न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥३.४॥
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute |
na ca sannyasanādeva siddhiṃ samadhigacchati ||3.4||
न 0 कर्मणाम् 6/3 अनारम्भात् 5/1 नैष्कर्म्यम् 2/1 पुरुषः 1/1 अश्नुते III/1 ।
न 0 च 0 सन्न्यसनात् 5/1 एव 0 सिद्धिम् 2/1 समधिगच्छति III/1 ॥३.४॥
· न [na] = not = अव्ययम्
· कर्मणाम् [karmaṇām] = of actions = कर्मन् (n.) + सम्बन्धे to अनारम्भात् 6/3
· अनारम्भात् [anārambhāt] = by the non-performance = अनारम्भ (m.) + हेतौ 5/1
· नैष्कर्म्यम् [naiṣkarmyam] = the state of actionlessness = नैष्कर्म्य (n.) + कर्म to अश्नुते 2/1
o निष्कर्मस्य भावः नैष्कर्म्यम् ।
· पुरुषः [puruṣaḥ] = a person = पुरुष (m.) + कर्तरि to अश्नुते 1/1
· अश्नुते [aśnute] = attain = अश् (5A) to pervade + लट्/कर्तरि/III/1
· न [na] = not = अव्ययम्
· च [ca] = and = अव्ययम्
· सन्न्यसनात् [sannyasanāt] = out of renunciation = सन्न्यसन (n.) + हेतौ 5/1
o सम् + नि + अस् (4P) to renunce + ल्युट् (भावे)
· एव [eva] = mere = अव्ययम्
· सिद्धिम् [siddhim] = success (liberation) = सिद्धि (f.) + कर्म to समधिगच्छति 2/1
· समधिगच्छति [samadhigacchati] = attain = सम् + अधि + गम् (1P) to attain+ लट्/कर्तरि/III/1
A person does not gain the state of actionlessness by the non-performance of activities. Nor does the person attain success (liberation) out of mere renunciation, sannyāsa.
Sentence 1:
कर्मणाम् 6/3 अनारम्भात् 5/1 पुरुषः 1/1 नैष्कर्म्यम् 2/1 न 0 अश्नुते III/1 ।
A person (पुरुषः 1/1) does not (न 0) gain (अश्नुते III/1) the state of actionlessness (नैष्कर्म्यम् 2/1) by the non-performance (अनारम्भात् 5/1) of activities (कर्मणाम् 6/3).
Sentence 2:
न 0 च 0 सन्न्यसनात् 5/1 एव 0 सिद्धिम् 2/1 समधिगच्छति III/1 ॥३.४॥
Nor does (न 0 च 0) the person attain (समधिगच्छति III/1) success (liberation) (सिद्धिम् 2/1) out of mere (एव 0) renunciation, sannyāsa (सन्न्यसनात् 5/1).
“माम् 2/1 च 0 बन्ध-कारणे 7/1 कर्मणि 7/1 एव 0 नियोजयसि II/1“ इति 0 विषण्ण-मनसम् 2/1 अर्जुनम् 2/1 “कर्म 2/1 न 0 आरभे I/1“ इत 0 एवम् 0 मन्वानम् 2/1 आलक्ष्य 0 आह III/1 भगवान् 1/1 – “न 0 कर्मणाम् 6/3 अनारम्भात् 5/1“ इति 0 ।
अथवा 0 – ज्ञानकर्म-निष्ठयोः 6/2 परस्पर-विरोधात् 5/1 एकेन 3/1 पुरुषेण 3/1 युगपत् 0 अनुष्ठातुम् 0 अशक्त्यत्वे 7/1 सति 7/1 इतरेतरानपेक्षयोः 6/2 एव 0 पुरुषार्थ-हेतुत्वे 7/1 प्राप्ते 7/1 कर्मनिष्ठायाः 6/1 ज्ञाननिष्ठा-प्राप्ति-हेतुत्वेन 3/1 पुरुषार्थ-हेतुत्वम् 1/1, न 0 स्वातन्त्र्येण 3/1, ज्ञाननिष्ठा 1/1 तु 0 कर्मनिष्ठोपाय-लब्धात्मिका 1/1 सती 1/1 स्वातन्त्र्येण 3/1 पुरुषार्थहेतुः 1/1 अन्यानपेक्षा 1/1, इति 0 एतम् 2/1 अर्थम् 2/1 प्रदर्शयिष्यन् 1/1 आह III/1 भगवान् 1/1 –
