यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२.१५॥
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha |
samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate ||2.15||
यम् 2/1 हि 0 न 0 व्यथयन्ति III/3 एते 1/3 पुरुषम् 2/1 पुरुषर्षभ S/1 ।
समदुःखसुखम् 2/1 धीरम् 2/1 सः 1/1 अमृतत्वाय 4/1 कल्पते III/1 ॥२.१५॥
· यम् [yam] = which = यद् (pron. m.) + adj. to पुरुषम् 2/1
· हि [hi] = indeed = अव्ययम्
· न [na] = not = अव्ययम्
· व्यथयन्ति [vyathayanti] = affect = व्यथ् (1A) to be afflicted + णिच् (causative) + लट्/कर्तरि/III/1
· एते [ete] = these = एतद् (pron. m.) + कर्तरि to व्यथयन्ति 1/3
· पुरुषम् [puruṣam] = person = पुरुष (m.) + कर्मणि to व्यथयन्ति 2/1
· पुरुषर्षभ [puruṣarṣabha] = O! The prominent among men (Arjuna) = पुरुषर्षभ (m.) + सम्बोधने 1/1
o अयं पुरुषः ऋषभः इव श्रेष्ठः इति पुरुषर्षभः । कर्मधारय-तत्पुरुष-समासः by 2.1.56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।
· समदुःखसुखम् [samaduḥkhasukham] = the one who is same in pleasure and pain= समदुःखसुख (m.) + adj. to पुरुषम् 2/1
o समे दुःखसुखे यस्य सः समदुःखसुखः (बहुव्रीहिसमासः), तम् ।
· धीरम् [dhīram] = one who is discriminating= धीर (m.) + adj. to पुरुषम् 2/1
· सः [saḥ] = he = तद् (pron. m.) + कर्तरि to कल्पते 1/1
· अमृतत्वाय [amṛtatvāya] = for gaining liberation= अमृतत्व (n.) + उपपदे to कल्पते 4/1
o (वा०) कॢपिसम्पद्यमाने चतुर्थी वक्तव्या ।
· कल्पते [kalpate] = is fit = कॢप् (1A) to be fit + लट्/कर्तरि/III/1
o 8.2.18 कृपो रो लः ।
Sentence 1 (यद्-clouse):
पुरुषर्षभ S/1 एते 1/3 यम् 2/1 पुरुषम् 2/1 समदुःखसुखम् 2/1 धीरम् 2/1 न 0 व्यथयन्ति III/3 ।
O! The prominent among men (पुरुषर्षभ S/1)! These (एते 1/3) [pleasure and pain] do not (न 0) afflict (व्यथयन्ति III/3) the person (पुरुषम् 2/1), who is (यम् 2/1) same in pleasure and pain (समदुःखसुखम् 2/1) and the one who is discriminating (धीरम् 2/1).
Sentence 2 (तद्-clouse):
सः 1/1 हि 0 अमृतत्वाय 4/1 कल्पते III/1 ॥२.१५॥
He (सः 1/1) is indeed (हि 0) fit (कल्पते III/1) for मोक्ष (अमृतत्वाय 4/1).
शीत-उष्ण-आदीन् 2/3 सहतः 6/1 किम् 1/1 स्यात् III/1 इति 0 शृणु II/1 —
यम् 2/1 हि 0 न 0 व्यथयन्ति III/3 एते 1/3 पुरुषम् 2/1 पुरुषर्षभ S/1 ।
समदुःखसुखम् 2/1 धीरम् 2/1 सः 1/1 अमृतत्वाय 4/1 कल्पते III/1 ॥२.१५॥
यम् 2/1 हि 0 पुरुषम् 2/1 समे 1/2 दुःखसुखे 1/2 यस्य 6/1 तम् 2/1 समदुःखसुखम् 2/1 सुख-दुःख-प्राप्तौ 7/1 हर्ष-विषाद-रहितम् 2/1 धीरम् 2/1 धीमन्तम् 2/1 न 0 व्यथयन्ति III/3 न 0 चालयन्ति III/3 नित्य-आत्म-दर्शनात् 5/1 एते 1/3 यथोक्ताः 1/3 शीत-उष्ण-आदयः 1/3, सः 1/1 नित्य-आत्म-स्वरूप-दर्शन-निष्ठः 1/1 द्वन्द्व-सहिष्णुः 1/1 अमृतत्वाय 4/1 अमृत-भावाय 4/1 मोक्षाय 4/1 इत्यर्थः 1/1, कल्पते III/1 समर्थः 1/1 भवति III/1 ॥ १५ ॥