सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८.६६ ॥
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ || 18.66 ||
सर्वधर्मान् 2/3 परित्यज्य 0 माम् 2/1 एकम् 2/1 शरणम् 2/1 व्रज II/1।
अहम् 1/1 त्वा 2/1 सर्वपापेभ्यः 5/3 मोक्षयिष्यामि I/1 मा 0 शुचः II/1॥ १८.६६ ॥
· सर्वधर्मान् [sarvadharmān] = all karmas = सर्वधर्म (m.) + कर्मणि to परित्यज्य 2/3
· परित्यज्य [parityajya] = giving up = अव्ययम्
o परि + त्यज् (1P) to give up + ल्यप्
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to व्रज 2/1
· एकम् [ekam] = alone, only = एक (n.) + adj. to शरणम् 2/1
· शरणम् [śaraṇam] = refuge = शरण (n.) + O.C. to माम् 2/1
· व्रज [vraja] = take refuge = व्रज् गतौ (1P) to go, to reach, to approach + लोट्/कर्तरि/II/1
· अहम् [aham] = I = अस्मद् (pron.) + कर्तरि to मोक्षयिष्यामि 1/1
· त्वा [tvā] = you = युष्मद् (pron.) + कर्मणि to मोक्षयिष्यामि 2/1
· सर्वपापेभ्यः [sarvapāpebhyaḥ] = from all karmas = सर्वपाप (n.) + अपादाने 5/3
· मोक्षयिष्यामि [mokṣayiṣyāmi] = I will release = मोक्ष् असने (10U) to release + लृट्/कर्तरि/I/1
· मा [mā] = do not = अव्ययम्
· शुचः [śucaḥ] = grieve = शुच् (1A) to grieve + लुङ्/कर्तरि/II/1
o This form can be said as शिष्टप्रयोग, or irregular.
Giving up all karmas, take refuge in me alone. I will release you from all karmas; do not grieve.
Sentence 1:
सर्वधर्मान् 2/3 परित्यज्य 0 माम् 2/1 एकम् 2/1 शरणम् 2/1 व्रज II/1।
Giving up (परित्यज्य 0) all karmas (सर्वधर्मान् 2/3), take (व्रज II/1) refuge (शरणम् 2/1) in me (माम् 2/1) alone (एकम् 2/1).
Sentence 2:
अहम् 1/1 सर्वपापेभ्यः 5/3 त्वा 2/1 मोक्षयिष्यामि I/1।
I (अहम् 1/1) will release (मोक्षयिष्यामि I/1) you (त्वा 2/1) from all karmas (सर्वपापेभ्यः 5/3).
Sentence 3:
मा 0 शुचः II/1॥
Do not grieve (मा 0 शुचः II/1).
कर्मयोग-निष्ठायाः परम-रहस्यम् ईश्वर-शरणताम् उपसंहृत्य, अथ इदानीं कर्मयोग-निष्ठा-फलं सम्यग्दर्शनं सर्ववेदान्त-सार-विहितं वक्तव्यमिति आह —
सर्वधर्मान् 2/3 सर्वे च ते धर्माश्च सर्वधर्माः तान् — धर्मशब्देन अत्र अधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात् , “नाविरतो दुश्चरितात्” (क. उ. १ । २ । २४) “त्यज धर्ममधर्मं च” (मो. ध. ३२९ । ४०) इत्यादिश्रुतिस्मृतिभ्यः — सर्वधर्मान् परित्यज्य 0 संन्यस्य सर्वकर्माणि इत्येतत् । माम् 2/1 एकम् 2/1 सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं गर्भजन्मजरामरणवर्जितम् “अहमेव” इत्येवं शरणम् 2/1 व्रज II/1, न मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थः । अहम् 1/1 त्वा 2/1 त्वाम् एवं निश्चितबुद्धिं सर्वपापेभ्यः 5/3 सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि I/1 स्वात्मभावप्रकाशीकरणेन । उक्तं च “नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता” (भ. गी. १० । ११) इति । अतः मा 0 शुचः II/1 शोकं मा कार्षीः इत्यर्थः ॥
