श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ १८.७१ ॥
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ |
so'pi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām || 18.71 ||
श्रद्धावान् 1/1 अनसूयः 1/1 च 0 शृणुयात् III/1 अपि 0 यः 1/1 नरः 1/1।
सः 1/1 अपि 0 मुक्तः 1/1 शुभान् 2/3 लोकान् 2/3 प्रप्नुयात् III/1 पुण्यकर्मणाम् 6/3॥ १८.७१ ॥
· श्रद्धावान् [śraddhāvān] = the one who has trust (in this śāstra) = श्रद्धावन्त् (m.) + adj. to नरः 1/1
· अनसूयः [anasūyaḥ] = who does not find fault = अनसूय (m.) + adj. to नरः 1/1
· च [ca] = and = अव्ययम्
· शृणुयात् [śṛṇuyāt] = may listen = श्रु (5P) to hear + विधिलिङ्/कर्तरि/III/1
· अपि [api] = even = अव्ययम्
· यः [yaḥ] = who = यद् (pron.) + adj. to नरः 1/1
· नरः [naraḥ] = person = नर (m.) + कर्तरि to शृणुयात् 1/1
· सः [saḥ] = he = तद् (pron.) + कर्तरि to प्रप्नुयात् 1/1
· अपि [api] = also = अव्ययम्
· मुक्तः [muktaḥ] = freed = मुक्त (m.) + adj. to सः 1/1
· शुभान् [śubhān] = auspicious = शुभ (m.) + adj. to लोकान् 2/3
· लोकान् [lokān] = worlds = लोक (m.) + कर्मणि to प्रप्नुयात् 2/3
· प्रप्नुयात् [prapnuyāt] = would gain = प्र + आप् (5P) to reach, obtain + विधिलिङ्/कर्तरि/III/1
· पुण्यकर्मणाम् [puṇyakarmaṇām] = of those who do auspicious karmas = पुण्यकर्मन् (m.) + सम्बन्धे to लोकान् 6/3
The person who has trust (in this śāstra), and who does not find fault with (this śāstra), even if he merely listens (to this teaching), he also, being freed (from the body), would gain the auspicious worlds of those who do good karmas.
Sentence 1:
यः 1/1 श्रद्धावान् 1/1 अनसूयः 1/1 च 0 नरः 1/1 शृणुयात् III/1 अपि 0, सः 1/1 अपि 0 मुक्तः 1/1 (सन्) पुण्यकर्मणाम् 6/3 शुभान् 2/3 लोकान् 2/3 प्रप्नुयात् III/1॥
The person (नरः 1/1) who (यः 1/1) has trust (in this śāstra) (श्रद्धावान् 1/1), and (च 0) who does not find fault with (this śāstra) (अनसूयः 1/1), even if he merely (अपि 0) listens (शृणुयात् III/1) (to this teaching), he (सः 1/1) also (अपि 0), being freed (मुक्तः 1/1) (from the body), would gain (प्रप्नुयात् III/1) the auspicious (शुभान् 2/3) worlds (लोकान् 2/3) of those who do good karmas (पुण्यकर्मणाम् 6/3).
अथ श्रोतुः इदं फलम् —
श्रद्धावान् 1/1 श्रद्दधानः अनसूयः 1/1 च 0 असूयावर्जितः सन् इमं ग्रन्थं शृणुयात् III/1 अपि 0 यः 1/1 नरः 1/1, अपिशब्दात् किमुत अर्थज्ञानवान् , सः 1/1 अपि 0 पापात् मुक्तः 1/1 शुभान् 2/3 प्रशस्तान् लोकान् 2/3 प्रप्नुयात् III/1 पुण्यकर्मणाम् 6/3 अग्निहोत्रादिकर्मवताम् ॥ १८.७१ ॥