मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९.१२ ॥
moghāśā moghakarmāṇo moghajñānā vicetasaḥ |
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || 9.12 ||
मोघाशाः 1/3 मोघकर्माणः 1/3 मोघज्ञानाः 1/3 विचेतसः 1/3 ।
राक्षसीम् 2/1 आसुरीम् 2/1 च 0 एव 0 प्रकृतिम् 2/1 मोहिनीम् 2/1 श्रिताः 1/3 ॥ ९.१२ ॥
· मोघाशाः [moghāśāḥ] = those of vain hopes = मोघाश m. + adj. to विचेतसः 1/3
o मोघाः आशाः येषां ते ।
o मुह्यते अस्मिन् इति मोघः ।
मुह् वैचित्ये (4P) to become confused + घञ् ।
· मोघकर्माणः [moghakarmāṇaḥ] = those of fruitless actions = मोघकर्मन् m. + adj. to विचेतसः 1/3
o मोघानि कर्माणि येषां ते ।
· मोघज्ञानाः [moghajñānāḥ] = those of useless knowledge = मोघज्ञान m. + adj. to विचेतसः 1/3
o मोघं ज्ञानं येषां ते ।
· विचेतसः [vicetasaḥ] = those whoo are devoid of discrimination = विचेतस् m + कर्तरि to [भवन्ति] 1/3
o विगतं चेतः येषां ते ।
· राक्षसीम् [rākṣasīm] = that which is of rākṣasa = राक्षसी (f.) + adj. to प्रकृतिम् 2/1
· आसुरीम् [āsurīm] = that which is of asura = आसुरी (f.) + adj. to प्रकृतिम् 2/1
· च [ca] = and = अव्ययम्
· एव [eva] = indeed = अव्ययम्
· प्रकृतिम् [prakṛtim] = disposition = प्रकृति (f.) + कर्मणि to श्रिताः 2/1
· मोहिनीम् [mohinīm] = deluding = मोहिनी (f.) + adj. to प्रकृतिम् 2/1
· श्रिताः [śritāḥ] = those who are resort to = श्रित m. + S.C. to विचेतसः 1/3
Devoid of discrimination, those of vain hopes, of fruitless actions and useless knowledge, indeed, resort to the deluding disposition of rākṣasa and of asura.
Sentence 1:
मोघाशाः 1/3 मोघकर्माणः 1/3 मोघज्ञानाः 1/3 विचेतसः 1/3 राक्षसीम् 2/1 आसुरीम् 2/1 च 0 एव 0 मोहिनीम् 2/1 प्रकृतिम् 2/1 श्रिताः 1/3 ॥
Devoid of discrimination (विचेतसः 1/3), those of vain hopes (मोघाशाः 1/3), of fruitless actions (मोघकर्माणः 1/3) and useless knowledge (मोघज्ञानाः 1/3), indeed (एव 0), resort (श्रिताः 1/3) to the deluding (मोहिनीम् 2/1) disposition (प्रकृतिम् 2/1) of rākṣasa (राक्षसीम् 2/1) and (च 0) of asura (आसुरीम् 2/1).
कथम् ? —
मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः, तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीयमानानि कर्माणि तानि च, तेषां भगवत्परिभवात् , स्वात्मभूतस्य अवज्ञानात् , मोघान्येव निष्फलानि कर्माणि भवन्तीति मोघकर्माणः । तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात् । विचेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायः । किञ्च — ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोहकरीं देहात्मवादिनीं श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद, परस्वमपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्ति इत्यर्थः, ‘असुर्या नाम ते लोकाः’ (ई. उ. ३) इति श्रुतेः ॥ १२ ॥