अस्मिन्गीताशास्त्रे परमनिःश्रेयससाधनं निश्चितं किं ज्ञानम् , कर्म वा, आहोस्वित् उभयम् ? इति । कुतः संशयः ? “यज्ज्ञात्वामृतमश्नुते” (भ. गी. १३ । १२) “ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्” (भ. गी. १८ । ५५) इत्यादीनि वाक्यानि केवलाज्ज्ञानात् निःश्रेयसप्राप्तिं दर्शयन्ति । “कर्मण्येवाधिकारस्ते” (भ. गी. २ । ४७) “कुरु कर्मैव” (भ. गी. ४ । १५) इत्येवमादीनि कर्मणामवश्यकर्तव्यतां दर्शयन्ति । एवं ज्ञानकर्मणोः कर्तव्यत्वोपदेशात् समुच्चितयोरपि निःश्रेयसहेतुत्वं स्यात् इति भवेत् संशयः कस्यचित् । किं पुनरत्र मीमांसाफलम् ? ननु एतदेव — एषामन्यतमस्य परमनिःश्रेयससाधनत्वावधारणम् ; अतः विस्तीर्णतरं मीमांस्यम् एतत् ॥
आत्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वम् , भेदप्रत्ययनिवर्तकत्वेन कैवल्यफलावसायित्वात् । क्रियाकारकफलभेदबुद्धिः अविद्यया आत्मनि नित्यप्रवृत्ता — “मम कर्म, अहं कर्तामुष्मै फलायेदं कर्म करिष्यामि” इति इयम् अविद्या अनादिकालप्रवृत्ता । अस्या अविद्यायाः निवर्तकम् “अयमहमस्मि केवलोऽकर्ता अक्रियोऽफलः ; न मत्तोऽन्योऽस्ति कश्चित्” इत्येवंरूपम् आत्मविषयं ज्ञानम् उत्पद्यमानम् , कर्मप्रवृत्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्वात् । तु - शब्दः पक्षव्यावृत्त्यर्थः — न केवलेभ्यः कर्मभ्यः, न च ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रेयसप्राप्तिः इति पक्षद्वयं निवर्तयति । अकार्यत्वाच्च निःश्रेयसस्य कर्मसाधनत्वानुपपत्तिः । न हि नित्यं वस्तु कर्मणा ज्ञानेन वा क्रियते । केवलं ज्ञानमपि अनर्थकं तर्हि ? न, अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात् । अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टं कैवल्यफलावसानत्वम् , रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत् । विनिवृत्तसर्पादिविकल्परज्जुकैवल्यावसानं हि प्रकाशफलम् ; तथा ज्ञानम् । दृष्टार्थानां च च्छिदिक्रियाग्निमन्थनादीनां व्यापृतकर्त्रादिकारकाणां द्वैधीभावाग्निदर्शनादिफलात् अन्यफले कर्मान्तरे वा व्यापारानुपपत्तिः यथा, तथा दृष्टार्थायां ज्ञाननिष्ठाक्रियायां व्यापृतस्य ज्ञात्रादिकारकस्य आत्मकैवल्यफलात् कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता उपपद्यते । भुज्यग्निहोत्रादिक्रियावत्स्यात् इति चेत् , न ; कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः । कैवल्यफले हि ज्ञाने प्राप्ते, सर्वतःसम्प्लुतोदकफले कूपतटाकादिक्रियाफलार्थित्वाभाववत् , फलान्तरे तत्साधनभूतायां वा क्रियायाम् अर्थित्वानुपपत्तिः । न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले व्यापारः उपपद्यते, तद्विषयं वा अर्थित्वम् । तस्मात् न कर्मणोऽस्ति निःश्रेयससाधनत्वम् । न च ज्ञानकर्मणोः समुच्चितयोः । नापि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्यापेक्षा, अविद्यानिवर्तकत्वेन