तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९.१९ ॥
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca |
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna || 9.19 ||
तपामि I/1 अहम् 1/1 अहम् 1/1 वर्षम् 2/1 निगृह्णामि I/1 उत्सृजामि I/1 च 0 ।
अमृतम् 1/1 च 0 एव 0 मृत्युः 1/1 च 0 सत् 1/1 असत् 1/1 च 0 अहम् 1/1 अर्जुन S/1 ॥ ९.१९ ॥
· तपामि [tapāmi] = heat up (the world) = तप् संतापे (1P) to heat up + लट्/कर्तरि/I/1
· अहम् [aham] = I = अस्मद् m. + कर्तरि to तपामि 1/1
· अहम् [aham] = I = अस्मद् m. + कर्तरि to निगृह्णामि and उत्सृजामि 1/1
· वर्षम् [varṣam] = the rain = वर्ष (m.) + कर्मणि to निगृह्णामि and उत्सृजामि 2/1
· निगृह्णामि [nigṛhṇāmi] = withhold = नि + ग्रह् (9P) to keep, withhold + लट्/कर्तरि/I/1
· उत्सृजामि [utsṛjāmi] = release = उद् + सृज् (6P) to release + लट्/कर्तरि/I/1
· च [ca] = and = अव्ययम्
· अमृतम् [amṛtam] = immortal = अमृत (n.) + S.C. to अहम् 1/1
· च [ca] = and = अव्ययम्
· एव [eva] = indeed = अव्ययम्
· मृत्युः [mṛtyuḥ] = death = मृत्यु (m.) + S.C. to अहम् 1/1
· च [ca] = and = अव्ययम्
· सत् [sat] = cause = सत् (n.) + S.C. to अहम् 1/1
· असत् [asat] = effect = असत् (n.) + S.C. to अहम् 1/1
· च [ca] = and = अव्ययम्
· अहम् [aham] = I am = अस्मद् m. + कर्तरि to [अस्मि] 1/1
· अर्जुन [arjuna] = Arjuna = अर्जुन (m.) + सम्बोधने 1/1
I heat up the world and I withhold and release the rain. I am immortal and I am also death. I am cause and effect, Arjuna!
Sentence 1:
अहम् 1/1 तपामि I/1 । अहम् 1/1 वर्षम् 2/1 निगृह्णामि I/1 उत्सृजामि I/1 च 0 ।
I (अहम् 1/1) heat up the world (तपामि I/1) and I (अहम् 1/1) withhold (निगृह्णामि I/1) and (च 0) release (उत्सृजामि I/1) the rain (वर्षम् 2/1).
Sentence 2:
अमृतम् 1/1 च 0 एव 0 मृत्युः 1/1 च 0 ।
I am immortal (अमृतम् 1/1) and (च 0 एव 0) I am also (च 0) death (मृत्युः 1/1).
Sentence 3:
अहम् 1/1 सत् 1/1 असत् 1/1 च 0 अर्जुन S/1 ॥
I am (अहम् 1/1) cause (असत् 1/1) and (च 0) effect (सत् 1/1), Arjuna (अर्जुन S/1)!
किञ्च —
तपामि अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिः उल्बणैः । अहं वर्षं कैश्चित् रश्मिभिः उत्सृजामि । उत्सृज्य पुनः निगृह्णामि कैश्चित् रश्मिभिः अष्टभिः मासैः पुनः उत्सृजामि प्रावृषि । अमृतं चैव देवानाम् , मृत्युश्च मर्त्यानाम् । सत् यस्य यत् सम्बन्धितया विद्यमानं तत् , तद्विपरीतम् असच्च एव अहम् अर्जुन । न पुनः अत्यन्तमेव असत् भगवान् , स्वयं कार्यकारणे वा सदसती ये पूर्वोक्तैः निवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैः यज्ञैः मां पूजयन्तः उपासते ज्ञानविदः, ते यथाविज्ञानं मामेव प्राप्नुवन्ति ॥ १९ ॥