Monday, September 21, 2015

2nd Chapter 55th Sloka

श्रीभगवानुवाच ।

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२.५५॥

 

śrībhagavānuvāca |

prajahāti yadā kāmān sarvān pārtha manogatān |

ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2.55||

 

श्रीभगवान् 1/1 उवाच III/1

प्रजहाति III/1 यदा 0 कामान् 2/3 सर्वान् 2/3 पार्थ S/1 मनोगतान् 2/3

आत्मनि 7/1 एव 0 आत्मना 3/1 तुष्टः 1/1 स्थितप्रज्ञः 1/1 तदा 0 उच्यते III/1 ॥२.५५॥

 

 

·       श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1

o   श्रिया सहित भगवान् श्रीभगवान् ।

o   भगः अस्य अस्ति इति भगवान् ।

·       उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·       प्रजहाति [prajahāti] = gives up = प्र + हा (3P) to give up+ लट्/कर्तरि/III/1

·       यदा [yadā] = when = अव्ययम्

o   यद् + दा = यदा = यस्मिन् काले

·       कामान् [kāmān] = desires = कामा (m.) + कर्मणि to प्रजहाति 2/3

·       सर्वान् [sarvān] = all = सार्व (pron. m.) + adj. to कामान् 2/3

·       पार्थ [pārtha] = O! Pārtha = पार्थ (m.) + सम्बोधने 1/1

·       मनोगतान् [manogatān] = that which obtain in the mind = मनोगत (m.) + adj. to कामान् 2/3

·       आत्मनि [ātmani] = in oneself = आत्मन् (m.) + अधिकरणे to तुष्टः 7/1

·       एव [eva] = alone = अव्ययम्

·       आत्मना [ātmanā] = with oneself = आत्मन् (m.) + करणे to तुष्टः 3/1

·       तुष्टः [tuṣṭaḥ] = happy = तुष्ट (m.) + कर्तरि to प्रजहाति 1/1

·       स्थितप्रज्ञः [sthitaprajñaḥ] = person who has ascertained knowledge = स्थितप्रज्ञ (m.) + कर्मणि to उच्यते 1/1

o   स्थिता प्रज्ञा यस्य सः स्थितप्रज्ञः । 116B

·       तदा [tadā] = then = अव्ययम्

o   तद् + दा = तदा = तस्मिन् काले

·       उच्यते [ucyate] = is said to be = वच् (2P) to say + लट्/कर्मणि/III/1

 

 

Śrībhagavān said:

When a person gives up all the desires as they appear in the mind, Oh! Pārtha, happy in oneself, with oneself alone, that person is said to be one of ascertained knowledge.

 

Sentence 1:

श्रीभगवान् 1/1 उवाच III/1

Śrībhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

 

Sentence 2 (यत्-clause):

पार्थ S/1 आत्मना 3/1 एव 0 आत्मनि 7/1 तुष्टः 1/1 (सन्) यदा 0 सार्वान् 2/3 मनोगतान् 2/3 कामान् 2/3 प्रजहाति III/1

When (यदा 0) a person gives up (प्रजहाति III/1) all (सार्वान् 2/3) the desires (कामान् 2/3) as they appear in the mind (मनोगतान् 2/3), Oh! Pārtha (पार्थ S/1), happy (तुष्टः 1/1) in oneself (आत्मनि 7/1), with oneself (आत्मना 3/1) alone (एव 0),

Sentence 3 (तत्-clause):

तदा 0 स्थितप्रज्ञः 1/1 उच्यते III/1 ॥२.५५॥

Then (तदा 0) that person is said to be (उच्यते III/1) one of ascertained knowledge (स्थितप्रज्ञः 1/1).

 

 

यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तः, यश्च कर्मयोगेन, तयोः 'प्रजहाति' इत्यारभ्य अध्यायपरिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं चोपदिश्यते।

यः 1/1 हि 0 आदितः 0 एव 0 कर्माणि 2/3 संन्यस्य 0 ज्ञानयोगनिष्ठायाम् 7/1 प्रवृत्तः 1/1, यः 1/1 0 कर्मयोगेन 3/1, तयोः 6/2 'प्रजहाति (2.55)' इत्यारभ्य 0 0 (up to …) अध्यायपरिसमाप्तेः 5/1 स्थितप्रज्ञ-लक्षणम् 1/1 साधनम् 1/1 0 उपदिश्यते III/1

 

सर्वत्रैव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि उपदिश्यन्ते, यत्नसाध्यत्वात्। सर्वत्र 0 एव 0 हि 0 अध्यात्म-शास्त्रे 7/1 कृतार्थ-लक्षणानि 1/3 यानि 1/3 तानि 1/3 एव 0 साधनानि 1/3 उपदिश्यन्ते III/3, यत्न-साध्यत्वात् 5/1

 

यानि  यत्नसाध्यानि साधनानि लक्षणानि भवन्ति तानि --

यानि 1/3 यत्नसाध्यानि 1/3 साधनानि 1/3 लक्षणानि 1/3 0 भवन्ति III/3 तानि 1/3 --

 

श्री भगवानुवाच

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते।।2.55।।

प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान् मनसि प्रविष्टान् हृदि प्रविष्टान्।

प्रजहाति III/1 प्रकर्षेण 0 जहाति III/1 परित्यजति III/1 यदा 0 यस्मिन् 7/1 काले 7/1 सर्वान् 2/3 समस्तान् 2/3 कामान् 2/3 इच्छा-भेदान् 2/3 हे 0 पार्थ S/1, मनोगतान् 2/3 मनसि 7/1 प्रविष्टान् 2/3 हृदि 7/1 प्रविष्टान् 2/3

 

सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारणनिमित्तशेषे सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्ता, इत्यत उच्यते -- आत्मन्येव प्रत्यगात्मस्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वान् तदा उच्यते।

सर्व-काम-परित्यागे S7/1 तुष्टि-कारण-अभावात् H5/1 शरीर-धारण-निमित्त-शेषे S7/1 0 सति S7/1 उन्मत्त-प्रमत्तस्य 6/1 इव 0 प्रवृत्तिः 1/1 प्राप्ता 1/1, इति 0 अतः 0 उच्यते III/1आत्मनि V7/1 एव 0 प्रत्यगात्म-स्वरूपे V7/1 एव 0 आत्मना 3/1 स्वेन 3/1 एव 0 बाह्य-लाभ-निरपेक्षः 1/1 तुष्टः 1/1 परमार्थ-दर्शन-अमृत-रस-लाभेन 3/1 अन्यस्मात् 5/1 अलंप्रत्ययवान् 1/1 स्थित-प्रज्ञः m1/1 [स्थिता f1/1 प्रतिष्ठिता f1/1 आत्मानात्मविवेकजा f1/1 प्रज्ञा f1/1 यस्य 6/1 सः 1/1 स्थितप्रज्ञः 1/1] विद्वान् 1/1 तदा 0 उच्यते III/1

त्यक्तपुत्रवित्तलोकैषणः संन्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः।।

त्यक्त-पुत्र-वित्त-लोक-एषणः 1/1 संन्यासी 1/1 आत्मारामः 1/1 आत्मक्रीडः 1/1 स्थितप्रज्ञः 1/1 इत्यर्थः 1/1

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.