विरोधात् । न हि तमः तमसः निवर्तकम् । अतः केवलमेव ज्ञानं निःश्रेयससाधनम् इति । न ; नित्याकरणे प्रत्यवायप्राप्तेः, कैवल्यस्य च नित्यत्वात् । यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिः इत्येतत् , तत् असत् ; यतः नित्यानां कर्मणां श्रुत्युक्तानाम् अकरणे प्रत्यवायः नरकादिप्राप्तिलक्षणः स्यात् । ननु एवं तर्हि कर्मभ्यो मोक्षो नास्ति इति अनिर्मोक्ष एव । नैष दोषः ; नित्यत्वात् मोक्षस्य । नित्यानां कर्मणाम् अनुष्ठानात् प्रत्यवायस्य अप्राप्तिः, प्रतिषिद्धस्य च अकरणात् अनिष्टशरीरानुपपत्तिः, काम्यानां च वर्जनात् इष्टशरीरानुपपत्तिः, वर्तमानशरीरारम्भकस्य च कर्मणः फलोपभोगक्षये पतिते अस्मिन् शरीरे देहान्तरोत्पत्तौ च कारणाभावात् आत्मनः रागादीनां च अकरणे स्वरूपावस्थानमेव कैवल्यमिति अयत्नसिद्धं कैवल्यम् इति । अतिक्रान्तानेकजन्मान्तरकृतस्य स्वर्गनरकादिप्राप्तिफलस्य अनारब्धकार्यस्य उपभोगानुपपत्तेः क्षयाभावः इति चेत् , न ; नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः । प्रायश्चित्तवद्वा पूर्वोपात्तदुरितक्षयार्थं नित्यं कर्म । आरब्धानां च कर्मणाम् उपभोगेनैव क्षीणत्वात् अपूर्वाणां च कर्मणाम् अनारम्भे अयत्नसिद्धं कैवल्यमिति । न ; “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” (श्वे. उ. ३ । ८) इति विद्याया अन्यः पन्थाः मोक्षाय न विद्यते इति श्रुतेः, चर्मवदाकाशवेष्टनासम्भववत् अविदुषः मोक्षासम्भवश्रुतेः, “ज्ञानात्कैवल्यमाप्नोति” ( ? ) इति च पुराणस्मृतेः ; अनारब्धफलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्च । यथा पूर्वोपात्तानां दुरितानाम् अनारब्धफलानां सम्भवः, तथा पुण्यानाम् अनारब्धफलानां स्यात्सम्भवः । तेषां च देहान्तरम् अकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः । धर्माधर्महेतूनां च रागद्वेषमोहानाम् अन्यत्र आत्मज्ञानात् उच्छेदानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिः । नित्यानां च कर्मणां पुण्यफलत्वश्रुतेः, “वर्णा आश्रमाश्च स्वकर्मनिष्ठाः” (गौ. ध. सू. २ । २ । २९) इत्यादिस्मृतेश्च कर्मक्षयानुपपत्तिः ॥
ये तु आहुः — नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृतदुरितकर्मणां फलमेव, न तु तेषां स्वरूपव्यतिरेकेण अन्यत् फलम् अस्ति, अश्रुतत्वात् , जीवनादिनिमित्ते च विधानात् इति । न अप्रवृत्तानां कर्मणां फलदानासम्भवात् ; दुःखफलविशेषानुपपत्तिश्च स्यात् । यदुक्तं पूर्वजन्मकृतदुरितानां कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति, तदसत् । न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः । अन्यथा स्वर्गफलोपभोगाय अग्निहोत्रादिकर्मारब्धे जन्मनि नरकफलोपभोगानुपपत्तिः न स्यात् । तस्य दुरितस्य दुःखविशेषफलत्वानुपपत्तेश्च — अनेकेषु हि दुरितेषु सम्भवत्सु भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्रफलेषु कल्प्यमानेषु द्वन्द्वरोगादिबाधनं निर्निमित्तं न हि शक्यते कल्पयितुम् , नित्यकर्मानुष्ठानायासदुःखमेव