न 0 कर्मणाम् 6/3 क्रियाणाम् 6/3 – यज्ञादीनाम् 6/3 इह 0 जन्मनि 7/1 जन्मान्तरे 7/1 वा 0 अनुष्ठितानाम् 6/3 उपात्त-दुरित-क्षय-हेतुत्वेन 3/1 सत्त्वशुद्धि-कारणानाम् 6/3 तत्कारणत्वेन 3/1 च 0 ज्ञानोत्पत्ति-द्वारेण 3/1 ज्ञाननिष्ठा-हेतूनाम् 6/3, “ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतल-प्रख्ये पश्यत्यात्मानमात्मनि” (मो. ध. 204.8) इत्यादि-स्मरणात् 5/1, अनारम्भात् 5/1 अननुष्ठानात् 5/1 । नैष्कर्म्यम् 2/1 निष्कर्म-भावम् 2/1 कर्मशून्यताम् 2/1 ज्ञानयोगेन 3/1 निष्ठाम् 2/1 निष्क्रियात्म-स्वरूपेण 3/1 एव 0 अवस्थानम् 2/1 इति 0 यावत् 0 । पुरुषः 1/1 न 0 अश्नुते III/1 न 0 प्राप्नोति III/1 इत्यर्थः 1/1 । “कर्मणाम् 6/3 अनारम्भात् 5/1 नैष्कर्म्यम् 2/1 न 0 अश्नुते III/1“ इति 0 वचनात् 5/1 तद्विपर्ययात् 5/1 “तेषाम् 6/3 आरम्भात् 5/1 नैष्कर्म्यम् 2/1 अश्नुते III/1“ इति 0 गम्यते III/1 ।
कस्मात् 5/1 पुनः 0 कारणात् 5/1 “कर्मणाम् 6/3 अनारम्भात् 5/1 नैष्कर्म्यम् 2/1 न 0 अश्नुते III/1“ इति 0? उच्यते III/1 – कर्मारम्भस्य 6/1 एव 0 नैष्कर्म्योपायत्वात् 5/1 । न 0 हि 0 उपायम् 2/1 अन्तरेण 0 उपेय-प्राप्तिः 1/1 अस्ति III/1 ।
कर्मयोगोपायत्वम् 1/1 च 0 नैष्कर्म्य-लक्षणस्य 6/1 ज्ञानयोगस्य 6/1, श्रुतौ 7/1 इह 0 च 0, प्रतिपादनात् 5/1 । श्रुतौ 7/1 तावत् 0 प्रकृतस्य 6/1 आत्म-लोकस्य 6/1 वेद्यस्य 6/1 (न तु प्राप्यस्य) वेदनोपायत्वेन 3/1 “तम् 2/1 एतम् 2/1 वेदानुवचनेन 3/1 ब्राह्मणाः 1/3 विविदिषन्ति III/3 यज्ञेन 3/1“ (बृ. 4.4.22) इत्यादिना 3/1 कर्मयोगस्य 6/1 ज्ञानयोगोपायत्वम् 1/1 प्रतिपादितम् 1/1 ।
इहापि 0 च 0 – “सन्न्यासः 1/1 तु 0 महाबाहो S/1 दुःखम् 0 आप्तुम् 0 अयोगतः 0“ (5.6) “योगिनः 1/3 कर्म 2/1 कुर्वन्ति III/3 सङ्गम् 2/1 त्यक्त्वा 0 आत्मशुद्धये 4/1“ (5.11) “यज्ञः 1/1 दानम् 1/1 तपः 1/1 च 0 एव 0 पावनानि 1/3 मनीषिणाम् 6/3“ (18.5) इत्यादि 2/1 प्रतिपादयिष्यति III/1 ॥
ननु 0 च 0 “अभयम् 2/1 सर्वभूतेभ्यः 4/3 दत्त्वा 0 नैष्कर्म्यम् 2/1 आचरेत् III/1“ (अश्व. 46.18) इत्यादौ 7/1 कर्तव्य-कर्म-सन्न्यासात् 5/1 अपि 0 नैष्कर्म्य-प्राप्तिम् 2/1 दर्शयति III/1 । लोके 7/1 च 0 कर्मणाम् 6/3 अनारम्भात् 5/1 नैष्कर्म्यम् 1/1 इति 0 प्रसिद्धतरम् 1/1 । अतः 0 च 0 नैष्कर्म्यार्थिनः 6/1 किम् 0 कर्म-आरम्भेण 3/1? इति 0 प्राप्तम् 1/1 । अतः 0 आह III/1 – न 0 च 0 सन्न्यसनात् 5/1 एव 0 इति 0 । न 0 अपि 0 न्यासनात् 5/1 एव 0 केवलात् 5/1 कर्मपरित्यागमात्रात् 5/1 एव 0 ज्ञान-रहितात् 5/1 सिद्धिम् 2/1 नैष्कर्म्य-लक्षणाम् 2/1 ज्ञानयोगेन 3/1 निष्ठाम् 2/1 समधिगच्छति III/1 न 0 प्राप्नोति III/1 ॥ ४ ॥