न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४.३८॥
na hi jñānena sadṛśaṃ pavitramiha vidyate |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||4.38||
न 0 हि 0 ज्ञानेन 3/1 सदृशम्
1/1 पवित्रम् 1/1 इह 0 विद्यते III/1 ।
तत् 2/1 स्वयम् 0 योगसंसिद्धः 1/1
कालेन 3/1 आत्मनि 7/1 विन्दति III/1 ॥४.३८॥
·
न [na] = not
= अव्ययम्
·
हि [hi] = therefore
= अव्ययम्
·
ज्ञानेन [jñānena]
= to knowledge = ज्ञान
(n.) + 3/1
o
तृतीया by 2.3.72 तुल्यार्थैरलुलोपमाभ्यां
तृतीयान्यतरस्याम् ।
·
सदृशम् [sadṛśam]
= equivalent = सदृश
(n.) + 1/1
·
पवित्रम् [pavitram]
= that which purifies = पवित्र
(n.) + 1/1
·
इह [iha] = in
this world = अव्ययम्
·
विद्यते [vidyate] = there is = विद् (4A) to be
+ लट्/कर्तरि/III/1
·
तत् [tat] = that (knowledge) = तद् (pron. n.) + कर्मणि to विन्दति 2/1
·
स्वयम् [svayam]
= naturally = अव्ययम्
·
योगसंसिद्धः [yogasaṃsiddhaḥ] = one who has in time attained
preparedness through karma-yoga = योगसंसिद्ध
(m.) + 1/1
o
योगेन कर्मयोगेन समाधियोगेन च संसिद्धः
संस्कृतः योग्यताम् आपन्नः इति योगसंसिद्धः (3T) ।
·
कालेन [kālena]
= in time = काल
(m.) + 3/1
o
तृतीया by 2.3.6 अपवर्गे तृतीया ।
·
आत्मनि [ātmani]
= in the mind = आत्मन् (m.) + अधिकरणे to विन्दति 7/1
·
विन्दति [vindati] = makes= विन्द् (6U) to find
+ लट्/कर्तरि/III/1
Therefore,
in this world there is no purifier equivalent to knowledge. One who has in time
attained preparedness through karma-yoga naturally gains (knowledge) in
the mind.
Sentence 1:
हि 0 ज्ञानेन 3/1 सदृशम् 1/1 पवित्रम्
1/1 इह 0 न 0 विद्यते III/1 ।
Therefore
(हि 0), in this world (इह
0) there is (विद्यते III/1) no (न 0)
purifier (पवित्रम् 1/1) equivalent (सदृशम्
1/1) to knowledge (ज्ञानेन 3/1).
Sentence 2:
तत् 2/1 स्वयम् 0 योगसंसिद्धः 1/1
कालेन 3/1 आत्मनि 7/1 विन्दति III/1 ॥४.३८॥
One
who has in time (कालेन 3/1) attained preparedness through karma-yoga (योगसंसिद्धः 1/1)
naturally (स्वयम् 0) gains (विन्दति
III/1) (knowledge) (तत् 2/1) in the
mind (आत्मनि 7/1).
यतः 0 एवम् 0 (ज्ञानाग्निः
सर्वकर्माणि भस्मसात् कुरुते।) अतः 0 –
न 0 हि 0 ज्ञानेन 3/1 सदृशम् 1/1 तुल्यम् 1/1 पवित्रम् 1/1 पावनम् 1/1 शुद्धिकरम् 1/1 इह 0 विद्यते III/1 । तत् 2/1 ज्ञानम् 2/1 स्वयम् 0 एव योग-संसिद्धः 1/1 योगेन 3/1 कर्मयोगेन 3/1 समाधियोगेन 3/1 च 0 संसिद्धः 1/1 संस्कृतः 1/1 योग्यताम् 2/1 आपन्नः 1/1 सन् 1/1 मुमुक्षुः 1/1 कालेन 3/1 महता 3/1 आत्मनि 7/1 विन्दति III/1 लभते III/1 इत्यर्थः 1/1॥