पूर्वोपात्तदुरितफलं न शिरसा पाषाणवहनादिदुःखमिति । अप्रकृतं च इदम् उच्यते — नित्यकर्मानुष्ठानायासदुःखं पूर्वकृतदुरितकर्मफलम् इति । कथम् ? अप्रसूतफलस्य हि पूर्वकृतदुरितस्य क्षयः न उपपद्यत इति प्रकृतम् । तत्र प्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानायासदुःखम् आह भवान् , न अप्रसूतफलस्येति । अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेव इति मन्यते भवान् , ततः नित्यकर्मानुष्ठानायासदुःखमेव फलम् इति विशेषणम् अयुक्तम् । नित्यकर्मविध्यानर्थक्यप्रसङ्गश्च, उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः । किञ्च, श्रुतस्य नित्यस्य कर्मणः दुःखं चेत् फलम् , नित्यकर्मानुष्ठानायासादेव तत् दृश्यते व्यायामादिवत् ; तत् अन्यस्य इति कल्पनानुपपत्तिः । जीवनादिनिमित्ते च विधानात् , नित्यानां कर्मणां प्रायश्चित्तवत् पूर्वकृतदुरितफलत्वानुपपत्तिः । यस्मिन् पापकर्मणि निमित्ते यत् विहितं प्रायश्चित्तम् न तु तस्य पापस्य तत् फलम् । अथ तस्यैव पापस्य निमित्तस्य प्रायश्चित्तदुःखं फलम् , जीवनादिनिमित्तेऽपि नित्यकर्मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव फलं प्रसज्येत, नित्यप्रायश्चित्तयोः नैमित्तिकत्वाविशेषात् । किञ्च अन्यत् — नित्यस्य काम्यस्य च अग्निहोत्रादेः अनुष्ठानायासदुःखस्य तुल्यत्वात् नित्यानुष्ठानायासदुःखमेव पूर्वकृतदुरितस्य फलम् , न तु काम्यानुष्ठानायासदुःखम् इति विशेषो नास्तीति तदपि पूर्वकृतदुरितफलं प्रसज्येत । तथा च सति नित्यानां फलाश्रवणात् तद्विधानान्यथानुपपत्तेश्च नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलम् इति अर्थापत्तिकल्पना च अनुपपन्ना, एवं विधानान्यथानुपपत्तेः अनुष्ठानायासदुःखव्यतिरिक्तफलत्वानुमानाच्च नित्यानाम् । विरोधाच्च ; विरुद्धं च इदम् उच्यते — नित्यकर्मणा अनुष्टीयमानेन अन्यस्य कर्मणः फलं भुज्यते इति अभ्युपगम्यमाने स एव उपभोगः नित्यस्य कर्मणः फलम् इति, नित्यस्य कर्मणः फलाभाव इति च विरुद्धम् उच्यते । किञ्च, काम्याग्निहोत्रादौ अनुष्ठीयमाने नित्यमपि अग्निहोत्रादि तन्त्रेणैव अनुष्ठितं भवतीति तदायासदुःखेनैव काम्याग्निहोत्रादिफलम् उपक्षीणं स्यात् , तत्तन्त्रत्वात् । अथ काम्याग्निहोत्रादिफलम् अन्यदेव स्वर्गादि, तदनुष्ठानायासदुःखमपि भिन्नं प्रसज्येत । न च तदस्ति, दृष्टविरोधात् ; न हि काम्यानुष्ठानायासदुःखात् केवलनित्यानुष्ठानायासदुःखं भिन्नं दृश्यते । किञ्च अन्यत् — अविहितमप्रतिषिद्धं च कर्म तत्कालफलम् , न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेत् । तदा स्वर्गादिष्वपि अदृष्टफलाशासनेन उद्यमो न स्यात् — अग्निहोत्रादीनामेव कर्मस्वरूपाविशेषे अनुष्ठानायासदुःखमात्रेण उपक्षयः नित्यानाम् ; स्वर्गादिमहाफलत्वं काम्यानाम् , अङ्गेतिकर्तव्यताद्याधिक्ये तु असति, फलकामित्वमात्रेणेति । तस्माच्च न नित्यानां कर्मणाम् अदृष्टफलाभावः कदाचिदपि उपपद्यते । अतश्च अविद्यापूर्वकस्य कर्मणः विद्यैव शुभस्य अशुभस्य वा क्षयकारणम् अशेषतः, न