य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८.६८ ॥
ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ || 18.68 ||
यः 1/1 इमम् 2/1 परमम् 2/1 गुह्यम् 2/1 मद्भक्तेषु 7/3 अभिधास्यति III/1 ।
भक्तिम् 2/1 मयि 7/1 पराम् 2/1 कृत्वा 0 माम् 2/1 एव 0 एष्यति III/1 असंशयः 1/1 ॥ १८.६८ ॥
· यः [yaḥ] = who = यद् (pron.) + कर्तरि to अभिधास्यति 1/1
· इमम् [imam] = this = इदम् (pron.) + adj. to गुह्यम् 2/1
· परमम् [paramam] = most exalted = परम् (n.) + adj. to गुह्यम् 2/1
· गुह्यम् [guhyam] = secret = गुह्य (n.) + कर्मणि to अभिधास्यति 2/1
· मद्भक्तेषु [madbhakteṣu] = among my devotees = मद्भक्त (m.) + अधिकरणे to अभिधास्यति 7/3
· अभिधास्यति [abhidhāsyati] = teaches, will tell = अभि + धा to teach + लृट्/कर्तरि/III/1
· भक्तिम् [bhaktim] = devotion = भक्ति (f.) + कर्मणि to कृत्वा 2/1
· मयि [mayi] = in me = अस्मद् (pron.) + अधिकरणे to कृत्वा 7/1
· पराम् [parām] = highest, supreme = परा (f.) + adj. to भक्तिम् 2/1
· कृत्वा [kṛtvā] = having made, having established = अव्ययम्
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to एष्यति 2/1
· एव [eva] = alone = अव्ययम्
· एष्यति [eṣyati] = will come = इष् (to go) + लृट्/कर्तरि/III/1
· असंशयः [asaṃśayaḥ] = without doubt = असंशय (m.) + कर्तरि to (भवति) 1/1
The one who teaches this most exalted, secret (śāstra) to My devotees, having the highest devotion for Me, will come to Me alone. There is no doubt.
Sentence 1:
यः 1/1 इमम् 2/1 परमम् 2/1 गुह्यम् 2/1 मद्भक्तेषु 7/3 अभिधास्यति III/1, (सः) मयि 7/1 पराम् 2/1 भक्तिम् 2/1 कृत्वा 0 माम् 2/1 एव 0 एष्यति III/1।
The one who (यः 1/1) teaches (अभिधास्यति III/1) this (इमम् 2/1) most exalted (परमम् 2/1), secret (गुह्यम् 2/1) (śāstra) to My devotees (मद्भक्तेषु 7/3). having (कृत्वा 0) the highest (पराम् 2/1) devotion (भक्तिम् 2/1) for Me (मयि 7/1), will come (एष्यति III/1) to Me (माम् 2/1) alone (एव 0).
Sentence 2:
असंशयः 1/1 ॥
There is no doubt (असंशयः 1/1).
यः 1/1 इमम् 2/1 यथोक्तं परमम् 2/1 परमनिःश्रेयसार्थं केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्यम् 2/1 गोप्यतमं मद्भक्तेषु 7/3 मयि भक्तिमत्सु अभिधास्यति III/1 वक्ष्यति, ग्रन्थतः अर्थतश्च स्थापयिष्यतीत्यर्थः, यथा त्वयि मया । भक्तेः पुनर्ग्रहणात् भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने पात्रं भवतीति गम्यते । कथम् अभिधास्यति इति, उच्यते — भक्तिम् 2/1 मयि 7/1 पराम् 2/1 कृत्वा 0 “भगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियते” इत्येवं कृत्वेत्यर्थः । तस्य इदं फलम् — माम् 2/1 एव 0 एष्यति III/1 मुच्यते एव । असंशयः 1/1 अत्र संशयः न कर्तव्यः ॥ १८.६८ ॥