Showing posts with label 1322 13th Chapter 22nd Sloka. Show all posts
Showing posts with label 1322 13th Chapter 22nd Sloka. Show all posts

Thursday, May 18, 2023

13th Chapter 22nd Sloka

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।

परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३.२२ ॥

 

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ |

paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ || 13.22 ||

 

उपद्रष्टा 1/1 अनुमन्ता 1/1 च 0 भर्ता 1/1 भोक्ता 1/1 महेश्वरः 1/1 ।

परमात्मा 1/1 इति 0 च 0 अपि 0 उक्तः 1/1 देहे 7/1 अस्मिन् 7/1 पुरुषः 1/1 परः 1/1 ॥ १३.२२ ॥

 

The ultimate seer, permitter, sustainer, enjoyer, limitless Lord (creator), and also called ‘limitless self ’, is the puruṣa, the person who is limitless, in this body.

 

The ultimate seer (उपद्रष्टा 1/1), permitter (अनुमन्ता 1/1 च 0), sustainer (भर्ता 1/1), enjoyer (भोक्ता 1/1), limitless Lord (महेश्वरः 1/1) (creator), and (च 0) also (अपि 0) called (उक्तः 1/1) ‘limitless self (परमात्मा 1/1 इति 0)’, is the puruṣa, the person (पुरुषः 1/1) who is limitless (परः 1/1), in this (अस्मिन् 7/1) body (देहे 7/1).

 

·       उपद्रष्टा [upadraṣṭā] = the ultimate seer = उपद्रष्टृ m. + S.C. to पुरुषः 1/1

o   उप + दृश् + तृच्

·       अनुमन्ता [anumantā] = permitter = अनुमन्तृ m. + S.C. to पुरुषः 1/1

o   अनु + मन् to permit + तृच्

·       च [ca] = and = अव्ययम्

·       भर्ता [bhartā] = sustainer = भर्तृ m. + S.C. to पुरुषः 1/1

o   भृ to sustain + तृच्

·       भोक्ता [bhoktā] = enjoyer = भोक्तृ m. + S.C. to पुरुषः 1/1

o   भुज् to enjoy + तृच्

·       महेश्वरः [maheśvaraḥ] = limitless Lord = महेश्वर m. + S.C. to पुरुषः 1/1

o   महान् च असौ ईश्वरः च महेश्वरः (KT) ।

·       परमात्मा [paramātmā] = limitless self = परमात्मन् (m.) + प्रातिपदिकार्थमात्रे 1/1

o   परमः च असौ आत्मा च परमात्मा (KT) ।

·       इति [iti] = thus = अव्ययम्

·       च [ca] = and = अव्ययम्

·       अपि [api] = also = अव्ययम्

·       उक्तः [uktaḥ] = called = उक्त m. + S.C. to पुरुषः 1/1

o   वच् to say + क्त

·       देहे [dehe] = in the body = देह (m.) + अधिरकणे to पुरुषः 7/1

·       अस्मिन् [asmin] = in this = इदम् m. + adj. to देहे 7/1

·       पुरुषः [puruṣaḥ] = puruṣa = पुरुष (m.) + कर्तरि to (भवति) 1/1

·       परः [paraḥ] = limitless = पर m. + S.C. to पुरुषः 1/1

 

अन्वयः

देहे 7/1 अस्मिन् 7/1 पुरुषः 1/1 उपद्रष्टा 1/1 अनुमन्ता 1/1 भर्ता 1/1 भोक्ता 1/1 महेश्वरः 1/1 च 0 परमात्मा 1/1 इति 0 च 0 अपि 0 उक्तः 1/1 परः 1/1 ॥

 

तस्यैव पुनः साक्षात् निर्देशः क्रियते —

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।

परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२ ॥

उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः । यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतः यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणाम् ईक्षिता, तद्वच्च कार्यकरणव्यापारेषु अव्यापृतः अन्यः तद्विलक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा, देहचक्षुर्मनोबुद्ध्यात्मानः द्रष्टारः, तेषां बाह्यः द्रष्टा देहः, ततः आरभ्य अन्तरतमश्च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परः अन्तरतमः नास्ति द्रष्टा ; सः अतिशयसामीप्येन द्रष्टृत्वात् उपद्रष्टा स्यात् । यज्ञोपद्रष्टृवद्वा सर्वविषयीकरणात् उपद्रष्टा । अनुमन्ता च, अनुमोदनम् अनुमननं कुर्वत्सु तत्क्रियासु परितोषः, तत्कर्ता अनुमन्ता च । अथवा, अनुमन्ता, कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलः विभाव्यते, तेन अनुमन्ता । अथवा, प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयति इति अनुमन्ता । भर्ता, भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत् स्वरूपधारणम् , तत् चैतन्यात्मकृतमेव इति भर्ता आत्मा इति उच्यते । भोक्ता, अग्न्युष्णवत् नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाः चैतन्यात्मग्रस्ता इव जायमानाः विभक्ताः विभाव्यन्ते इति भोक्ता आत्मा उच्यते । महेश्वरः, सर्वात्मत्वात् स्वतन्त्रत्वाच्च महान् ईश्वरश्च इति महेश्वरः । परमात्मा, देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानाम् अविद्यया परमः उपद्रष्टृत्वादिलक्षणः आत्मा इति परमात्मा । सः अतः ‘परमात्मा’ इत्यनेन शब्देन च अपि उक्तः कथितः श्रुतौ । क्व असौ ? अस्मिन् देहे पुरुषः परः अव्यक्तात् , ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ (भ. गी. १५ । १७) इति यः वक्ष्यमाणः ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इति उपन्यस्तः व्याख्याय उपसंहृतश्च ॥ २२ ॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.