अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥४१॥
adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||41||
अधर्माभिभवात् 5/1 कृष्ण S/1 प्रदुष्यन्ति III/3 कुलस्त्रियः 1/3 ।
स्त्रीषु 7/3 दुष्टासु 7/3 वार्ष्णेय S/1 जायते III/1 वर्णसङ्करः 1/1 ॥४१॥
·
अधर्माभिभवात् [adharmābhibhavāt] = due to increase of adharma = अधर्माभिभव
(m.) + हेतौ 5/1
o
अधर्मस्य (of adharma)
अभिभवः (overpowering) अधर्माभिभवः
। षष्ठीतत्पुरुषसमासः
·
कृष्ण [kṛṣṇa] =
Kṛṣṇa = कृष्ण + सम्बोधने 1/1
·
प्रदुष्यन्ति [praduṣyanti] = will be given to improper ways = प्र + दुष् to be corrupted + लृट्/कर्तरि/III/3
·
कुलस्त्रियः [kulastriyaḥ] = the women in the family = कुलस्त्री
(f.) + 1/3
o
कुलस्य (of the
family) स्त्रियः (women) कुलस्त्रियः
। षष्ठीतत्पुरुषसमासः
·
स्त्रीषु [strīṣu]
= when women are = स्त्री (f.) + सति
सप्तमी 7/3
·
दुष्टासु [duṣṭāsu]
= corrupted = स्त्री (f.) + सति सप्तमी 7/3
·
वार्ष्णेय [vārṣṇeya] = Vārṣṇeya (Kṛṣṇa) = वार्ष्णेय + सम्बोधने 1/1
o
वृष्णिवंशप्रसूतः, वृष्णेः अपत्यम् वार्ष्णेयः ।
Descendant of Vṛṣṇi clan
·
जायते [jāyate]
= is born = जन् (4A) to be born + लट्/कर्तरि/III/1
·
वर्णसङ्करः [varṇasaṅkaraḥ] = confusion in one’s duty = वर्णसङ्कर
+ कर्तरि to जायते 1/1
o
नि + वृत् to avoid + तुमुँन्
Sentence 1:
कृष्ण S/1 अधर्माभिभवात् 5/1 कुलस्त्रियः 1/3 प्रदुष्यन्ति III/3 ।
O Kṛṣṇa (कृष्ण S/1) ! Due to
the increase of adharma (अधर्माभिभवात् 5/1), the women
in the family (कुलस्त्रियः 1/3) will be
given to improper ways (प्रदुष्यन्ति III/3).
Sentence 2:
वार्ष्णेय S/1 स्त्रीषु 7/3 दुष्टासु 7/3 वर्णसङ्करः 1/1 जायते III/1 ॥४१॥
O Vārṣṇeya (वार्ष्णेय S/1) ! When the women (स्त्रीषु 7/3) are corrupt (दुष्टासु 7/3), the confusion of the
society (वर्णसङ्करः 1/1) will be born (जायते III/1).