भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८.५५ ॥
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ|
tato māṃ tattvato jñātvā viśate tadanantaram || 18.55 ||
भक्त्या 3/1 माम् 2/1 अभिजानाति III/1 यावान् 1/1 यः 1/1 च 0 अस्मि I/1 तत्त्वतः 0।
ततः 0 माम् 2/1 तत्त्वतः 0 ज्ञात्वा 0 विशते III/1 तदनन्तरम् 0॥ १८.५५ ॥
· भक्त्या [bhaktyā] = by bhakti (knowledge) = भक्ति (f.) + करणे to अभिजानाति 3/1
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to अभिजानाति 2/1
· अभिजानाति [abhijānāti] = knows, understands properly = अभि + ज्ञा (9P) to know + लट्/कर्तरि/1/1
· यावान् [yāvān] = how much I am = यावत् (m.) + adj. to (अहम्) 1/1
o यत्परिमाणम् अस्य यावान् ।
o यद् + वतुप् 5.2.39 यत्तदेतेभ्यः परिमाणे वतुप् ।
· यः [yaḥ] = who = यद् (pron.) + adj. to (अहम्) 1/1
· च [ca] = and = अव्ययम्
· अस्मि [asmi] = I am = अस् (2P) to be + लट्/कर्तरि/I/1
· तत्त्वतः [tattvataḥ] = in reality, truly = अव्ययम्
· ततः [tataḥ] = thereafter = अव्ययम्
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to ज्ञात्वा 2/1
· तत्त्वतः [tattvataḥ] = in reality, truly = अव्ययम्
· ज्ञात्वा [jñātvā] = having known = अव्ययम्
o ज्ञा (9U) to know + क्त्वा
· विशते [viśate] = enters = विश् (6P) to enter + लट्/कर्तरि/1/1
· तदनन्तरम् [tadanantaram] = immediately after that = अव्ययम्
By bhakti (knowledge), he knows me properly as to how much I am and who I am in reality. Thereafter, knowing me in reality, he enters (me) soon after that (knowing).
Sentence 1:
भक्त्या 3/1 माम् 2/1 तत्त्वतः 0 अभिजानाति III/1, यावान् 1/1 यः 1/1 च 0 अस्मि I/1 ।
By bhakti (भक्त्या 3/1) (knowledge), he knows (अभिजानाति III/1) me (माम् 2/1) properly () as to how much I am (यावान् 1/1) and (च 0) who (यः 1/1) I am (अस्मि I/1) in reality (तत्त्वतः 0).
Sentence 2:
ततः 0 माम् 2/1 तत्त्वतः 0 ज्ञात्वा 0 तदनन्तरम् 0 विशते III/1॥
Thereafter (ततः 0), knowing (ज्ञात्वा 0) me (माम् 2/1) in reality (तत्त्वतः 0), he enters (विशते III/1) (me) soon after that (तदनन्तरम् 0) (knowing).
भक्त्या 3/1 माम् 2/1 अभिजानाति III/1 यावान् 1/1 अहम् उपाधिकृतविस्तरभेदः, यः 1/1 च 0 अहम् अस्मि I/1 विध्वस्तसर्वोपाधिभेदः उत्तमः पुरुषः आकाशकल्पः, तं माम् अद्वैतं चैतन्यमात्रैकरसम् अजरम् अभयम् अनिधनं तत्त्वतः 0 अभिजानाति । ततः 0 माम् 2/1 एवं तत्त्वतः 0 ज्ञात्वा 0 विशते III/1 तदनन्तरम् 0 मामेव ज्ञानानन्तरम् । नात्र ज्ञानप्रवेशक्रिये भिन्ने विवक्षिते “ज्ञात्वा विशते तदनन्तरम्” इति । किं तर्हि ? फलान्तराभावात् ज्ञानमात्रमेव, “क्षेत्रज्ञं चापि मां विद्धि” (भ. गी. १३ । २) इति उक्तत्वात् ॥
ननु विरुद्धम् इदम् उक्तम् “ज्ञानस्य या परा निष्ठा तया माम् अभिजानाति” इति । कथं विरुद्धम् इति चेत् , उच्यते — यदैव यस्मिन् विषये ज्ञानम् उत्पद्यते ज्ञातुः, तदैव तं विषयम् अभिजानाति ज्ञाता इति न ज्ञाननिष्ठां ज्ञानावृत्तिलक्षणाम् अपेक्षते इति ; अतश्च ज्ञानेन न अभिजानाति, ज्ञानावृत्त्या तु ज्ञाननिष्ठया अभिजानातीति । नैष दोषः ; ज्ञानस्य स्वात्मोत्पत्तिपरिपाकहेतुयुक्तस्य प्रतिपक्षविहीनस्य यत् आत्मानुभवनिश्चयावसानत्वं तस्य निष्ठाशब्दाभिलापात् । शास्त्राचार्योपदेशेन ज्ञानोत्पत्तिहेतुं सहकारिकारणं बुद्धिविशुद्धत्वादि अमानित्वादिगुणं च अपेक्ष्य जनितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य कर्तृत्वादिकारकभेदबुद्धिनिबन्धनसर्वकर्मसंन्याससहितस्य स्वात्मानुभवनिश्चयरूपेण यत् अवस्थानम् , सा परा ज्ञाननिष्ठा इति उच्यते । सा इयं ज्ञाननिष्ठा आर्तादिभक्तित्रयापेक्षया परा चतुर्थी भक्तिरिति उक्ता । तया परया भक्त्या भगवन्तं तत्त्वतः अभिजानाति, यदनन्तरमेव ईश्वरक्षेत्रज्ञभेदबुद्धिः अशेषतः निवर्तते । अतः ज्ञाननिष्ठालक्षणया भक्त्या माम् अभिजानातीति वचनं न विरुध्यते ।
अत्र च सर्वं निवृत्तिविधायि शास्त्रं वेदान्तेतिहासपुराणस्मृतिलक्षणं न्यायप्रसिद्धम् अर्थवत् भवति — “विदित्वा . . . व्युत्थायाथ भिक्षाचर्यं चरन्ति” (बृ. उ. ३ । ५ । १) “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः” (तै. ना. ७९) “न्यास एवात्यरेचयत्” (तै. ना. ७८) इति । “संन्यासः कर्मणां न्यासः” ( ? ) “वेदानिमं च लोकममुं च परित्यज्य” (आ. ध. २ । ९ । १३) “त्यज धर्ममधर्मं च” (मो. ध. ३२९ । ४०) इत्यादि । इह च प्रदर्शितानि वाक्यानि । न च तेषां वाक्यानाम् आनर्थक्यं युक्तम् ; न च अर्थवादत्वम् , स्वप्रकरणस्थत्वात् , प्रत्यगात्माविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य । न हि पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा समानमार्गत्वं सम्भवति । प्रत्यगात्मविषयप्रत्ययसन्तानकरणाभिनिवेशश्च ज्ञाननिष्ठा ; सा च प्रत्यक्समुद्रगमनवत् कर्मणा सहभावित्वेन विरुध्यते । पर्वतसर्षपयोरिव अन्तरवान् विरोधः प्रमाणविदां निश्चितः । तस्मात् सर्वकर्मसंन्यासेनैव ज्ञाननिष्ठा कार्या इति सिद्धम् ॥ १८.५५ ॥