कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रणष्टस्ते धनञ्जय ॥ १८.७२ ॥
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā |
kaccidajñānasaṃmohaḥ praṇaṣṭaste dhanañjaya || 18.72 ||
कच्चित् 0 एतत् 1/1 श्रुतम् 1/1 पार्थ S/1 त्वया 3/1 एकाग्रेण 3/1 चेतसा 3/1।
कच्चित् 0 अज्ञानसंमोहः 1/1 प्रणष्टः 1/1 ते 4/1 धनञ्जय S/1॥ १८.७२ ॥
· कच्चित् [kaccit] = whether? (an interrogative particle) = अव्ययम्
· एतत् [etat] = this = एतद् (pron.) + कर्तरि to श्रुतम् 1/1
· श्रुतम् [śrutam] = listened to = श्रुत (n.) + S.C. to एतत् 1/1
· पार्थ [pārtha] = O Pārtha = पार्थ (m.) + संबोधने 1/1
· त्वया [tvayā] = by you = युष्मद् (pron.) + कर्तरि to श्रुतम् 3/1
· एकाग्रेण [ekāgreṇa] = single-pointed = एकाग्र (n.) + adj. to चेतसा 3/1
· चेतसा [cetasā] = with the mind = चेतस् (n.) + करणे to श्रुतम् 3/1
· कच्चित् [kaccit] = whether? = अव्ययम्
· अज्ञानसंमोहः [ajñānasaṃmohaḥ] = delusion born of ignorance = अज्ञानसंमोह (m.) + कर्तरि to (भवति) 1/1
· प्रणष्टः [praṇaṣṭaḥ] = destroyed = प्रनष्ट (m.) + S.C. to अज्ञानसंमोहः 1/1
· ते [te] = of you = युष्मद्
(pron.) + सम्बन्धे to अज्ञानसंमोहः
6/1;
= for you = युष्मद् (pron.) + सम्प्रदाने 4/1;
· धनञ्जय [dhanañjaya] = O Dhanañjaya = धनञ्जय (m.) + संबोधने 1/1
Has this been ‘listened to’ by you, Pārtha (Arjuna)! with a single pointed mind? Is your delusion that is caused by ignorance destroyed, Dhanañjaya (Arjuna)?
Sentence 1:
कच्चित् 0 एतत् 1/1 त्वया 3/1 एकाग्रेण 3/1 चेतसा 3/1 श्रुतम् 1/1 पार्थ S/1।
Has (कच्चित् 0) this (एतत् 1/1) been ‘listened to’ (श्रुतम् 1/1) by you (त्वया 3/1), Pārtha (पार्थ S/1) (Arjuna)! with a single pointed (एकाग्रेण 3/1) mind (चेतसा 3/1)?
Sentence 2:
कच्चित् 0 ते 4/1 अज्ञानसंमोहः 1/1 प्रणष्टः 1/1 धनञ्जय S/1॥
Is (कच्चित् 0) the delusion that is caused by ignorance (अज्ञानसंमोहः 1/1) destroyed (प्रणष्टः 1/1) for you (ते 4/1), Dhanañjaya (धनञ्जय S/1) (Arjuna)?
कच्चित् 0 किम् एतत् 1/1 मया उक्तं श्रुतम् 1/1 श्रवणेन अवधारितं पार्थ S/1, त्वया 3/1 एकाग्रेण 3/1 चेतसा 3/1 चित्तेन ? किं वा अप्रमादतः ? कच्चित् 0 अज्ञानसंमोहः 1/1 अज्ञाननिमित्तः संमोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः 1/1? यदर्थः अयं शास्त्रश्रवणायासः तव, मम च उपदेष्टृत्वायासः प्रवृत्तः, ते 4/1 तुभ्यं हे धनञ्जय S/1॥ १८.७२ ॥