अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ १८.७० ॥
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ |
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ || 18.70 ||
अध्येष्यते III/1 च 0 यः 1/1 इमम् 2/1 धर्म्यम् 2/1 संवादम् 2/1 आवयोः 6/2।
ज्ञानयज्ञेन 3/1 तेन 3/1 अहम् 1/1 इष्टः 1/1 स्याम् I/1 इति 0 मे 6/1 मतिः 1/1 ॥ १८.७० ॥
· अध्येष्यते [adhyeṣyate] = will study or recite = अधि + इङ् (2A) to study + लृट्/कर्तरि/III/1
· च [ca] = and = अव्ययम्
· यः [yaḥ] = who = यद् (pron.) + कर्तरि to अध्येष्यते 1/1
· इमम् [imam] = this = इदम् (pron.) + adj. to संवादम् 2/1
· धर्म्यम् [dharmyam] = unopposed to dharma = धर्म्य (m.) + adj. to संवादम् 2/1
· संवादम् [saṃvādam] = dialogue = संवाद (m.) + कर्मणि to अध्येष्यते 2/1
· आवयोः [āvayoḥ] = of us two = अस्मद् (pron.) + सम्बन्धे to संवादम् 6/2
· ज्ञानयज्ञेन [jñānayajñena] = through the ritual in the form of knowledge = ज्ञानयज्ञ (m.) + करणे to इष्टः 3/1
· तेन [tena] = through that = तद् (pron.) + adj. to ज्ञानयज्ञेन 3/1
· अहम् [aham] = I = अस्मद् (pron.) + कर्तरि to स्याम् 1/1
· इष्टः [iṣṭaḥ] = worshipped = इष्ट (m.) + S.C. to अहम् 1/1
· स्याम् [syām] = I will be = अस् (2P) to be + विधिलिङ्/कर्तरि/I/1
· इति [iti] = thus = अव्ययम्
· मे [me] = My = अस्मद् (pron.) + सम्बन्धे to मतिः 6/1
· मतिः [matiḥ] = conclusion, intention = मति (f.) + कर्तरि to (भवति) 1/1
The one who studies or recites this dialogue of ours, that is unopposed to dharma, through that ritual in the form of knowledge, I would be worshipped. This is My conclusion.
Sentence 1:
यः 1/1 च 0 इमम् 2/1 धर्म्यम् 2/1 आवयोः 6/2 संवादम् 2/1 अध्येष्यते III/1, तेन 3/1 ज्ञानयज्ञेन 3/1 अहम् 1/1 इष्टः 1/1 स्याम् I/1 इति 0 मे 6/1 मतिः 1/1॥
The one who (यः 1/1 च 0) studies or recites (अध्येष्यते III/1) this (इमम् 2/1) dialogue (संवादम् 2/1) of ours (आवयोः 6/2), that is unopposed to dharma (धर्म्यम् 2/1), through that (तेन 3/1) ritual in the form of knowledge (ज्ञानयज्ञेन 3/1), I (अहम् 1/1) would be (स्याम् I/1) worshipped (इष्टः 1/1). This (इति 0) is My (मे 6/1) conclusion (मतिः 1/1).
अध्येष्यते III/1 च 0 पठिष्यति यः 1/1 इमम् 2/1 धर्म्यम् 2/1 धर्मादनपेतं संवादरूपं ग्रन्थं आवयोः 6/2, तेन 3/1 इदं कृतं स्यात् । ज्ञानयज्ञेन 3/1 — विधिजपोपांशुमानसानां यज्ञानां ज्ञानयज्ञः मानसत्वात् विशिष्टतमः इत्यतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य अध्ययनं स्तूयते ; फलविधिरेव वा, देवतादिविषयज्ञानयज्ञफलतुल्यम् अस्य फलं भवतीति — तेन अध्ययनेन अहम् 1/1 इष्टः 1/1 पूजितः स्याम् I/1 भवेयम् इति मे इति 0 मे 6/1 मतिः 1/1॥ १८.७० ॥