काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||
काश्यः 1/1 च 0 परमेष्वासः 1/1 शिखण्डी 1/1 च 0 महारथः 1/1 ।
धृष्टद्युम्नः 1/1 विराटः 1/1 च 0 सात्यकिः 1/1 च 0 अपराजितः 1/1 ॥१-१७॥
· काश्यः [kāśyaḥ] = Kāśya, a king of Kāśī = काश्य + कर्तरि of [दध्मुः] 1/1
· च [ca] = and = अव्ययम्
· परमेष्वासः [parameṣvāsaḥ] = one who has a great bow = परमेष्वास + adj. to काश्यः 1/1
o इषुः (arrow) अस्यते (is thrown) अस्मिन् (in which) इति इष्वासं धनुः (bow) । UT
o परमं (great) इष्वासं (bows) यस्य (whose) सः परमेष्वासः । 11B6
· शिखण्डी [śikhaṇḍī] = Śikhaṇḍin = शिखण्डिन् + कर्तरि of [दध्मुः] 1/1
o शिखण्दः (= शिखा, the taft of hair of Hindu man) अस्य अस्ति इति शिखण्डी । इनिँ
· च [ca] = and = अव्ययम्
· महारथः [mahārathaḥ] = the man of great valour = महारथ + adj. to शिखण्डी 1/1
· धृष्टद्युम्नः [dhṛṣṭadyumnaḥ] = Dhṛṣṭadyumna, a commander in chief of Pāṇḍava’s army, a brother of Draupadī = धृष्टद्युम्न + कर्तरि of [दध्मुः] 1/1
· विराटः [virāṭaḥ] = Virāṭa = विराट + कर्तरि of [दध्मुः] 1/1
· सात्यकिः [sātyakiḥ] = Sātyaki = सात्यकि + कर्तरि of [दध्मुः] 1/1
· च [ca] = and = अव्ययम्
· अपराजितः [aparājitaḥ] = unsurpassed = अपराजित + adj. to सात्यकिः 1/1
The king of Kāśī (काश्यः 1/1 च 0), and expert archer (परमेष्वासः 1/1), Śikhaṇḍī (शिखण्डी 1/1 च 0) of great valour (महारथः 1/1), Dhṛṣṭadumna (धृष्टद्युम्नः 1/1) and (च 0)Virāṭa (विराटः 1/1), and (च 0) the unsurpassed (अपराजितः 1/1) Sātyaki (सात्यकिः 1/1)…
All the words are connected to the next verse.