किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९.३३ ॥
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām || 9.33 ||
किम् 0 पुनः 0 ब्राह्मणाः 1/3 पुण्याः 1/3 भक्ताः 1/3 राजर्षयः 1/3 तथा 0 ।
अनित्यम् 2/1 असुखम् 2/1 लोकम् 2/1 इमम् 2/1 प्राप्य 0 भजस्व II/1 माम् 2/1 ॥ ९.३३ ॥
· किम् [kim] = what = अव्ययम्
· पुनः [punaḥ] = again = अव्ययम्
· ब्राह्मणाः [brāhmaṇāḥ] = brāhmanas = ब्राह्मण m. + कर्तरि to [सन्ति] 1/3
· पुण्याः [puṇyāḥ] = those who have fortunate births = पुण्य m. + S.C. to ब्राह्मणाः 1/3
o पुण्यम् एषाम् अस्ति इति पुण्याः ।
पुण्य + सुँ + अच् 5.2.127 अर्शआदिभ्योऽच ।
· भक्ताः [bhaktāḥ] = those who are devoted = भक्त (m.) + S.C. to ब्राह्मणाः 1/3
· राजर्षयः [rājarṣayaḥ] = the sage-kings = राजर्षि (m.) + कर्तरि to [सन्ति] 1/3
o राजानः च ऋषयः च राजर्षयः (KT) ।
· तथा [tathā] = so too = अव्ययम्
· अनित्यम् [anityam] = non-eternal = अनित्य m. + adj. to लोकम् 2/1
· असुखम् [asukham] = that which has little happiness = असुख m. + adj. to लोकम् 2/1
o न सुखं विद्यते अस्मिन् इति असुखः (NB) लोकः । (अल्पार्थे नञ्)
· लोकम् [lokam] = the world = लोक (m.) + कर्मणि to प्राप्य 2/1
· इमम् [imam] = this = इदम् m. + adj. to लोकम् 2/1
· प्राप्य [prāpya] = having gained = अव्ययम्
· भजस्व [bhajasva] = seek = भज् (1A) + लोट्/कर्तरि/II/1
· माम् [mām] = me = अस्मद् m. + कर्मणि to भजस्व 2/1
Then what to talk of brāhmanas who have fortunate births and are devoted, so too, the sage-kings (kṣatriyas)? Having gained this world, which is non-eternal and of little happiness, may you seek me.
Sentence 1:
किम् 0 पुनः 0 पुण्याः 1/3 भक्ताः 1/3 ब्राह्मणाः 1/3 तथा 0 राजर्षयः 1/3 ।
Then (पुनः 0) what to talk of (किम् 0) brāhmanas (ब्राह्मणाः 1/3) who have fortunate births (पुण्याः 1/3) and are devoted (भक्ताः 1/3), so too (तथा 0), the sage-kings (राजर्षयः 1/3) (kṣatriyas)?
Sentence 2:
इमम् 2/1 अनित्यम् 2/1 असुखम् 2/1 लोकम् 2/1 प्राप्य 0 माम् 2/1 भजस्व II/1 ॥ ९.३३ ॥
Having gained (प्राप्य 0) this (इमम् 2/1) world (लोकम् 2/1), which is non-eternal (अनित्यम् 2/1) and of little happiness (असुखम् 2/1), may you seek (भजस्व II/1) me (माम् 2/1).
किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः तथा । राजानश्च ते ऋषयश्च राजर्षयः । यतः एवम् , अतः अनित्यं क्षणभङ्गुरम् असुखं च सुखवर्जितम् इमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ॥ ३३ ॥