नित्यकर्मानुष्ठानम् । अविद्याकामबीजं हि सर्वमेव कर्म । तथा च उपपादितमविद्वद्विषयं कर्म, विद्वद्विषया च सर्वकर्मसंन्यासपूर्विका ज्ञाननिष्ठा — “उभौ तौ न विजानीतः” (भ. गी. २ । १९) “वेदाविनाशिनं नित्यम्” (भ. गी. २ । २१) “ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्” (भ. गी. ३ । ३) “अज्ञानां कर्मसङ्गिनाम्” (भ. गी. ३ । २६) “तत्त्ववित्तु महाबाहो गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते” (भ. गी. ३ । २८) “सर्वकर्माणि मनसा संन्यस्यास्ते” (भ. गी. ५ । १३) “नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्” (भ. गी. ५ । ८), अर्थात् अज्ञः करोमि इति ; आरुरुक्षोः कर्म कारणम् , आरूढस्य योगस्थस्य शम एव कारणम् ; उदाराः त्रयोऽपि अज्ञाः, “ज्ञानी त्वात्मैव मे मतम्” (भ. गी. ७ । १८) “अज्ञाः कर्मिणः गतागतं कामकामाः लभन्ते” ; अनन्याश्चिन्तयन्तो मां नित्ययुक्ताः यथोक्तम् आत्मानम् आकाशकल्पम् उपासते ; “ददामि बुद्धियोगं तं येन मामुपयान्ति ते”, अर्थात् न कर्मिणः अज्ञाः उपयान्ति । भगवत्कर्मकारिणः ये युक्ततमा अपि कर्मिणः अज्ञाः, ते उत्तरोत्तरहीनफलत्यागावसानसाधनाः ; अनिर्देश्याक्षरोपासकास्तु “अद्वेष्टा सर्वभूतानाम्” (भ. गी. १२ । १३) इति आध्यायपरिसमाप्ति उक्तसाधनाः क्षेत्राध्यायाद्यध्यायत्रयोक्तज्ञानसाधनाश्च । अधिष्ठानादिपञ्चकहेतुकसर्वकर्मसंन्यासिनां आत्मैकत्वाकर्तृत्वज्ञानवतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भगवत्तत्त्वविदाम् अनिष्टादिकर्मफलत्रयं परमहंसपरिव्राजकानामेव लब्धभगवत्स्वरूपात्मैकत्वशरणानां न भवति ; भवत्येव अन्येषामज्ञानां कर्मिणामसंन्यासिनाम् इत्येषः गीताशास्त्रोक्तकर्तव्यार्थस्य विभागः ॥
अविद्यापूर्वकत्वं सर्वस्य कर्मणः असिद्धमिति चेत् , न ; ब्रह्महत्यादिवत् । यद्यपि शास्त्रावगतं नित्यं कर्म, तथापि अविद्यावत एव भवति । यथा प्रतिषेधशास्त्रावगतमपि ब्रह्महत्यादिलक्षणं कर्म अनर्थकारणम् अविद्याकामादिदोषवतः भवति, अन्यथा प्रवृत्त्यनुपपत्तेः, तथा नित्यनैमित्तिककाम्यान्यपीति । देहव्यतिरिक्तात्मनि अज्ञाते प्रवृत्तिः नित्यादिकर्मसु अनुपपन्ना इति चेत् , न ; चलनात्मकस्य कर्मणः अनात्मकर्तृकस्य “अहं करोमि” इति प्रवृत्तिदर्शनात् । देहादिसङ्घाते अहंप्रत्ययः गौणः, न मिथ्या इति चेत् , न ; तत्कार्येष्वपि गौणत्वोपपत्तेः । आत्मीये देहादिसङ्घाते अहंप्रत्ययः गौणः ; यथा आत्मीये पुत्रे “आत्मा वै पुत्रनामासि” (तै. आ. एका. २ । ११) इति, लोके च “मम प्राण एव अयं गौः” इति, तद्वत् । नैवायं मिथ्याप्रत्ययः । मिथ्याप्रत्ययस्तु स्थाणुपुरुषयोः अगृह्यमाणविशेषयोः । न गौणप्रत्ययस्य मुख्यकार्यार्थता, अधिकरणस्तुत्यर्थत्वात् लुप्तोपमाशब्देन । यथा “सिंहो देवदत्तः” “अग्निर्माणवकः” इति सिंह इव अग्निरिव क्रौर्यपैङ्गल्यादिसामान्यवत्त्वात् देवदत्तमाणवकाधिकरणस्तुत्यर्थमेव, न तु सिंहकार्यम् अग्निकार्यं वा गौणशब्दप्रत्ययनिमित्तं किञ्चित्साध्यते ; मिथ्याप्रत्ययकार्यं तु अनर्थमनुभवति इति । गौणप्रत्ययविषयं जानाति “नैष