Chapters

▼

Related

▼

Thursday, January 26, 2023

13th Chapter 1st Sloka

 श्रीभगवानुवाच ।

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३.१॥

 

śrībhagavānuvāca |

idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate |

etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13.1||

 

श्रीभगवान् 1/1 उवाच III/1 ।

इदम् 1/1 शरीरम् 1/1 कौन्तेय S/1 क्षेत्रम् 1/1 इति 0 अभिधीयते III/1 ।

एतत् 2/1 यः 1/1 वेत्ति III/1 तम् 2/1 प्राहुः III/3 क्षेत्रज्ञः 1/1 इति 0 तद्-विदः 1/3 ॥१३.१॥

 

·       श्रीभगवान् [śrībhagavān] = Śrī Bhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·       इदम् [idam] = this = इदम् (pron.) n. + adj. to शरीरम् 1/1

·       शरीरम् [śarīram] = body = शरीर (n.) + कर्मणि to अभिधीयते 1/1

·       कौन्तेय [kaunteya] = O Kaunteya!= कौन्तेय + सम्बोधने 1/1

·       क्षेत्रम् [kṣetram] = the field = क्षेत्र (n.) + S.C to शरीरम् 1/1

·       इति [iti] = thus = अव्ययम्

·       अभिधीयते [abhidhīyate] = is called = अभि + धा to name + लट्/कर्मणि/III/1

·       एतत् [etat] = this = एतद् (pron.) n. (pointing to क्षेत्रम्) + कर्मणि to वेत्ति 2/1

·       यः [yaḥ] = the who = यद् (pron.) m. + कर्तरि to वेत्ति 1/1

·       वेत्ति [vetti] = knows = विद् (2P) to know + लट्/कर्तरि/III/1

·       तम् [tam] = him = तद् (pron.) m. (corresponding to यः, one who knows the field) + कर्मणि to प्राहुः 2/1

·       प्राहुः [prāhuḥ] = say = प्र + ब्रू (2U) to say + लट्/कर्तरि/III/3

·       क्षेत्रज्ञः [kṣetrajñaḥ] = the knower of the field = क्षेत्रज्ञ (m.) + कर्तरि to (भवति) 1/1

o   क्षेत्रं जानाति इति क्षेत्रज्ञः । (UT)

o   क्षेत्र + ङस् + ज्ञा + क (3.2.3 आतोऽनुपसर्गे कः ।)

·       इति [iti] = thus = अव्ययम्

·       तद्-विदः [tad-vidaḥ] = those who know that = तद्विद् m. + कर्तरि to प्राहुः 1/3

o   (क्षेत्रं क्षेत्रज्ञं च) तौ विदन्ति तद्विदः । (UT)

o   तद् + ओस् + विद् + क्विप् (3.2.76 क्विप् च ।)

 

 

Śrī Bhagavān said:

Kaunteya (Arjuna)! This body is called “filed”. The one who knows this (field) is “the knower of the field;” thus say those who know that.

 

 

Sentence 1:

Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1):

 

Sentence 2:

Kaunteya (Arjuna) (कौन्तेय S/1)! This (इदम् 1/1) body (शरीरम् 1/1) is called (अभिधीयते III/1) “filed” (क्षेत्रम् 1/1 इति 0).

 

Sentence 3:

Those who know that (तद्-विदः 1/3) call (प्राहुः III/3) the one (तम् 2/1) who (यः 1/1) knows (वेत्ति III/1) this (एतत् 2/1) (field) as “the knower of the field” (क्षेत्रज्ञः 1/1 इति 0).

