सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२.३८॥
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2.38||
सुखदुःखे 2/2 समे 2/2 कृत्वा 0 लाभालाभौ 2/2 जयाजयौ 2/2 ।
ततः 0 युद्धाय 4/1 युज्यस्व II/1 न 0 एवम् 0 पापम् 2/1 अवाप्स्यसि II/1 ॥२.३८॥
· सुखदुःखे [sukhaduḥkhe] = pleasure and pain = सुखदुःख (n.) + कर्मणि to कृत्वा 2/2
o सुखं च दुःखं च सुखदुःखे । इतरेतरद्वन्द्वसमासः
· समे [same] = same = सम (n.) + objective compliment 2/2
· कृत्वा [kṛtvā] = having made = अव्ययम्
o कृ to win + त्वा
· लाभालाभौ [lābhālābhau] = gain and loss = लाभालाभ (m.) + कर्मणि to कृत्वा 2/2
o लाभः च अलाभः च लाभालाभौ । इतरेतरद्वन्द्वसमासः
· जयाजयौ [jayājayau] = victory and defeat = जयाजय (m.) + कर्मणि to कृत्वा 2/2
o लाभः च अलाभः च लाभालाभौ । इतरेतरद्वन्द्वसमासः
· ततः [tataḥ] = than that = अव्ययम्
o तद् + तसिल् (5th case meaning)
· युद्धाय [yuddhāya] = for the battle = युद्ध (n.) + 4/1
· युज्यस्व [uttiṣṭha] = (you) prepare = युज् (4A) to concentrate the mind + लोट्/कर्तरि/II/1
· न [na] = not = अव्ययम्
· एवम् [evam] = in this manner = अव्ययम्
· पापम् [pāpam] = undesired result = पाप (n.) + कर्मणि to अवाप्स्यसि 2/1
· अवाप्स्यसि [avāpsyasi] = (you) will gain = अव + आप् (5P) to gain + लृट्/कर्तरि/II/1
Taking pleasure and pain, gain and loss, victory and defeat to be the same, prepare for battle. Thus you will incur no pāpa.
Sentence 1:
सुखदुःखे 2/2 लाभालाभौ 2/2 जयाजयौ 2/2 समे 2/2 कृत्वा 0 ततः 0युद्धाय 4/1 युज्यस्व II/1
Taking (कृत्वा 0) pleasure and pain (सुखदुःखे 2/2), gain and loss (लाभालाभौ 2/2), victory and defeat (जयाजयौ 2/2) to be the same (समे 2/2), then (ततः 0) prepare (युज्यस्व II/1) for battle (युद्धाय 4/1).
Sentence 2:
न 0 एवम् 0 पापम् 2/1 अवाप्स्यसि II/1 ॥२.३८॥
Thus (एवम् 0) you will incur (अवाप्स्यसि II/1) no (न 0) pāpa (पापम् 2/1).
तत्र 0 युद्धम् 1/1 स्वधर्मम् 1/1 इति 0 एवम् 0 युध्यमानस्य 6/1 उपदेशम् 2/1 इमम् 2/1 शृणु II/1 —
सुखदुःखे 2/2 समे 2/2 तुल्ये 2/2 कृत्वा 0, राग-द्वेषौ 2/2 अकृत्वा 0 इति 0 एतत् 1/1 । तथा 0 लाभालाभौ 2/2 जयाजयौ 2/2 च 0 समौ 2/2 कृत्वा 0 ततः 0 युद्धाय 4/1 युज्यस्व II/1 घटस्व II/1 । न 0 एवम् 0 युद्धम् 2/1 कुर्वन् 1/1 पापम् 2/1 अवाप्स्यसि II/1 । इति 0 एषः 1/1 उपदेशः 1/1 प्रासङ्गिकः 1/1 ॥ ३८ ॥