भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५.२९॥
bhoktāraṃ
yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ
sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5.29||
भोक्तारम्
2/1 यज्ञतपसाम् 6/3 सर्वलोकमहेश्वरम् 2/1 ।
सुहृदम्
2/1 सर्वभूतानाम् 6/3 ज्ञात्वा 0 माम् 2/1
शान्तिम् 2/1 ऋच्छति III/1 ॥५.२९॥
·
भोक्तारम् [bhoktāram]
= sustainer = भोक्तृ (m.) + objective complement to माम् 2/1
o
भुज् पालनाभ्यवहारयोः (7P) to protect, to eat + तृच् (कर्तरि)
·
यज्ञतपसाम् [yajñatapasām]
= of rituals and disciplines = यज्ञतपस् (m.) + सम्बन्धे to भोक्तारम् 6/3
o
यज्ञाः तपांसि च यज्ञतपांसि (ID), तेषाम् ।
·
सर्वलोकमहेश्वरम्
[sarvalokamaheśvaram] = the lord of all the
worlds = सर्वलोकमहेश्वर (m.) + objective
complement to माम् 2/1
o
सर्वेषां लोकानां महान् ईश्वरः सर्वलोकमहेश्वरः (6T) ।
·
सुहृदम् [suhṛdam]
= friend = सुहृद् (m.) + objective complement to माम् 2/1
·
सर्वभूतानाम्
[sarvabhūtānām] = of all beings = सर्वभूत (n.) + सम्बन्धे to सुहृदम् 6/3
o
सर्वाणि भूतानि सर्वभूतानि (KT) तेषाम् ।
·
ज्ञात्वा [jñātvā]
= having known = अव्ययम्
o
ज्ञा (9P) to know + क्त्वा
·
माम् [mām] = me = अस्मद् (pron. m.)
+ कर्मणि to ज्ञात्वा 2/1
·
शान्तिम् [śāntim]
= peace = शान्ति (f.) + कर्मणि to ऋच्छति 2/1
·
ऋच्छति [ṛcchati]
= gains = ऋ (1P) to go, to gain + लट्/कर्तरि/III/1
o
ऋ is replaced by ऋच्छ् by 7.3.78
Knowing me as
the sustainer of rituals and disciplines, the lord of all the worlds, friend of
all beings, he gains peace.
Sentence 1:
यज्ञतपसाम्
6/3 भोक्तारम् 2/1 सर्वलोकमहेश्वरम् 2/1 सर्वभूतानाम्
6/3 सुहृदम् 2/1 माम् 2/1 ज्ञात्वा 0 शान्तिम्
2/1 ऋच्छति III/1 ॥५.२९॥
Knowing (ज्ञात्वा 0) me (माम्
2/1) as the
sustainer (भोक्तारम् 2/1) of rituals and disciplines (यज्ञतपसाम् 6/3), the lord of all the worlds (सर्वलोकमहेश्वरम् 2/1), friend (सुहृदम् 2/1) of all beings (सर्वभूतानाम् 6/3), he gains (ऋच्छति III/1) peace (शान्तिम्
2/1).
एवं समाहितचित्तेन किं विज्ञेयम् इति, उच्यते --
भोक्तारं यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च, सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया उपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्रत्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्वसंसारोपरतिम् ऋच्छति प्राप्नोति।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
पञ्चमोऽध्यायः।।