उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६.५॥
uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6.5||
उद्धरेत् III/1 आत्मना 3/1 आत्मानम् 2/1 न 0 आत्मानम् 2/1 अवसादयेत्
III/1 ।
आत्मा 1/1 एव 0 हि 0 आत्मनः 6/1 बन्धुः 1/1 आत्मा 1/1 एव 0 रिपुः 1/1 आत्मनः 6/1 ॥६.५॥
·
उद्धरेत् [uddharet]
= May one lift = उद् + धृ (1A) to save, lift up + विधिलिङ्/कर्तरि
/III/1
·
आत्मना [ātmanā] = by oneself = आत्मन्
(m.) + करणे to उद्धरेत्
3/1
·
आत्मानम् [ātmanam] = oneself = आत्मन्
(m.) + कर्मणि to उद्धरेत्
2/1
·
न [na] = not = अव्ययम्
·
आत्मानम् [ātmanam] = oneself = आत्मन्
(m.) + कर्मणि to अवसादयेत्
2/1
·
अवसादयेत् [avasādayet] = May one destroy = अव + सद्
(1P) to be ruined+ णिच् (causative) + विधिलिङ्/कर्तरि
/III/1
·
आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to (भवति) 1/1
·
एव [eva] = alone = अव्ययम्
·
हि [hi] = indeed = अव्ययम्
·
आत्मनः [ātmanaḥ] = of oneself = आत्मन्
(m.) + सम्बन्धे to बन्धुः 6/1
·
बन्धुः [bandhuḥ] = benefactor = बन्धु
(m.) + complement to आत्मा 1/1
·
आत्मा [ātmā] = oneself = आत्मन् (m.) + कर्तरि to (भवति) 1/1
·
एव [eva] = alone = अव्ययम्
·
रिपुः [ripuḥ] = enemy = रिपु (m.) + complement to आत्मा 1/1
·
आत्मनः [ātmanaḥ] = of oneself = आत्मन्
(m.) + सम्बन्धे to रिपुः 6/1
May one lift oneself by oneself, may
one not destroy oneself. For, the self alone is one's benefactor (and) the self
alone is one's enemy.
Sentence 1:
आत्मना 3/1 आत्मानम् 2/1 उद्धरेत्
III/1 ।
May one lift (उद्धरेत् III/1) oneself (आत्मानम् 2/1) by oneself (आत्मना 3/1).
Sentence 2:
आत्मानम् 2/1 न 0 अवसादयेत्
III/1 ।
May one not (न 0) destroy (अवसादयेत् III/1) oneself
(आत्मानम् 2/1).
Sentence 3:
आत्मा 1/1 एव 0 हि 0 आत्मनः 6/1 बन्धुः 1/1 ।
The self (आत्मा 1/1) alone (एव 0 हि 0) is one's (आत्मनः 6/1) benefactor (बन्धुः 1/1).
Sentence 4:
आत्मा 1/1 एव 0 आत्मनः 6/1 रिपुः 1/1 ॥६.५॥
The self (आत्मा 1/1) alone (एव 0) is one's (आत्मनः 6/1) enemy (रिपुः 1/1).
यदा 0 एवम् 0 योगारूढः 1/1, तदा 0 तेन 3/1 आत्मा 1/1 उद्धृतः 1/1 भवति III/1 संसारात् 5/1 अनर्थ-व्रातात् 5/1 । अतः 0 –
उद्धरेत् III/1 संसार-सागरे 7/1 निमग्नम् 2/1 आत्मना 3/1 आत्मानम् 2/1 ततः 0 उद् 0 ऊर्ध्वम् 0 हरेत् III/1 उद्धरेत्
III/1 । योगारूढताम् 2/1 आपादयेत् III/1 इत्यर्थः 1/1 । न 0 आत्मानम् 2/1 अवसादयेत् III/1 न 0 अधः 0 नयेत् III/1, न 0 अधः 0 गमयेत् III/1। आत्मा 1/1 एव 0 हि 0 यस्मात् 5/1 आत्मनः 6/1 बन्धुः 1/1 । न 0 हि 0 अन्यः 1/1 कश्चित् 0 बन्धुः 1/1 संसार-मुक्तये 7/1 भवति III/1। बन्धुः 1/1
अपि 0 तावत् 0 मोक्षम् 2/1 प्रति 0 प्रतिकूलः 1/1 एव 0, स्नेह-आदि-बन्धन-आयतनत्वात् 5/1 । तस्मात् 5/1 युक्तम् 1/1 अवधारणम् 1/1 “आत्मैव ह्यात्मनो बन्धुः” इति 0। आत्मा 1/1 एव 0 रिपुः 1/1 शत्रुः 1/1 । यः 1/1 अन्यः 1/1 अपकारी 1/1 बाह्यः 1/1 शत्रुः 1/1 सः 1/1 अपि 0 आत्म-प्रयुक्तः 1/1 एव 0 इति 0 युक्तम् 1/1 एव 0 अवधारणम् 1/1 “आत्मैव रिपुरात्मनः” इति 0 ॥