सञ्जय उवाच
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४७॥
sañjaya uvāca
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||47||
सञ्जयः 1/1 उवाच III/1 ।
एवम् 0 उक्त्वा 0 अर्जुनः 1/1 सङ्ख्ये 7/1 रथोपस्थे 7/1 उपाविशत् III/1 ।
विसृज्य 0 सशरम् 2/1 चापम् 2/1 शोकसंविग्नमानसः 1/1 ॥४७॥
·
सञ्जयः [sañjayaḥ] = Sañjaya = सञ्जय (m.) + कर्तरि 1/1
·
उवाच [uvāca]
= said = वच् (2P) to say + लिट्/कर्तरि/III/1
·
एवम् [evam] = in
this manner = अव्ययम्
·
उक्त्वा [uktvā] =
having said = अव्ययम्
o
वच् to say + त्वा (having …ed)
·
अर्जुनः [arjunaḥ]
= Arjuna = अर्जुन (m.) + कर्तरि to उपाविशत् 1/1
·
सङ्ख्ये [saṅkhye]
= in the battle = सङ्ख्य (n.) + अधिकरणे to रथोपस्थे 7/1
·
रथोपस्थे [rathopasthe]
= in the seat of chariot = रथोपस्थ
(n.) + अधिकरणे to उपाविशत् 7/1
o
रथस्य (of chariot) उपस्थम् (middle, backside) रथोपस्थम्
। षष्ठीतत्पुरुषः ।
·
उपाविशत् [upāviśat] = उप + विश् to sit + लङ्/कर्तरि/III/1
·
विसृज्य [visṛjya]
= having thrown = अव्ययम्
o
वि + सृज् to release + ल्यप् (having …ed)
·
सशरम् [saśaram]
= with arrow = सशर (m.) + adj. to चापम्
2/1
·
चापम् [cāpam] bow
= कर्मणि to विसृज्य + 2/1
·
शोकसंविग्नमानसः [śokasaṃvignamānasaḥ] = one whose mind is overwhelmed by sorrow = (m.) + adj. to अर्जुन 1/1
o
शोकेन (by sorrow) संविग्नं (overwhelmed) मनः (mind) यस्य (for him) सः शोकसंविग्नमानसः । बहुव्रीहिसमासः ।
o
ओँविजीँ +
क्त
विज् + न 8.2.45
ओदितश्च । ~ निष्ठातः नः
विग् + न 8.2.30
चोः कुः । ~ झलि
Sentence 1:
सञ्जयः 1/1 उवाच III/1 ।
Sañjaya (सञ्जयः 1/1) said (उवाच III/1).
Sentence 2:
शोकसंविग्नमानसः 1/1 अर्जुनः 1/1 एवम् 0 उक्त्वा 0 सशरम् 2/1 चापम् 2/1 विसृज्य 0 सङ्ख्ये 7/1 रथोपस्थे 7/1 उपाविशत्
III/1 ॥४७॥
Arjuna (अर्जुनः 1/1), whose mind is overwhelmed by sorrow (शोकसंविग्नमानसः 1/1), having
said (उक्त्वा 0) thus (एवम् 0), releasing (विसृज्य 0) the bow (चापम् 2/1) with arrow (सशरम् 2/1), sat (उपाविशत्
III/1) in the seat of charit (रथोपस्थे 7/1) in the battle field (सङ्ख्ये 7/1).