Showing posts with label 1314 13th Chapter 14th Sloka. Show all posts
Showing posts with label 1314 13th Chapter 14th Sloka. Show all posts

Friday, May 12, 2023

13th Chapter 14th Sloka

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३.१४ ॥

 

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |

asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca || 13.14 ||

 

सर्वेन्द्रियगुणाभासम् 1/1 सर्वेन्द्रियविवर्जितम् 1/1 ।

असक्तम् 1/1 सर्वभृत् 1/1 च 0 एव 0 निर्गुणम् 1/1 गुणभोक्तृ 1/1 च 0 ॥ १३.१४ ॥

 

(That) appears as one with attributes of organs, is free from all the organs, is unattached, is the sustainer of all, is free from the (three) qualities and it the experiencer of the (three) qualities.

 

(That) appears as one with attributes of organs (सर्वेन्द्रियगुणाभासम् 1/1), is free from all the organs (सर्वेन्द्रियविवर्जितम् 1/1), is unattached (असक्तम् 1/1), is the sustainer of all (सर्वभृत् 1/1 च 0 एव 0), is free from the (three) qualities (निर्गुणम् 1/1) and (च 0) it the experiencer of the (three) qualities (गुणभोक्तृ 1/1).

 

·       सर्वेन्द्रियगुणाभासम् [sarvendriyaguṇābhāsam] = that which appears as one with attributes of organs = सर्वेन्द्रियगुणाभास n. + S.C. to (तत् ज्ञेयम्) 1/1

o   सर्वाणि इन्द्रियाणि सर्वेन्द्रियाणि (KT) ।

o   सर्वेन्द्रियाणां गुणाः सर्वेन्द्रियगुणाः (6T) ।

o   सर्वेन्द्रियगुणैः आभासते (= आभासम् = आङ् + भास् + अच्) (3T) ।

·       सर्वेन्द्रियविवर्जितम् [sarvendriyavivarjitam] = that which is free from all the organs = सर्वेन्द्रियविवर्जित n. + S.C. to (तत् ज्ञेयम्) 1/1

o   सर्वाणि इन्द्रियाणि सर्वेन्द्रियाणि (KT) ।

o   सर्वेन्द्रियैः विवर्जितम् (= वि + वृज् + क्त) (3T) ।

·       असक्तम् [asaktam] = that which is unattached = असक्त n. + S.C. to (तत् ज्ञेयम्) 1/1

·       सर्वभृत् [sarvabhṛt] = that which is the sustainer of all = सर्वभृत् n. + S.C. to (तत् ज्ञेयम्) 1/1

o   सर्वं बिभर्ति । सर्व + भृ (3U) + क्विप् (तुगागमः) ।

·       च [ca] = and = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       निर्गुणम् [nirguṇam] = that which is free from the (three) qualities = + S.C. to (तत् ज्ञेयम्) 1/1

o   निर्गताः गुणाः यस्मात् निर्गुणः (PB)।

·       गुणभोक्तृ [guṇabhoktṛ] = the experiencer of the (three) qualities = गुणभोक्तृ n. + S.C. to (तत् ज्ञेयम्) 1/1

o   गुणानां भोक्तृ (6T)।

·       च [ca] = and = अव्ययम्

 

 

उपाधिभूतपाणिपादादीन्द्रियाध्यारोपणात् ज्ञेयस्य तद्वत्ताशङ्का मा भूत् इत्येवमर्थः श्लोकारम्भः —

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १४ ॥

सर्वेन्द्रियगुणाभासं सर्वाणि च तानि इन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि, अन्तःकरणे च बुद्धिमनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात् , सर्वेन्द्रियग्रहणेन गृह्यन्ते ।

अपि च, अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामपि उपाधित्वम् इत्यतः अन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैः अध्यवसायसङ्कल्पश्रवणवचनादिभिः अवभासते इति सर्वेन्द्रियगुणाभासम् ।सर्वेन्द्रियव्यापारैः व्यापृतमिव तत् ज्ञेयम् इत्यर्थः ; ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति श्रुतेः ।कस्मात् पुनः कारणात् न व्यापृतमेवेति गृह्यते इत्यतः आह — सर्वेन्द्रियविवर्जितम् , सर्वकरणरहितमित्यर्थः ।अतः न करणव्यापारैः व्यापृतं तत् ज्ञेयम् ।यस्तु अयं मन्त्रः — ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिः, स सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् तत् ज्ञेयम् इत्येवं प्रदर्शनार्थः, न तु साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनार्थः ।‘अन्धो मणिमविन्दत्’ (तै. आ. १ । ११) इत्यादिमन्त्रार्थवत् तस्य मन्त्रस्य अर्थः ।यस्मात् सर्वकरणवर्जितं ज्ञेयम् , तस्मात् असक्तं सर्वसंश्लेषवर्जितम् ।यद्यपि एवम् , तथापि सर्वभृच्च एव ।सदास्पदं हि सर्वं सर्वत्र सद्बुद्ध्यनुगमात् ।न हि मृगतृष्णिकादयोऽपि निरास्पदाः भवन्ति । अतः सर्वभृत् सर्वं बिभर्ति इति ।स्यात् इदं च अन्यत् ज्ञेयस्य सत्त्वाधिगमद्वारम् — निर्गुणं सत्त्वरजस्तमांसि गुणाः तैः वर्जितं तत् ज्ञेयम् , तथापि गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुखदुःखमोहाकारपरिणतानां भोक्तृ च उपलब्धृ च तत् ज्ञेयम् इत्यर्थः ॥ १४ ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.