 

 

सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्य — त्रिगुणात्मिका अष्टधा भिन्ना अपरा, संसारहेतुत्वात् ; परा च अन्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिका — याभ्यां प्रकृतिभ्यामीश्वरः जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यते । तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्यायः आरभ्यते । अतीतानन्तराध्याये च ‘अद्वेष्टा सर्वभूतानाम्’(भ. गी. १२ । १३) इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतत् उक्तम् । केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणात् भगवतः प्रिया भवन्तीति एवमर्थश्च अयमध्यायः आरभ्यते । प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते । सोऽयं सङ्घातः इदं शरीरम् । तदेतत् भगवान् उवाच —

श्रीभगवानुवाच —

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

इदम् इति सर्वनाम्ना उक्तं विशिनष्टि शरीरम् इति । हे कौन्तेय, क्षतत्राणात् , क्षयात् , क्षरणात् , क्षेत्रवद्वा अस्मिन् कर्मफलनिष्पत्तेः क्षेत्रम् इति — इतिशब्दः एवंशब्दपदार्थकः — क्षेत्रम् इत्येवम् अभिधीयते कथ्यते । एतत् शरीरं क्षेत्रं यः वेत्ति विजानाति, आपादतलमस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञः इति — इतिशब्दः एवंशब्दपदार्थकः एव पूर्ववत् — क्षेत्रज्ञः इत्येवम् आहुः । के ? तद्विदः तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः ॥ १ ॥

13th Chapter 0th Sloka

 

अर्जुन उवाच ।

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।

एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥१३.०॥

 

arjuna uvāca |

prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca |

etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13.0||

 

अर्जुनः 1/1 उवाच III/1 ।

प्रकृतिम् 2/1 पुरुषम् 2/1 च 0 एव 0 क्षेत्रम् 2/1 क्षेत्रज्ञम् 2/1 एव 0 च 0 ।

एतत् 2/1 वेदितुम् 0 इच्छामि I/1 ज्ञानम् 2/1 ज्ञेयम् 2/1 च 0 केशव S/1 ॥१३.०॥

 

·       अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·       प्रकृतिम् [prakṛtim] = prakṛti = प्रकृति (f.) + कर्मणि to वेदितुम् 2/1

·       पुरुषम् [puruṣam] = puruṣa = कर्मणि to वेदितुम् 2/1

·       च [ca] = and = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       क्षेत्रम् [kṣetram] = the field = कर्मणि to वेदितुम् 2/1

·       क्षेत्रज्ञम् [kṣetrajñam] = the knower of the field = कर्मणि to वेदितुम् 2/1

·       एव [eva] = indeed = अव्ययम्

·       च [ca] = and = अव्ययम्

·       एतत् [etat] = this = एतद् n. + कर्मणि to वेदितुम् 2/1

·       वेदितुम् [veditum] = to know = अव्ययम्

o   विद् (2P) to know + तुमुन्

·       इच्छामि [icchāmi] = I wish = इष् (6P) to wish + लट्/कर्तरि/I/1

·       ज्ञानम् [jñānam] = the means of knowledge = कर्मणि to वेदितुम् 2/1

o   ज्ञा (9P) to know + ल्युट् (3.3.117 करणाधिकरणयोश्च । ~ ल्युट् नपुंसके )

o   करणे ब्युत्पत्तिः

·       ज्ञेयम् [jñeyam] = what it to be known = कर्मणि to वेदितुम् 2/1

o   ज्ञा (9P) to know + यत् (3.1.97 अचो यत् । ~ कृत्याः)

o   ज्ञी + य                      6.4.65 ईद्यति । ~ आतः

o   ज्ञे + य                       7.3.84 सार्वधातुकार्धधातुकयोः । ~ गुणः

o   कर्मणि ब्युत्पत्तिः

·       च [ca] = and = अव्ययम्

·       केशव [keśava] = O Keśava! = केशव + सम्बोधने 1/1

 

 

Arjuna said:

I wish to know this, Keśava (Kṛṣṇa)! prakṛti and puruṣa; the field and the knower of the field; the means of knowledge and what it to be known.

 

Sentence 1:

Arjuna (अर्जुनः 1/1) said (उवाच III/1):

Sentence 2:

I wish (इच्छामि I/1) to know (वेदितुम् 0) this (एतत् 2/1), Keśava (Kṛṣṇa) (केशव S/1)! prakṛti (प्रकृतिम् 2/1) and (च 0 एव 0) puruṣa (पुरुषम् 2/1); the field (क्षेत्रम् 2/1) and (एव 0 च 0) the knower of the field (क्षेत्रज्ञम् 2/1); the means of knowledge (ज्ञानम् 2/1) and (च 0) what it to be known (ज्ञेयम् 2/1).