कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥३.२०॥
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṅgrahamevāpi sampaśyankartumarhasi ||3.20||
कर्मणा 3/1 एव 0 हि 0 संसिद्धिम् 2/1 आस्थिताः 1/3 जनकादयः 1/3 ।
लोकसङ्ग्रहम् 2/1 एव 0 अपि 0 सम्पश्यन् 1/1 कर्तुम् 0 अर्हसि II/1 ॥३.२०॥
· कर्मणा [karmaṇā] = by action = कर्मन् (n.) + हेतौ 3/1
· एव [eva] = alone = अव्ययम्
· हि [hi] = because = अव्ययम्
· संसिद्धिम् [saṃsiddhim] = liberation = संसिद्धि (f.) + कर्मणि to आस्थिताः 2/1
· आस्थिताः [āsthitāḥ] = those who gained = आस्थित (m.) + 1/3
· जनकादयः [janakādayaḥ] = Janaka and others = जनकादि (m.) + 1/3
· लोकसङ्ग्रहम् [lokasaṅgraham] = desirability of protecting the people= लोकसङ्ग्रह (m.) + कर्मणि to सम्पश्यन् 2/1
· एव [eva] = alone = अव्ययम्
· अपि [api] = also = अव्ययम्
· सम्पश्यन् [sampaśyan] = one who is seeing = सम्पश्यत् (m.) + 1/1
o सम् + दृश् + शतृ (लट्/कर्तरि)
· कर्तुम् [kartum] = to do = अव्ययम्
o कृ + तुमुन्
· अर्हसि [arhasi] = you ought to = अर्ह् to deserve + लट्/कर्तरि/II/1
Indeed, by action alone, Janaka and others gained liberation. Also, by merely seeing the desirability of protecting the people from falling into unbecoming ways you ought to perform action.
Sentence 1:
जनकादयः 1/3 कर्मणा 3/1 एव 0 हि 0 संसिद्धिम् 2/1 आस्थिताः 1/3 ।
Indeed (हि 0), by action (कर्मणा 3/1) alone (एव 0), Janaka and others (जनकादयः 1/3) gained (आस्थिताः 1/3) liberation (संसिद्धिम् 2/1).
Sentence 2:
अपि 0 लोकसङ्ग्रहम् 2/1 सम्पश्यन् 1/1 एव 0 कर्तुम् 0 अर्हसि II/1 ॥३.२०॥
Also (अपि 0), by merely (एव 0) seeing (सम्पश्यन् 1/1) the desirability of protecting the people from falling into unbecoming ways (लोकसङ्ग्रहम् 2/1) you ought (अर्हसि II/1) to perform action (कर्तुम् 0).
यस्मात् 5/1 च 0 –
कर्मणा 3/1 एव 0 हि 0 = यस्मात् 5/1 पूर्वे 1/3 क्षत्रियाः 1/3 विद्वांसः 1/3 संसिद्धिम् 2/1 = मोक्षम् 2/1 गन्तुम् 0 आस्थिताः 1/3 = प्रवृत्ताः 1/3। के 1/3? जनकादयः 1/3 जनक-अश्वपति-प्रभृतयः 1/3।
यदि 0 ते 1/3 प्राप्त-सम्यग्दर्शनाः 1/3, ततः 0 लोक-संग्रहार्थम् 0 प्रारब्ध-कर्मबलात् 5/1 कर्मणा 3/1 सह 0 एव 0 असन्न्यस्य 0 एव 0 कर्म 2/1 संसिद्धिम् 2/1 आस्थिताः 1/3 इत्यर्थः 1/1।
अथ 0 अप्राप्त-सम्यग्दर्शनाः 1/3 जनकादयः 1/3, तदा 0 कर्मणा 3/1 = सत्त्व-शुद्धि-साधन-भूतेन 3/1 क्रमेण 0 संसिद्धिम् 2/1 आस्थिताः 1/3 इति 0 व्याख्येयः 1/1 श्लोकः 1/1।
अथ 0 मन्यसे II/1 “पूर्वैः 3/3 अपि 0 जनकादिभिः 3/3 अजानद्भिः 3/3 एव 0 कर्तव्यम् 1/1 कर्म 1/1 कृतम् 1/1; तावता 3/1 न 0 अवश्यम् 0 अन्येन 3/1 कर्तव्यम् 1/1 (कर्म 1/1) सम्यग्दर्शनवता 3/1 कृतार्थेन 3/1” इति 0; तथापि 0 प्रारब्धकर्मायत्तः 1/1 त्वम् 1/1 लोकसंग्रहम् 2/1 एव 0 अपि 0 [लोकस्य 6/1 उन्मार्ग-प्रवृत्ति-निवारणम् 1/1 लोक-संग्रहः 1/1], तम् 2/1 एव 0 अपि 0 प्रयोजनम् 2/1 संपश्यन् 1/1 कर्तुम् 0 अर्हसि II/1 ॥