये 2/1
· तव [tava] = your = युष्मद् (pron.) + सम्बन्धे to वचनम् 6/1
Arjuna said:
By your grace, (my) delusion is gone; and I have gained recognition (of myself). O Lord Acyuta (Kṛṣṇa)! I remain as one from whom all doubts have gone. I will do what you say.
Sentence 1:
अर्जुनः 1/1 उवाच III/1 ।
Arjuna (अर्जुनः 1/1) said (उवाच III/1).
Sentence 2:
त्वत्प्रसादात् 5/1 मोहः 1/1 नष्टः 1/1।
By your grace (त्वत्प्रसादात् 5/1), (my) delusion (मोहः 1/1) is gone (नष्टः 1/1).
Sentence 3:
स्मृतिः 1/1 मया 3/1 लब्धा 1/1 अच्युत S/1।
The Recognition (स्मृतिः 1/1) (of myself) have been gained (लब्धा 1/1) by me (मया 3/1), O Lord Acyuta (अच्युत S/1) (Kṛṣṇa)!
Sentence 4:
गतसन्देहः 1/1 स्थितः 1/1 अस्मि I/1।
I remain (स्थितः 1/1 अस्मि I/1) as one from whom all doubts have gone (गतसन्देहः 1/1).
Sentence 5:
तव 6/1 वचनम् 2/1 करिष्ये I/1॥
I will do (करिष्ये I/1) what you say (तव 6/1 वचनम् 2/1).
नष्टः 1/1 मोहः 1/1 अज्ञानजः समस्तसंसारानर्थहेतुः, सागर इव दुरुत्तरः । स्मृतिः 1/1 च आत्मतत्त्वविषया लब्धा 1/1, यस्याः लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः ; त्वत्प्रसादात् तव प्रसादात् मया 3/1 त्वत्प्रसादम् आश्रितेन अच्युत S/1। अनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेवेति निश्चितं दर्शितं भवति, यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभश्चेति । तथा च श्रुतौ “अनात्मवित् शोचामि” (छा. उ. ७ । १ । ३) इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्षः उक्तः ; “भिद्यते हृदयग्रन्थिः” (मु. उ. २ । २ । ९) “तत्र को मोहः कः शोकः एकत्वमनुपश्यतः” (ई. उ. ७) इति च मन्त्रवर्णः । अथ इदानीं त्वच्छासने स्थितः 1/1 अस्मि I/1 गतसन्देहः 1/1 मुक्तसंशयः । करिष्ये I/1 वचनम् 2/1 तव 6/1। अहं त्वत्प्रसादात् कृतार्थः, न मे कर्तव्यम् अस्ति इत्यभिप्रायः ॥ १८.७३ ॥