श्रीभगवानुवाच ।
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८.२ ॥
śrībhagavānuvāca |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ || 18.2 ||
श्रीभगवान् 1/1 उवाच III/1 ।
काम्यानाम् 6/3 कर्मणाम् 6/3 न्यासम् 2/1 संन्यासम् 2/1 कवयः 1/3 विदुः III/3 ।
सर्वकर्मफलत्यागम् 2/1 प्राहुः III/3 त्यागम् 2/1 विचक्षणाः 1/3 ॥ १८.२ ॥
· काम्यानाम् [kāmyānām] = of desired (actions) = काम्य (n.) + adj. to कर्मणाम् 6/3
· कर्मणाम् [karmaṇām] = of actions = कर्मन् (n.) + सम्बन्धे to न्यासम् 6/3
· न्यासम् [nyāsam] = renunciation, laying down = न्यास (m.) + O.C. to संन्यासम् 2/1
· संन्यासम् [saṃnyāsam] = renunciation = संन्यास (m.) + कर्मणि to विदुः 2/1
· कवयः [kavayaḥ] = the wise = कवि (m.) + कर्तरि to विदुः 1/3
· विदुः [viduḥ] = know = विद् (2P) to know + लट्/कर्तरि/III/3
· सर्वकर्मफलत्यागम् [sarvakarmaphalatyāgam] = renunciation of the results of all actions = सर्वकर्मफलत्याग (m.) + कर्मणि to प्राहुः 2/1
· प्राहुः [prāhuḥ] = say = प्र + आह् (2P) to say + लट्/कर्तरि/III/3
· त्यागम् [tyāgam] = renunciation = त्याग (m.) + कर्मणि to प्राहुः 2/1
· विचक्षणाः [vicakṣaṇāḥ] = the discerning, learned = विचक्षण (m.) + कर्तरि to प्राहुः 1/3
Śrī Bhagavān said:
The wise know sannyāsa as renunciation of actions for desired objects; the learned people say renunciation of the results of all actions is tyāga.
Sentence 1:
श्रीभगवान् 1/1 उवाच III/1 ।
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1):
Sentence 2:
कवयः 1/3 काम्यानाम् 6/3 कर्मणाम् 6/3 न्यासम् 2/1 संन्यासम् 2/1 विदुः III/3।
The wise (कवयः 1/3) know (विदुः III/3) sannyāsa (संन्यासम् 2/1) as renunciation (न्यासम् 2/1) of actions for desired objects (काम्यानाम् 6/3 कर्मणाम् 6/3).
Sentence 3:
विचक्षणाः 1/3 सर्वकर्मफलत्यागम् 2/1 त्यागम् 2/1 प्राहुः III/3॥
The learned people (विचक्षणाः 1/3) say (प्राहुः III/3) renunciation of the results of all actions (सर्वकर्मफलत्यागम् 2/1) is tyāga (त्यागम् 2/1).
संन्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ, न निर्लुठितार्थौ पूर्वेषु अध्यायेषु । अतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच —
श्रीभगवानुवाच ।
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं संन्यासशब्दार्थम् , अनुष्ठेयत्वेन प्राप्तस्य अनुष्ठानम् , कवयः पण्डिताः केचित् विदुः विजानन्ति । नित्यनैमित्तिकानाम् अनुष्ठीयमानानां सर्वकर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थं विचक्षणाः पण्डिताः । यदि काम्यकर्मपरित्यागः फलपरित्यागो वा अर्थः वक्तव्यः, सर्वथा परित्यागमात्रं संन्यासत्यागशब्दयोः एकः अर्थः स्यात् , न घटपटशब्दाविव जात्यन्तरभूतार्थौ ॥
ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्ति इति आहुः । कथम् उच्यते तेषां फलत्यागः, यथा वन्ध्यायाः पुत्रत्यागः ? नैष दोषः, नित्यानामपि कर्मणां भगवता फलवत्त्वस्य इष्टत्वात् । वक्ष्यति हि भगवान् ‘अनिष्टमिष्टं मिश्रं च’ (भ. गी. १८ । १२) इति ‘न तु संन्यासिनाम्’ (भ. गी. १८ । १२) इति च । संन्यासिनामेव हि केवलं कर्मफलासम्बन्धं दर्शयन् असंन्यासिनां नित्यकर्मफलप्राप्तिम् ‘भवत्यत्यागिनां प्रेत्य’ (भ. गी. १८ । १२) इति दर्शयति ॥ २ ॥