Showing posts with label 1809 18th Chapter 9th Sloka. Show all posts
Showing posts with label 1809 18th Chapter 9th Sloka. Show all posts

Saturday, November 29, 2025

18th Chapter 9th Sloka

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८.९ ॥

 

kāryamityeva yatkarma niyataṃ kriyate'rjuna |

saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ || 18.9 ||

 

कार्यम् 1/1 इति 0 एव 0 यत् 1/1 कर्म 1/1 नियतम् 1/1 क्रियते III/1 अर्जुन S/1।

सङ्गम् 2/1 त्यक्त्वा 0 फलम् 2/1 च 0 एव 0 सः 1/1 त्यागः 1/1 सात्त्विकः 1/1 मतः 1/1॥ १८.९ ॥

 

 

·       कार्यम् [kāryam] = to be done = कार्य (n.) + कर्तरि to (भवति) 1/1

·       इति [iti] = thus = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       यत् [yat] = that which = यद् (pron.) + adj. to कर्म 1/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to क्रियते 1/1

·       नियतम् [niyatam] = enjoined = नियत (n.) + adj. to कर्म 1/1

·       क्रियते [kriyate] = is done = कृ (8U) to do + लट्/कर्मणि/III/1

·       अर्जुन [arjuna] = O Arjuna = अर्जुन (m.) + संबोधने 1/1

·       सङ्गम् [saṅgam] = attachment = सङ्ग (m.) + कर्मणि to त्यक्त्वा 2/1

·       त्यक्त्वा [tyaktvā] = having given up = अव्ययम्

o   त्यज् (1P) to give up + क्त्वा

·       फलम् [phalam] = result = फल (n.) + कर्मणि to त्यक्त्वा 2/1

·       च [ca] = and = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       सः [saḥ] = that (renunciation) = तद् (pron.) + adj. to त्यागः 1/1

·       त्यागः [tyāgaḥ] = renunciation = त्याग (m.) + कर्तरि to (भवति) 1/1

·       सात्त्विकः [sāttvikaḥ] = sāttvika = सात्त्विक (m.) + S.C. to त्यागः 1/1

·       मतः [mataḥ] = is considered = मत (m.) + S.C. to त्यागः S.C. to त्यागः 1/1

o   मन् (4P) to think + क्त (कर्मणि)

 

 

“It is to be done,” thinking thus when only the enjoined karma is done, giving up attachment and result, Arjuna! it is considered to be a sāttvika renunciation.

 

 

Sentence 1:

कार्यम् 1/1 इति 0 सङ्गम् 2/1 फलम् 2/1 च 0 एव 0 त्यक्त्वा 0 यत् 1/1 नियतम् 1/1 कर्म 1/1 एव 0 क्रियते III/1 अर्जुन S/1।

“It is to be done (कार्यम् 1/1),” thinking thus (इति 0) when only (एव 0) the enjoined (यत् 1/1 नियतम् 1/1) karma (कर्म 1/1) is done (क्रियते III/1), giving up (त्यक्त्वा 0) attachment (सङ्गम् 2/1) and (च 0 एव 0) result (फलम् 2/1), Arjuna (अर्जुन S/1)!

 

Sentence 2:

सः 1/1 त्यागः 1/1 सात्त्विकः 1/1 मतः 1/1॥

It (सः 1/1) is considered (मतः 1/1) to be a sāttvika (सात्त्विकः 1/1) renunciation (त्यागः 1/1).

 

 

 

कः पुनः सात्त्विकः त्यागः इति, आह —

कार्यम् 1/1 कर्तव्यम् इति 0 एव 0 यत् 1/1 कर्म 1/1 नियतम् 1/1 नित्यं क्रियते III/1 निर्वर्त्यते हे अर्जुन S/1, सङ्गम् 2/1 त्यक्त्वा 0 फलम् 2/1 च 0 एव 0 । एतत् नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचाम । अथवा, यद्यपि फलं न श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञः । तत्र तामपि कल्पनां निवारयति “फलं त्यक्त्वा” इत्यनेन । अतः साधु उक्तम् “सङ्गं त्यक्त्वा फलं च” इति । सः 1/1 त्यागः 1/1 नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः 1/1 सत्त्वनिर्वृत्तः मतः 1/1 अभिप्रेतः ॥

ननु कर्मपरित्यागः त्रिविधः संन्यासः इति च प्रकृतः । तत्र तामसो राजसश्च उक्तः त्यागः । कथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते ? यथा त्रयो ब्राह्मणाः आगताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत् । नैष दोषः त्यागसामान्येन स्तुत्यर्थत्वात् । अस्ति हि कर्मसंन्यासस्य फलाभिसन्धित्यागस्य च त्यागत्वसामान्यम् । तत्र राजसतामसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागः सात्त्विकत्वेन स्तूयते “स त्यागः सात्त्विको मतः” इति ॥ १८.९ ॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.