कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥३.६॥
karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ||3.6||
कर्मेन्द्रियाणि 2/3 संयम्य 0 यः 1/1 आस्ते III/1 मनसा 3/1 स्मरन् 1/1 ।
इन्द्रियार्थान् 2/3 विमूढात्मा 1/1 मिथ्याचारः 1/1 सः 1/1 उच्यते III/1 ॥३.६॥
· कर्मेन्द्रियाणि [karmendriyāṇi] = organs of action = कर्मेन्द्रिय (n.) + 2/3
o कर्मणां सम्पादनाय इन्द्रियाणि कर्मेन्द्रियाणि (6T), तानि।
· संयम्य [saṃyamya] = controlling = अव्ययम्
o सम् + यम् उपरमे to check + ल्यप्
· यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to आस्ते 1/1
· आस्ते [āste] = sits = आस् उपवेशने (2A) to sit + लट्/कर्तरि/III/1
· मनसा [manasā] = with the mind = मनस् (n.) + 3/1
· स्मरन् [smaran] = remembering = स्मरत् (m.) + adj. to यः (पुरुषः) 1/1
· इन्द्रियार्थान् [indriyārthān] = organs of action = इन्द्रियार्थ (m.) + 2/3
o इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तान् ।
· विमूढात्मा [vimūḍhātmā] = deluded = विमूढात्मन् (m.) + adj. to यः (पुरुषः) 1/1
o विमूढः आत्मा अन्तःकरणं यस्य सः विमूढात्मा (116B) ।
· मिथ्याचारः [mithyācāraḥ] = a person of false conduct = मिथ्याचार (m.) + adj. to सः (पुरुषः) 1/1
o मिथ्या मृषा आचारः यस्य सः मिथ्याचारः (116B) ।
· सः [saḥ] = he = तद् (pron. m.) + कर्मणि to उच्यते 1/1
· उच्यते [ucyate] = is called = वच् to say + लट्/कर्मणि/III/1
The one who, controlling the organs of action, sits with the mind remembering the sense objects is deluded and is called a person of false conduct.
Sentence:
यः 1/1 विमूढात्मा 1/1 कर्मेन्द्रियाणि 2/3 संयम्य 0 मनसा 3/1 इन्द्रियार्थान् 2/3 स्मरन् 1/1 आस्ते III/1
सः 1/1 मिथ्याचारः 1/1 उच्यते III/1 ॥३.६॥
The one (सः 1/1) who (यः 1/1), controlling (संयम्य 0) the organs of action (कर्मेन्द्रियाणि 2/3), sits (आस्ते III/1) with the mind (मनसा 3/1) remembering (स्मरन् 1/1) the sense objects (इन्द्रियार्थान् 2/3) is deluded (विमूढात्मा 1/1) and is called (मिथ्याचारः 1/1) a person of false conduct (उच्यते III/1).
यः 1/1 तु 0 अनात्मज्ञः 1/1 चोदितम् 2/1 कर्म 2/1 न 0 आरभते III/1 इति 0 तत् 1/1 असत् 1/1 एव 0 इति 0 आह III/1 –
कर्मेन्द्रियाणि 2/3 = हस्तादीनि 2/3 संयम्य 0 = संहृत्य 0 यः 1/1 आस्ते III/1 तिष्ठति III/1 मनसा 3/1 स्मरन् 1/1 = चिन्तयन् 1/1 इन्द्रियार्थान् 2/3 = विषयान् 2/3, विमूढात्मा 1/1 = विमूढ-अन्तःकरणः 1/1 मिथ्याचारः 1/1 = मृषाचारः 1/1 = पापाचारः 1/1 सः 1/1 उच्यते III/1॥
बहुव्रीहिसमासः
मिथ्या 0 आचारः 1/1 यस्य 6/1 सः 1/1 मिथ्याचारः 1/1 = पुरुषः 1/1
मृषा 0 आचारः 1/1 यस्य 6/1 सः 1/1 मृषाचारः 1/1 = पुरुषः 1/1
पापम् 1/1 आचारः 1/1 यस्य 6/1 सः 1/1 पापाचारः 1/1 = पुरुषः 1/1
विमूढः 1/1 आत्मा 1/1 यस्य 6/1 सः 1/1 विमूढात्मा 1/1 = पुरुषः 1/1
विमूढम् n1/1 अन्तःकरणम् n1/1 यस्य 6/1 सः 1/1 विमूढान्तःकरणः m1/1 = पुरुषः 1/1