अर्जुन उवाच ।
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८.१ ॥
arjuna uvāca |
saṃnyāsasya mahābāho tattvamicchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana || 18.1 ||
अर्जुनः 1/1 उवाच III/1 ।
संन्यासस्य 6/1 महाबाहो S/1 तत्त्वम् 2/1 इच्छामि I/1 वेदितुम् 0 ।
त्यागस्य 6/1 च 0 हृषीकेश S/1 पृथक् 0 केशिनिषूदन S/1॥ १८. १ ॥
· अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1
· उवाच [uvāca] = said = वच् (2P) to speak + लिट्/कर्तरि/III/1
· संन्यासस्य [saṃnyāsasya] = of renunciation = संन्यास (m.) + सम्बन्धे to तत्त्वम् 6/1
· महाबाहो [mahābāho] = O mighty-armed one! = महाबाहु (m.) + सम्बोधने 1/1
· तत्त्वम् [tattvam] = truth, essence = तत्त्व (n.) + कर्मणि to वेदितुम् 2/1
· इच्छामि [icchāmi] = I wish, I want = इच्छ् (6P) to desire + लट्/कर्तरि/I/1
· वेदितुम् [veditum] = to know = अव्ययम्
o विद् (2P) to know + तुमुन् (infinitive)
· त्यागस्य [tyāgasya] = of renunciation (of action) = त्याग (m.) + सम्बन्धे to तत्त्वम् 6/1
· च [ca] = and = अव्ययम्
· हृषीकेश [hṛṣīkeśa] = O Hṛṣīkeśa! (Lord of the senses) = हृषीकेश (m.) + सम्बोधने 1/1
· पृथक् [pṛthak] = separately, distinctly = अव्ययम्
· केशिनिषूदन [keśiniṣūdana] = O slayer of Keśī! = केशिनिषूदन (m.) + सम्बोधने 1/1
Arjuna said:
Hṛṣīkeśa (Kṛṣṇa)! The slayer of Keśī! The mighty armed! I want to know distinctly the truth of sannyāsa and tyāga.
Sentence 1:
Arjuna said:
Arjuna (अर्जुनः 1/1) said (उवाच III/1)
Sentence 2:
महाबाहो S/1 हृषीकेश S/1 केशिनिषूदन S/1 संन्यासस्य 6/1 त्यागस्य 6/1 च 0 तत्त्वम् 2/1 पृथक् 0 वेदितुम् 0 इच्छामि I/1॥
Hṛṣīkeśa (हृषीकेश S/1) ! The slayer of Keśī (केशिनिषूदन S/1) ! The mighty armed (महाबाहो S/1) ! I want (इच्छामि I/1) to know (वेदितुम् 0) distinctly (पृथक् 0) the truth (तत्त्वम् 2/1) of sannyāsa (संन्यासस्य 6/1) and (च 0) tyāga (त्यागस्य 6/1).
सर्वस्य एव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वः च वेदार्थः वक्तव्यः इति एवम् अर्थः अयम् अध्यायः आरभ्यते । सर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते ।
अर्जुनः तु संन्यास-त्याग-शब्दार्थयोः एव विशेष-बुभुत्सुः उवाच —
संन्यासस्य 6/1 संन्यास-शब्दार्थस्य इत्येतत् , हे महाबाहो S/1, तत्त्वम् 2/1 तस्य भावः तत्त्वम् , याथात्म्यम् इत्येतत् , इच्छामि I/1 वेदितुम् 0 ज्ञातुम् , त्यागस्य 6/1 च 0 त्याग-शब्दार्थस्य इत्येतत् , हृषीकेश S/1, पृथक् 0 इतरेतर-विभागतः केशिनिषूदन S/1 केशिनामा हयच्छद्मा कश्चित् असुरः तं निषूदितवान् भगवान् वासुदेवः, तेन तन्नाम्ना सम्बोध्यते अर्जुनेन ॥ १८.१॥