बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ १८.५१ ॥
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca|
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca || 18.51 ||
बुद्ध्या 3/1 विशुद्धया 3/1 युक्तः 1/1 धृत्या 3/1 आत्मानम् 2/1 नियम्य 0 च 0 ।
शब्दादीन् 2/3 न्विषयान् 2/3 त्यक्त्वा 0 रागद्वेषौ 2/2 व्युदस्य 0 च 0 ॥ १८.५१ ॥
· बुद्ध्या [buddhyā] = with a mind = बुद्धि (f.) + कर्तरि to युक्तः 3/1
· विशुद्धया [viśuddhayā] = very clear = विशुद्धा (f.) + adj. to युक्तः 3/1
· युक्तः [yuktaḥ] = endowed = युक्त (m.) + कर्तरि to (कल्पते in the 53rd verse) 1/1
· धृत्या [dhṛtyā] = with firmness, steadiness = धृति (f.) + करणे to नियम्य 3/1
· आत्मानम् [ātmānam] = the body-mind-sense complex = आत्मन् (m.) + कर्मणि to नियम्य 2/1
· नियम्य [niyamya] = mastering = अव्ययम्
o नि + यम् (1A) to control + ल्यप्
· च [ca] = and = अव्ययम्
· शब्दादीन् [śabdādīn] = sound etc. = शब्दादि (m.) + adj. to निषयान् 2/3
· निषयान् [viṣayān] = sense objects = विषय (m.) + कर्मणि to त्यक्त्वा 2/3
· त्यक्त्वा [tyaktvā] = having given up = अव्ययम्
o त्यज् (1P) to abandon + क्त्वा
· रागद्वेषौ [rāgadveṣau] = likes and dislikes = रागद्वेष (m.) + कर्मणि to व्युदस्य 2/2
· व्युदस्य [vyudasya] = having given up = अव्ययम्
o वि + उद् + अस् (4P) to give up + ल्यप्
· च [ca] = and = अव्ययम्
The one who endowed with a mind that is very clear, mastering the body-mind-sense complex with a firm resolve, giving up the sense objects such as sound, etc., and giving up likes and dislikes…
Sentence 1:
विशुद्धया 3/1 बुद्ध्या 3/1 युक्तः 1/1 धृत्या 3/1 आत्मानम् 2/1 नियम्य 0 च 0, शब्दादीन् 2/3 विषयान् 2/3 त्यक्त्वा 0, रागद्वेषौ 2/2 व्युदस्य 0 च 0॥
The one who endowed (युक्तः 1/1) with a mind (बुद्ध्या 3/1) that is very clear (विशुद्धया 3/1), mastering (नियम्य 0) the body-mind-sense complex (आत्मानम् 2/1) with a firm resolve (धृत्या 3/1), giving up (त्यक्त्वा 0) the sense objects (विषयान् 2/3) such as sound, etc., (शब्दादीन् 2/3) and (च 0) giving up (व्युदस्य 0) likes and dislikes (रागद्वेषौ 2/2) …
सा इयं ज्ञानस्य परा निष्ठा उच्यते, कथं कार्या इति —
बुद्ध्या 3/1 अध्यवसायलक्षणया विशुद्धया 3/1 मायारहितया युक्तः 1/1 सम्पन्नः, धृत्या 3/1 धैर्येण आत्मानम् 2/1 कार्यकरणसङ्घातं नियम्य 0 च 0 नियमनं कृत्वा वशीकृत्य, शब्दादीन् 2/3 शब्दः आदिः येषां तान् विषयान् 2/3 त्यक्त्वा 0, सामर्थ्यात् शरीरस्थितिमात्रहेतुभूतान् केवलान् मुक्त्वा ततः अधिकान् सुखार्थान् त्यक्त्वा इत्यर्थः, शरीरस्थित्यर्थत्वेन प्राप्तेषु रागद्वेषौ 2/2 व्युदस्य 0 च 0 परित्यज्य च ॥ १८.५१ ॥