सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९.१४ ॥
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ |
namasyantaśca māṃ bhaktyā nityayuktā upāsate || 9.14 ||
सततम् 0 कीर्तयन्तः 1/3 माम् 2/1 यतन्तः 1/3 च 0 दृढव्रताः 1/3 ।
नमस्यन्तः 1/3 च 0 माम् 2/1 भक्त्या 3/1 नित्ययुक्ताः 1/3 उपासते III/3 ॥ ९.१४ ॥
· सततम् [satatam] = always = अव्ययम्
· कीर्तयन्तः [kīrtayantaḥ] = those who are appreciating = कीर्तयत् m. + adj. to [ते महात्मानः from the previous verse] 1/3
· माम् [mām] = me = अस्मद् m. + कर्मणि to कीर्तयन्तः 2/1
· यतन्तः [yatantaḥ] = those who are making the necessary efforts = यतत् m. + adj. to [ते महात्मानः from the previous verse] 1/3
· च [ca] = and = अव्ययम्
· दृढव्रताः [dṛḍhavratāḥ] = those whose commitment is firm = दृढव्रत m. + adj. to [ते महात्मानः from the previous verse] 1/3
· नमस्यन्तः [namasyantaḥ] = those who remain surrendered = नमस्यत् m. + adj. to [ते महात्मानः from the previous verse] 1/3
o नमस् + क्यच् = नमस्य (नामधातु)
o नमस्य + शतृ
· च [ca] = and = अव्ययम्
· माम् [mām] = me = अस्मद् m. + कर्मणि to नमस्यन्तः 2/1
· भक्त्या [bhaktyā] = with devotion = भक्ति (f.) + प्रकृत्यादि 3/1
· नित्ययुक्ताः [nityayuktāḥ] = those who are always united to me = नित्ययुक्त m. + adj. to [ते महात्मानः from the previous verse] 1/3
· उपासते [upāsate] = seek = उप + आस् (2A) to meditate + लट्/कर्तरि/III/3
Those who are always appreciating me and making the necessary efforts, whose commitment is firm and who remain surrendered to me with devotion, who are always united to me (with a prayerful heart), seek me.
Sentence 1:
सततम् 0 माम् 2/1 कीर्तयन्तः 1/3 यतन्तः 1/3 च 0 दृढव्रताः 1/3 नमस्यन्तः 1/3 च 0 भक्त्या 3/1 नित्ययुक्ताः 1/3 माम् 2/1 उपासते III/3 ॥ ९.१४ ॥
Those who are always (सततम् 0) appreciating (कीर्तयन्तः 1/3) me (माम् 2/1) and (च 0) making the necessary efforts (यतन्तः 1/3), whose commitment is firm (दृढव्रताः 1/3) and (च 0) who remain surrendered to me (नमस्यन्तः 1/3) with devotion (भक्त्या 3/1), who are always united to me (नित्ययुक्ताः 1/3) (with a prayerful heart), seek (उपासते III/3) me (माम् 2/1).
कथम् ? —
सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्तश्च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैः धर्मैः प्रयतन्तश्च, दृढव्रताः दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढव्रताः नमस्यन्तश्च मां हृदयेशयम् आत्मानं भक्त्या नित्ययुक्ताः सन्तः उपासते सेवंते ॥ १४ ॥