तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||
तस्य 6/1 सञ्जनयन् 1/1 हर्षम् 2/1 कुरुवृद्धः 1/1 पितामहः 1/1 ।
सिंहनादम् 2/1 विनद्य 0 उच्चैः 0 शङ्खम् 2/1 दध्मौ III/1 प्रतापवान् 1/1 ॥१-१२॥
· तस्य [tasya] = his (Duryodhana’s) = तद् (pron. m.) + सम्बन्धे to हर्षम् 6/1
· सञ्जनयन् [sañjanayan] = producing = सञ्जनयत् + adj. to [भीष्मः] 1/1
o सम् + जन् to be born+ णिच् (causative) to produce + शतृ (one who is doing …) = सञ्जनयत् one who is producing
· हर्षम् [harṣam] = joy = हर्ष (m.) + कर्मणि of सञ्जनयन् 2/1
· कुरुवृद्धः [kuruvṛddhaḥ] = elder of Kuru family = कुरुवृद्ध + adj. to [भीष्मः] 1/1
· पितामहः [pitāmahaḥ] = grandfather = पितामह + adj. to [भीष्मः] 1/1
· सिंहनादम् [siṃhanādam] = roar of lion = सिंहनाद (m.) + कर्मणि of विनद्य 2/1
· विनद्य [vinadya] = roaring = अव्ययम्
o वि + नद् to roar, cry out + ल्यप् (having done …) = विनद्य = having crying out
· उच्चैः [uccaiḥ] = loudly = अव्ययम्
· शङ्खम् [śaṅkham] = conch shell = शङ्ख (m.) + कर्मणि of दध्मौ 2/1
· दध्मौ [dadhmau] = blew = ध्मा to blow + लिट्/कर्तरि/III/1
· प्रतापवान् [pratāpavān] = one who has splendor = प्रतापवत् + adj. to [भीष्मः] 1/1
o प्रतापः अस्य अस्ति इति प्रतापवान् । मतुँप्
॥१-१२॥
Bhīṣma, the grandfather of the Kuru family, known for his valour, loudly let out a lion’s roar and blew his conch in order to make Duryodhana happy.
Main sentence 1:
प्रतापवान् 1/1 शङ्खम् 2/1 उच्चैः 0 दध्मौ III/1। Bhīṣma, one who has splendor, blew the conch loudly.
Descrption of Bhīṣma – Action 1:
कुरुवृद्धः 1/1 पितामहः 1/1 तस्य 6/1 हर्षम् 2/1 सञ्जनयन् 1/1 । The elder, the grandfather of Kuru family, producing the joy of Duryodhana,
Action 2:
सिंहनादम् 2/1 विनद्य 0 । Roaring the cry of lion
तस्य 6/1 हर्षम् 2/1 सञ्जनयन् 1/1 कुरुवृद्धः 1/1 प्रतापवान् 1/1 पितामहः 1/1 सिंहनादम् 2/1 उच्चैः 0 विनद्य 0 शङ्खम् 2/1 दध्मौ III/1 ॥१-१२॥