अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३.११ ॥
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam |
etajjñānamiti proktamajñānaṃ yadato:'nyathā || 13.11 ||
अध्यात्मज्ञाननित्यत्वम् 1/1 तत्त्वज्ञानार्थदर्शनम् 1/1 ।
एतत् 1/1 ज्ञानम् 1/1 इति 0 प्रोक्तम् 1/1 अज्ञानम् 1/1 यत् 1/1 अतः 0 अन्यथा 0 ॥ १३.११ ॥
... always (dwelling upon) knowledge centred on the self, keeping in view the purpose of knowledge of the truth – (all) this that was told is the means to knowledge, what is opposite to this is ignorance.
... always (dwelling upon) knowledge centred on the self (अध्यात्मज्ञाननित्यत्वम् 1/1), keeping in view the purpose of knowledge of the truth (तत्त्वज्ञानार्थदर्शनम् 1/1) – (all) this that was told (एतत् 1/1) is said (प्रोक्तम् 1/1) to be (इति 0) the means to knowledge (ज्ञानम् 1/1), what (यत् 1/1) is opposite (अन्यथा 0) to this (अतः 0) is ignorance (अज्ञानम् 1/1).
· अध्यात्मज्ञाननित्यत्वम् [adhyātmajñānanityatvam] = always (dwelling upon) knowledge centred on the self = अध्यात्मज्ञाननित्यत्व (n.) + प्रातिपदिकार्थमात्रे 1/1
o अध्यात्मम् ज्ञानम् अध्यात्मज्ञानम् (KT) ।
o नित्यस्य भावः नित्यत्वम् ।
o अध्यात्मज्ञाने नित्यत्वम् अध्यात्मज्ञाननित्यत्वम् (7T) ।
· तत्त्वज्ञानार्थदर्शनम् [tattvajñānārthadarśanam] = keeping in view the purpose of knowledge of the truth = + प्रातिपदिकार्थमात्रे 1/1
o तत्त्वस्य ज्ञानं तत्त्वज्ञानम् (6T) ।
o तत्त्वज्ञानस्य अर्थः तत्त्वज्ञानार्थः (6T) ।
o तत्त्वज्ञानार्थस्य दर्शनम् तत्त्वज्ञानार्थदर्शनम् (6T) ।
· एतत् [etat] = this = एतद् (pron.) n. + कर्तरि to (भवति) 1/1
· ज्ञानम् [jñānam] = the means to knowledge = ज्ञान (n.) + S.C. to एतत् 1/1
· इति [iti] = thus = अव्ययम्
· प्रोक्तम् [proktam] = is said to be = प्रोक्त n. + S.C. to एतत् 1/1
· अज्ञानम् [ajñānam] = ignorance = अज्ञान (n.) + कर्तरि to (भवति) 1/1
· यत् [yat] = that which = यद् (pron.) n. + कर्तरि to (भवति) 1/1
· अतः [ataḥ] = from this = अव्ययम्
o अस्मात् = इदम् + ङसिँ
o इदम् + ङसिँ + तसिँल् (पञ्चम्यर्थे) = अतस्
· अन्यथा [anyathā] = different = अव्ययम्
o अन्य + थाल् (प्रकारार्थे) = अन्यथा
अन्वयः - यत् 1/1 अतः 0 अन्यथा 0, (तत्) अज्ञानम् 1/1
किञ्च —
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥
अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानम् अध्यात्मज्ञानम् , तस्मिन् नित्यभावः नित्यत्वम् । अमानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानम् , तस्य अर्थः मोक्षः संसारोपरमः ; तस्य आलोचनं तत्त्वज्ञानार्थदर्शनम् ; तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यादिति । एतत् अमानित्वादितत्त्वज्ञानार्थदर्शनान्तमुक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अज्ञानं यत् अतः अस्मात् यथोक्तात् अन्यथा विपर्ययेण । मानित्वं दम्भित्वं हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय, संसारप्रवृत्तिकारणत्वात् इति ॥ ११ ॥