सिंहः देवदत्तः”, तथा “नायमग्निर्माणवकः” इति । तथा गौणेन देहादिसङ्घातेन आत्मना कृतं कर्म न मुख्येन अहंप्रत्ययविषयेण आत्मना कृतं स्यात् । न हि गौणसिंहाग्निभ्यां कृतं कर्म मुख्यसिंहाग्निभ्यां कृतं स्यात् । न च क्रौर्येण पैङ्गल्येन वा मुख्यसिंहाग्न्योः कार्यं किञ्चित् क्रियते, स्तुत्यर्थत्वेन उपक्षीणत्वात् । स्तूयमानौ च जानीतः “न अहं सिंहः” “न अहम् अग्निः” इति ; न हि “सिंहस्य कर्म मम अग्नेश्च” इति । तथा “न सङ्घातस्य कर्म मम मुख्यस्य आत्मनः” इति प्रत्ययः युक्ततरः स्यात् ; न पुनः “अहं कर्ता मम कर्म” इति । यच्च आहुः “आत्मीयैः स्मृतीच्छाप्रयत्नैः कर्महेतुभिरात्मा कर्म करोति” इति, न ; तेषां मिथ्याप्रत्ययपूर्वकत्वात् । मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वकाः हि स्मृतीच्छाप्रयत्नादयः । यथा अस्मिन् जन्मनि देहादिसङ्घाताभिमानरागद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवश्च, तथा अतीते अतीततरेऽपि जन्मनि इति अनादिरविद्याकृतः संसारः अतीतोऽनागतश्च अनुमेयः । ततश्च सर्वकर्मसंन्याससहितज्ञाननिष्ठया आत्यन्तिकः संसारोपरम इति सिद्धम् । अविद्यात्मकत्वाच्च देहाभिमानस्य, तन्निवृत्तौ देहानुपपत्तेः संसारानुपपत्तिः । देहादिसङ्घाते आत्माभिमानः अविद्यात्मकः । न हि लोके “गवादिभ्योऽन्योऽहम् , मत्तश्चान्ये गवादयः” इति जानन् तान् “अहम्” इति मन्यते कश्चित् । अजानंस्तु स्थाणौ पुरुषविज्ञानवत् अविवेकतः देहादिसङ्घाते कुर्यात् “अहम्” इति प्रत्ययम् , न विवेकतः जानन् । यस्तु “आत्मा वै पुत्र नामासि” (तै. आ. एका. २ । ११) इति पुत्रे अहंप्रत्ययः, स तु जन्यजनकसम्बन्धनिमित्तः गौणः । गौणेन च आत्मना भोजनादिवत् परमार्थकार्यं न शक्यते कर्तुम् , गौणसिंहाग्निभ्यां मुख्यसिंहाग्निकार्यवत् ॥
अदृष्टविषयचोदनाप्रामाण्यात् आत्मकर्तव्यं गौणैः देहेन्द्रियात्मभिः क्रियत एव इति चेत् , न ; अविद्याकृतात्मत्वात्तेषाम् । न च गौणाः आत्मानः देहेन्द्रियादयः ; किं तर्हि ? मिथ्याप्रत्ययेनैव अनात्मानः सन्तः आत्मत्वमापाद्यन्ते, तद्भावे भावात् , तदभावे च अभावात् । अविवेकिनां हि अज्ञानकाले बालानां दृश्यते “दीर्घोऽहम्” “गौरोऽहम्” इति देहादिसङ्घाते अहंप्रत्ययः । न तु विवेकिनाम् “अन्योऽहं देहादिसङ्घातात्” इति जानतां तत्काले देहादिसङ्घाते अहंप्रत्ययः भवति । तस्मात् मिथ्याप्रत्ययाभावे अभावात् तत्कृत एव, न गौणः । पृथग्गृह्यमाणविशेषसामान्ययोर्हि सिंहदेवदत्तयोः अग्निमाणवकयोर्वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यात् , न अगृह्यमाणविशेषसामान्ययोः । यत्तु उक्तम् “श्रुतिप्रामाण्यात्” इति, तत् न ; तत्प्रामाण्यस्य अदृष्टविषयत्वात् । प्रत्यक्षादिप्रमाणानुपलब्धे हि विषये अग्निहोत्रादिसाध्यसाधनसम्बन्धे श्रुतेः प्रामाण्यम् , न प्रत्यक्षादिविषये, अदृष्टदर्शनार्थविषयत्वात् प्रामाण्यस्य । तस्मात् न दृष्टमिथ्याज्ञाननिमित्तस्य अहंप्रत्ययस्य देहादिसङ्घाते गौणत्वं कल्पयितुं शक्यम् । न हि श्रुतिशतमपि “शीतोऽग्निरप्रकाशो वा” इति ब्रुवत् प्रामाण्यमुपैति । यदि ब्रूयात् “शीतोऽग्निरप्रकाशो वा” इति, तथापि अर्थान्तरं श्रुतेः विवक्षितं कल्प्यम् , प्रामाण्यान्यथानुपपत्तेः, न तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं वा । कर्मणः मिथ्याप्रत्ययवत्कर्तृकत्वात् कर्तुरभावे श्रुतेरप्रामाण्यमिति चेत् , न ; ब्रह्मविद्यायामर्थवत्त्वोपपत्तेः ॥
