निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८.४ ॥
niścayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ || 18.4 ||
निश्चयम् 2/1 शृणु I/1 मे 6/1 तत्र 0 त्यागे 7/1 भरतसत्तम S/1।
त्यागः 1/1 हि 0 पुरुषव्याघ्र S/1 त्रिविधः 1/1 सम्प्रकीर्तितः 1/1॥ १८.४ ॥
· निश्चयम् [niścayam] = ascertained opinion = निश्चय (m.) + कर्मणि to शृणु 2/1
· शृणु [śṛṇu] = listen = श्रु (1P) to listen + लोट्/कर्तरि/II/1
· मे [me] = of me = अस्मद् (pron.) + सम्बन्धे to (वचनात्) 6/1
· तत्र [tatra] = in that (त्यागे) = अव्ययम्
· त्यागे [tyāge] = in renunciation = त्याग (m.) + अधिकरणे 7/1
· भरतसत्तम [bharatasattama] = O most mature among the Bharata family! = भरतसत्तम (m.) + सम्बोधने 1/1
· त्यागः [tyāgaḥ] = renunciation = त्याग (m.) + कर्तरि to (भवति) 1/1
· हि [hi] = indeed = अव्ययम्
· पुरुषव्याघ्र [puruṣavyāghra] = O tiger among men! = पुरुषव्याघ्र (m.) + सम्बोधने 1/1
· त्रिविधः [trividhaḥ] = three-fold = त्रिविध (m.) + adj. to त्यागः 1/1
· सम्प्रकीर्तितः [samprakīrtitaḥ] = is well stated = सम्प्रकीर्तित (m.) + S.C. to त्यागः 1/1,
o सम् + कॄत् (10U) to glorify + क्त (कर्मणि)
Arjuna, the most mature among the Bharata family! The tiger among men! Listen to my ascertained opinion about this renunciation. Renunciation is well stated as three-fold.
Sentence 1:
पुरुषव्याघ्र S/1 तत्र 0 त्यागे 7/1 मे 6/1 निश्चयम् 2/1 शृणु I/1 भरतसत्तम S/1।
Arjuna, the most mature among the Bharata family (भरतसत्तम S/1) ! The tiger among men (पुरुषव्याघ्र S/1) ! Listen to (शृणु I/1) My (मे 6/1) ascertained opinion (निश्चयम् 2/1) about this renunciation (तत्र 0 त्यागे 7/1).
Sentence 2:
त्यागः 1/1 हि 0 त्रिविधः 1/1 सम्प्रकीर्तितः 1/1॥
Renunciation (त्यागः 1/1 हि 0) is well stated (सम्प्रकीर्तितः 1/1) as three-fold (त्रिविधः 1/1).
निश्चयम् 2/1 शृणु I/1 अवधारय मे 6/1 मम वचनात् ; तत्र 0 त्यागे 7/1 त्यागसंन्यासविकल्पे यथादर्शिते भरतसत्तम S/1 भरतानां साधुतम । त्यागः 1/1 हि 0, त्यागसंन्यासशब्दवाच्यो हि यः अर्थः सः एक एवेति अभिप्रेत्य आह — त्यागो हि इति । पुरुषव्याघ्र S/1, त्रिविधः 1/1 त्रिप्रकारः तामसादिप्रकारैः सम्प्रकीर्तितः 1/1 शास्त्रेषु सम्यक् कथितः यस्मात् तामसादिभेदेन त्यागसंन्यासशब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः सम्भवति, न परमार्थदर्शिनः, इत्ययमर्थः दुर्ज्ञानः, तस्मात् अत्र तत्त्वं न अन्यः वक्तुं समर्थः । तस्मात् निश्चयं परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं मे मत्तः शृणु ॥ ४ ॥