न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३.५॥
na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3.5||
न 0 हि 0 कश्चित् 0 क्षणम् 2/1 अपि 0 जातु 0 तिष्ठति III/1 अकर्मकृत् 1/1 ।
कार्यते III/1 हि 0 अवशः 1/1 कर्म 2/1 सर्वः 1/1 प्रकृतिजैः 3/3 गुणैः 3/3 ॥३.५॥
· न [na] = not = अव्ययम्
· हि [hi] = indeed = अव्ययम्
· कश्चित् [kaścit] = anybody = अव्ययम्
o कः + चित् (to make an indefinite pronoun) = कश्चित् “somebody”
o When used in negative sense, it becomes “nobody”
· क्षणम् [kṣaṇam] = for a moment = क्षण (m.) + 2/1
o 2nd case to express duration by 2.3.5 कालाध्वनोरत्यन्तसंयोगे । ~ द्वितीया
· अपि [api] = even = अव्ययम्
· जातु [jātu] = never = अव्ययम्
· तिष्ठति [tiṣṭhati] = stays = स्था (1P) to stay + लट्/कर्तरि/III/1
· अकर्मकृत् [akarmakṛt] = one who does not perform action = अकर्मकृत् (m.) + कर्तरि to तिष्ठति 1/1
o कर्म करोति इति कर्मकृत्
o कर्मन् + अम् + कृ + क्विप्
कर्म + कृ + त् सुब्लुक्, सर्वापहारी प्रत्ययः, नलोपः, कुगागमः
· कार्यते [kāryate] = is made to perform = कृ + णिच् to make somebody perform + लट्/कर्मणि/III/1
· हि [hi] = because = अव्ययम्
· अवशः [avaśaḥ] = helpless = अवश (m.) + कर्मणि to कार्यते 1/1
· कर्म [karma] = actions = कर्मन् (n.) + कर्मणि 2/1
· सर्वः [sarvaḥ] = everyone = सर्व (m.) + adj. to अवशः 1/1
· प्रकृतिजैः [prakṛtijaiḥ] = born of prakṛti = प्रकृतिज (m.) + adj. to गुणैः 3/3
· गुणैः [guṇaiḥ] = the (three) guṇas = गुण (m.) + कर्तरि to कार्यते 3/3
Indeed no one ever exists for even a second without performing action because everyone being helpless is made to perform action by the (three) guṇas born of prakṛti.
Sentence 1:
कश्चित् 0 अकर्मकृत् 1/1 क्षणम् 2/1 अपि 0 जातु 0 न 0 हि 0 तिष्ठति III/1 । सर्वः 1/1 हि 0 प्रकृतिजैः 3/3 गुणैः 3/3 अवशः 1/1 कर्म 2/1 कार्यते III/1 ॥३.५॥
Indeed (हि 0) no one (न 0 कश्चित् 0) ever (जातु 0) exists (तिष्ठति III/1) for even (अपि 0) a second (क्षणम् 2/1) without performing action (अकर्मकृत् 1/1) because (हि 0) everyone (सर्वः 1/1) being helpless (अवशः 1/1) is made to perform (कार्यते III/1) action (कर्म 2/1) by the (three) guṇas (गुणैः 3/3) born of prakṛti (प्रकृतिजैः 3/3).
“कस्मात् 5/1 पुनः 0 कारणात् 5/1 कर्म-संन्यास-मात्रात् 5/1 एव 0 केवलात् 5/1 ज्ञान-रहितात् 5/1 सिद्धिम् 2/1 नैष्कर्म्य-लक्षणाम् 2/1 पुरुषः 1/1 न 0 अधिगच्छति III/1” इति 0 हेतु-आकाङ्क्षायाम् S7/1 आह III/1 –
न 0 हि 0 यस्मात् 5/1 क्षणम् 2/1 अपि 0 कालम् 2/1 जातु 0 कदाचित् 0 कश्चित् 0 तिष्ठति III/1 अकर्मकृत् 1/1 सन् 1/1। कस्मात् 5/1? कार्यते कृ + णिच् + लट्/कर्मणि/III/1 प्रवर्त्यते III/1 हि 0 यस्मात् 5/1 अवशः 1/1 एव 0 अस्वतन्त्रः 1/1 एव 0 कर्म 2/1 सर्वः 1/1 प्राणी 1/1 प्रकृतिजैः 3/3 प्रकृतितः 0 जातैः 3/3 सत्त्वरजस्तमोभिः 3/3 गुणैः 3/3 । “अज्ञः 1/1“ इति 0 वाक्य-शेषः 1/1, यतः 0 वक्ष्यति III/1 ‘गुणैः 3/3 यः 1/1 न 0 विचाल्यते III/1’ (14.23) इति 0 । साङ्ख्यानाम् 6/3 पृथक्करणात् 5/1 अज्ञानाम् 6/3 एव 0 हि 0 कर्मयोगः 1/1, न 0 ज्ञानिनाम् 6/3 । ज्ञानिनाम् 6/3 तु 0 गुणैः 3/3 अचाल्यमानानाम् 6/3 स्वतः 0 चलनाभावात् 5/1 कर्मयोगः 1/1 न 0 उपपद्यते III/1 । तथा 0 च 0 व्याख्यातम् 1/1 “वेद III/1 अविनाशिनम् 2/1” (2.21) इति 0 अत्र 0 ॥ ५ ॥