कर्मविधिश्रुतिवत् ब्रह्मविद्याविधिश्रुतेरपि अप्रामाण्यप्रसङ्ग इति चेत् , न ; बाधकप्रत्ययानुपपत्तेः । यथा ब्रह्मविद्याविधिश्रुत्या आत्मनि अवगते देहादिसङ्घाते अहंप्रत्ययः बाध्यते, तथा आत्मन्येव आत्मावगतिः न कदाचित् केनचित् कथञ्चिदपि बाधितुं शक्या, फलाव्यतिरेकादवगतेः, यथा अग्निः उष्णः प्रकाशश्च इति । न च एवं कर्मविधिश्रुतेरप्रामाण्यम् , पूर्वपूर्वप्रवृत्तिनिरोधेन उत्तरोत्तरापूर्वप्रवृत्तिजननस्य प्रत्यगात्माभिमुख्येन प्रवृत्त्युत्पादनार्थत्वात् । मिथ्यात्वेऽपि उपायस्य उपेयसत्यतया सत्यत्वमेव स्यात् , यथा अर्थवादानां विधिशेषाणाम् ; लोकेऽपि बालोन्मत्तादीनां पयआदौ पाययितव्ये चूडावर्धनादिवचनम् । प्रकारान्तरस्थानां च साक्षादेव वा प्रामाण्यं सिद्धम् , प्रागात्मज्ञानात् देहाभिमाननिमित्तप्रत्यक्षादिप्रामाण्यवत् । यत्तु मन्यसे — स्वयमव्याप्रियमाणोऽपि आत्मा संनिधिमात्रेण करोति, तदेव मुख्यं कर्तृत्वमात्मनः ; यथा राजा युध्यमानेषु योधेषु युध्यत इति प्रसिद्धं स्वयमयुध्यमानोऽपि संनिधानादेव जितः पराजितश्चेति, तथा सेनापतिः वाचैव करोति ; क्रियाफलसम्बन्धश्च राज्ञः सेनापतेश्च दृष्टः । यथा च ऋत्विक्कर्म यजमानस्य, तथा देहादीनां कर्म आत्मकृतं स्यात् , फलस्य आत्मगामित्वात् । यथा वा भ्रामकस्य लोहभ्रामयितृत्वात् अव्यापृतस्यैव मुख्यमेव कर्तृत्वम् , तथा च आत्मनः इति । तत् असत् ; अकुर्वतः कारकत्वप्रसङ्गात् । कारकमनेकप्रकारमिति चेत् , न ; राजप्रभृतीनां मुख्यस्यापि कर्तृत्वस्य दर्शनात् । राजा तावत् स्वव्यापारेणापि युध्यते ; योधानां च योधयितृत्वे धनदाने च मुख्यमेव कर्तृत्वम् , तथा जयपराजयफलोपभोगे । यजमानस्यापि प्रधानत्यागे दक्षिणादाने च मुख्यमेव कर्तृत्वम् । तस्मात् अव्यापृतस्य कर्तृत्वोपचारो यः, सः गौणः इति अवगम्यते । यदि मुख्यं कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजयजमानप्रभृतीनाम् , तदा संनिधिमात्रेणापि कर्तृत्वं मुख्यं परिकल्प्येत ; यथा भ्रामकस्य लोहभ्रमणेन, न तथा राजयजमानादीनां स्वव्यापारो नोपलभ्यते । तस्मात् संनिधिमात्रेण कर्तृत्वं गौणमेव । तथा च सति तत्फलसम्बन्धोऽपि गौण एव स्यात् । न गौणेन मुख्यं कार्यं निर्वर्त्यते । तस्मात् असदेव एतत् गीयते “देहादीनां व्यापारेण अव्यापृतः आत्मा कर्ता भोक्ता च स्यात्” इति । भ्रान्तिनिमित्तं तु सर्वम् उपपद्यते, यथा स्वप्ने ; मायायां च एवम् । न च देहाद्यात्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वाद्यनर्थः उपलभ्यते । तस्मात् भ्रान्तिप्रत्ययनिमित्तः एव अयं संसारभ्रमः, न तु परमार्थः ; इति सम्यग्दर्शनात् अत्यन्त एवोपरम इति सिद्धम् ॥ १८.६६ ॥